हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 500, कुल 506 में से
संदर्भ में पढ़ेंपरिशिष्टम्
८. हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः ।
भवेत् कविकुरङ्गाणां चापलं तत्र कारणम् ॥
६. सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः ।
वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥
१०. सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः ।
श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥ ( नवसाहसाङ्के )
११. प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः ।
सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः ॥
( वीरनारायणचरिते )
१२. युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः ।
बाणध्वनावन्ध्यायो भवतीति स्मृतियतः ॥
१३. रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।
तत्किं तरुणी, नहि नहि, वाणी बाणस्य मधुरशीलस्य ॥
१४. सहर्षचरिता शश्वत्कृतकादम्बरीकथा ।
बाणस्य वाण्यनार्यैव स्वच्छन्दं भ्रमति क्षितौ ॥
१५. बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः ।
सिन्धुमन्धुः किमन्वेति द्युमणिकतमो मणिः ॥ ( रघुनाथचरिते )
१६. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते ।
शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥
१७. केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन् ।
किं पुनः क्लृप्तसन्धानपुलिन्ध्रकृतसन्निधिः ॥ ( धनपालस्य )
१८. दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्टे त्वन्तरं बाणे कण्ठे वागेव रुध्यते ॥