हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 50, कुल 506 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः ५
नवोऽर्थो जातिरग्राम्या¹ श्लेषोऽक्लिष्टः स्फुटो रसः ।
विकटो²ऽक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥
नव इत्यादि । नव आद्यैः कविभिरनिबद्धः, चमत्कारी च । जातिः स्वभावोक्तिः ।
अग्राम्येति । न तु 'गतोऽस्तमर्कः' इत्यादिरूपा । सधर्मेषु तन्त्रप्रयोगः श्लेषः ।
अक्लिष्टः सम्यगनेकार्थप्रतिपादनक्षमः । स्फुटो दुर्बोधभङ्गथादिभिरदूषितः । रसः
शृङ्गारादिः । विकट उदारतालक्षणबन्धगुणयुक्तः । यत्र सति नृत्यन्तीव पदानि
प्रतिभासन्ते ॥ ८ ॥
नवीन अर्थ जिसे अबतक किसी कवि ने नहीं लिखा हो, अर्थात् चमत्कारी,
अग्राम्य जाति अर्थात् स्वभावोक्ति, बिना माथापच्ची के ही समझ में आ जाने वाला
श्लेष, सुबोध रस एवं आकर्षक शब्दों का संचयन-इन सब गुणों का एकत्र किसी
काव्य में होना कठिन है ॥ ८ ॥
किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी ।
कथेव भारती यस्य न व्योप्नोति³ जगत्त्रयम् ॥ ६ ॥
किमित्यादि । वृत्तानि वर्णमात्रागणसमार्धसमविषमरूपाणि तदन्तगमनं तद्वि-
रचनक्षमत्वम् । भारती वाणी । व्याप्नोति । अदृष्टमपि दृष्टमिव जगत्त्रयं प्रतिभानव-
शाद्युत्प्रेक्षेत तथात्वेन प्रकाशयति । यद्वा-जगत्त्रयप्रथिता भवतीति स्फुट एवार्थः ।
भरतानधिकृत्य प्रथिता भारती कथेव । सापि सर्वे ये वृत्तान्ताः सत्पुरुषचरितान्यु-
पाख्यानानि च तान्नामयति बोधयति । तथा सर्वत्र ज्ञेया भवति । तथा च-
'नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै
शुकः ॥' इत्युक्तम् ॥ ९ ॥
उस कवि के काव्य से क्या, जिसकी वाणी सब प्रकार के वृत्तान्तों वाली महाभारत
की कथा के समान तीनों जगत् में व्याप्त नहीं होती ॥ ९ ॥
उच्छ्वासान्तेऽप्यखिन्नास्ते येषां वक्त्रे सरस्वती ।
कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥ १० ॥
अधुना स्वगुरुतः स्वप्रभृतिभिः कृतानाख्यायिकादीन्काव्यभेदान्स्तुवन्ननौद्धत्यार्थं
सर्वत्र नमस्कारमाह-उच्छ्वासान्त इति । उच्छ्वास इवोच्छ्वासो विश्रान्तिस्थानं सर्गा-
दिवत्कथासन्धिरतस्यान्तेऽप्यखिन्ना उच्छ्वासान्तरकरणक्षमाः । अविच्छिन्नप्रतिभाना
इति यावत् । गुरुत्वाद्वहुवचनम् । 'नान्द्यन्ते शम्भुधैर्यक्रम' इति वक्रलक्षणम् । वक्त्रे
सरस्वती । वृत्तविशेषयोगिनीत्यर्थः । एतस्मिन्नाख्यायिकाकृद्भिर्भाविवस्तुसंसूचनाय
वाग्विरच्यते । तथा चाह भामहः- 'वक्रं चापरवक्रं च काव्ये काव्यार्थशंसिनि'
१. अग्राम्याः । २. विकटो । ३. प्रामोति दिगन्तरम् ।