हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 109, कुल 506 में से
संदर्भ में पढ़ें६४ हर्षचरितम्
ध्वनिः काकुरुदाहृता' । अत्र च क्षुद्र लक्ष्यते । बकस्य काकुः । बकच्छद्मा यैश्च
चिरवृत्तमाश्रितं ते क्षुद्रचारित्वादाम्रितबककाकवो भवन्त्येव । अमी तु न तथेति
विरोधः । कुक्कुटव्रतं नियमविशेषः । यत्र कुक्कुटाण्डप्रमाणग्रासभोजनम् । न बैडालो
हिंसावृत्तिर्येषां तैः, विरोधे तु कुक्कुटानां व्रतं भक्षणं येन कृतं स कथं बिडालवृत्तिर्न
स्यात् ? पङ्क्तिर्लोकप्रसिद्धो व्यवहारः, पाको वा । कपटो व्याजवृत्तिः । कूर्चाः स्फुटाः ।
आत्ममहिम्ना व्यवहारः, समूह इत्यन्ये । एतेष्वाकूतं परिहृतं यैः । गहरं पापम् ।
निकृतिः शाठ्यम् । प्रकृतिः स्वभावः । पराचीनं पराङ्मुखम् । अन्धोऽञ्झम् । धीरा
स्थिरा । धिषणा बुद्धिः । अध्येषणा याच्ञा । असङ्गसुकः स्थिरः, मृदुर्वा । शाखाः
कठाद्याः । संशीतिः संशयः । ग्रन्थिर्दुर्बोधः प्रदेशः । परिहासं विदन्ति, न तु स्वयं
कुर्वन्ति । परिचयः संस्तवः । सुकुमाराः, अङ्गन्द्भूटा इत्यर्थः । अबााद्याः, न तु
तदेकनिष्ठाः । ऐतिह्यमागमः । अनुक्रोशो दया । संमता इष्टाः । सौहार्दं प्रीतिः ।
सर्वे गुणा धैर्याद्याः । राज्ञां सेनया चानभिभूता ये च सर्वैर्गुणैः सत्त्वरजस्तमोभिर्यु-
क्तास्ते कथं राजसेन गुणेनानभिभूता भवन्तीति विरोधः । एवमुत्तरत्र विरोध उद्भा-
वनीयः । क्षमा क्षान्तिः, भूश्च । आश्रितानां नन्दना नन्दयितारः, देवोद्यानं नन्दनं
च । न निस्त्रिंशा अक्रूराः । विद्यां धारयन्तीति विद्याधराः पण्डिताः, निस्त्रिंशाश्च
खड्गा एव । ये च विद्याधरा देवभूतास्ते सखङ्गा एव । न त्वनिस्त्रिंशा इति माला-
खड्गगुलिकाञ्जनादिना भेदेन भिन्नानामपि विद्याधराणां खड्गहस्तत्वं न व्यभिच-
रति । अजडा अमन्दधियः, अशीताश्च । कलावन्तो गीताभिज्ञाः, कलावांश्चन्द्रः स
चाजडोऽशीत इति विरोधः । दोषा द्वेषाद्याः, रात्रिश्च । तारयन्तीति तारका
आचार्याः, नक्षत्राणि च । उपतापः पीडा, उष्णत्वं च । भास्वन्तस्तेजस्विनः, आदि-
त्याश्च । ते परांस्तापयन्ति । ऊष्मा स्मयः, दाहिकाशक्तिश्च । हुताशशब्देन हुतमिष्ट-
मुच्यते । हुतं भुञ्जते हुतभुजः, आहिताग्नयो वह्नयश्च । कुसृतिः शाठ्यम्, कौ भूमौ
सृतिः सरणम् । भोगिनः सुखिनः, सर्पाश्च । स्तम्भः स्तब्धता, सात्त्विको भावभे-
दश्च, अप्रणतिर्वा, गृहधारणकाष्ठं च । पुण्यालयाः सुकृतिनः, मठादिस्थानानि च ।
दक्षाश्वतुराः, प्रजापतिभेदश्च दक्षः । स च लुप्तक्रतुक्रियो हररोषजेन वीरभद्रेण ।
व्यालाः शठाः, सर्पाश्च । कामजितः संतुष्टाः, हरश्च कामजित् । असाधारणाः सर्वो-
त्कृष्टाः । द्विजातयो विप्राः । येषां च द्वे जाती तेषां कथं नासादृश्यम् ।
वत्स से विमल वंश का प्रादुर्भाव हुआ । वैदिक शाखाओं का अध्ययन करने वाले
सर्वत्र फैले हुए अपने पूर्वपुरुषों से वह वंश उत्कृष्ट था । सम्राट् उसका सम्मान करते थे ।
महामुनियों का भी बह मान्य था । विरोधियों को क्षुब्ध करने में वह समर्थ था । सारी
पृथिवी में वह फैल गया था । उसके कार्यों में कोई स्खलन नहीं था । इस प्रकार वह गंगा
के प्रवाह के समान था । उस वंश में वात्स्यायन नामक गृह मुनि अर्थात् गृहस्थ होते हुए