हारीत संहिता (महर्षि आत्रेय-हारीत मुनि संवाद - सम्पूर्ण ६ स्थान सटीक)
Harita Samhita of Sage Harita with Hindi Commentary
महर्षि हारीत / आत्रेय मुनि द्वारा
पृष्ठ 7, कुल 548 में से
संदर्भ में पढ़ेंश्रीधन्वन्तरिस्तवः ।
आविर्बभूव जगतः परिपालनाय
कृत्वा करे कलशमम्बुनिधेः सुधायाः ।
यश्चामरत्वकरणाय दिवि स्थितानां
धन्वन्तरिं तमहमाद्यविदं समीडे ॥ १ ॥
ये नाम केविदिह ते प्रथयन्त्यवज्ञां
विद्यानवद्यगदने विमुखाग्रगास्ते ।
वाचां भटाः स्वभवने विभवो भवन्तु
प्राप्स्यन्ति किं सुपदर्वी तव शिष्यकाणाम् ॥ २ ॥
दृष्टेदस्ति किमपिप्रथितुं प्रभूताः
सन्तीह तस्य करणे किल तेऽभिभूताः।
त्वन्नाथ किन्तु रचनाचतुराढ्यचक्र-
चूडामणिप्रखरकान्तिरसीति सत्यम् ॥ ३ ॥
अद्यापि यद्यपि विदो विचरन्ति वैद्याः
सन्तस्त्वनन्तमहतामपि ते भवन्तः ।
सन्तीह किन्तु बहवः किल वैद्यकल्पा
धन्वन्तरेऽवगतसत्त्वहरा हि दुःखम् ॥ ४ ॥
वाचामगोचरचरित्र न चित्रमत्र
यन्नास्तिका ननु भवन्ति चिकित्सकाज्ञाः ।
अम्भोमलापनयनप्रभविष्णुकोऽपि
पङ्कं प्रसादयति किं कतकः कदाचित् ॥ ५ ॥
अष्टाङ्गप्रङ्गरहितान्विहिताभिमाना-
न्मूढान्दरिद्रहृदयांश्च दयाविहीनान् ।
वैद्यान्नियम्य वितरिष्यति यः सुभावं
धन्वन्तरिः स भगवानवतु त्रिलोकीम् ॥ ६ ॥
कालीप्रसादकविना विहितः स्तवोऽयं
धन्वन्तरेर्भगवतः करुणामयस्य ।
श्रेयस्तनोतु भवतां भवतां बुधानां
धुन्वन्सुधामरझरीवचनस्तुतानाम् ॥ ७ ॥
कालीप्रसाद शास्त्री त्रिपाठी ।