सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 50, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 50

श्रीहम्मीरमहाकाव्यम्
प्रथमः सर्गः
सदाचिदानंदमहोदयैक-हेतुं परं ज्योतिरुपास्महे तत् ।
यस्मिन् शिवश्रीः सरसीव हंसी विशुद्धिकृद्धारिणि रंरमीति ॥ १ ॥
तज्ज्ञानविज्ञानकृतावधानाः संतः परब्रह्ममयं यमाहुः ।
पराश्रयः कृतभवावसानः स नाभिभूर्वस्त्वरतां शिवाय ॥ २ ॥
यशोदयास्फीतशुभप्रवृत्तिर्गोपालमालाचितपादपद्मः ।
श्रीवत्सलक्ष्मा पुरुषोत्तमः श्री-पार्श्वः श्रियं वस्त्रनुतादतन्वीं ॥ ३ ॥
उच्चैर्वृषो दर्पकदर्पहारी शिवानुयातो विलसद्विभूतिः ।
शुभ्रस्थितिर्निर्दलितांधकारः श्रीशांकरो वीरविभुर्विभूतये ॥ ४ ॥
सचक्रहत्प्रीतिकरैः प्रभावि-प्रभाविशेषैः सुभगंभविष्णुः ।
सम्यक्प्रबोधप्रथनप्रभूष्णु र्भास्वान् सशांतिः शमयत्वघानि ॥ ५ ॥
महेशचूडामणिचुंबिपादो ऽभ्रांतस्थितिः स्फीतशुभप्रचारः ।
महामहाध्वस्ततमसमूहः समुद्रजन्मा शशभृच्छ्रिये स्तात् ॥ ६ ॥
लसत्कविस्तोमकृतोरुभक्ति र्नालीकसंपत्सुभगंभविष्णुः ।
स्वदर्शनेन त्रिजगत्पुनाना सरस्वती नो नयतात्प्रसत्तिं ॥ ७ ॥
माधांतृसीतापतिर्कर्कमुख्याः क्षितौ क्षितींद्राः कतिनाम नासन् ।
तेषु स्तवार्हः परमेष सत्व-गुणेन हम्मीर महीभृदेकः ॥ ८ ॥
सत्त्वैकवृत्तेः किल यस्य राज्य-श्रियो विलासा अपि जीवितं च ।
शकाय पुत्रीं शरणागतांश्च प्रयच्छतः किं तृणमप्यभूवन् ॥ ९ ॥
1 A.