सामग्री पर जाएँ
सर्वकोश
गुप्त अभिलेख संग्रह (जे. एफ. फ्लीट - गुप्त सम्राटों एवं परवर्ती नरेशों के ऐतिहासिक पाषाण व ताम्रलेख)

गुप्त अभिलेख संग्रह (जे. एफ. फ्लीट - गुप्त सम्राटों एवं परवर्ती नरेशों के ऐतिहासिक पाषाण व ताम्रलेख)

Inscriptions of the Early Gupta Kings by J.F. Fleet (CII Vol III)

जॉन फेथफुल फ्लीट (Corpus Inscriptionum Indicarum Vol III) द्वारा

DevanagariSanskritpublished691 पृष्ठ

पृष्ठ 371, कुल 691 में से

संदर्भ में पढ़ें
पृष्ठ 371

Corpus Inscriptionum Indicarum, Vol. III

Plate XX: Khoh Plate of the Maharaja Sarvanatha — The Year 214


Header & Margins

  • Top Header:
    Vol. III.
    CORPUS INSCRIPTIONUM INDICARUM
    Plate xx
    Khoh Plate of the Maharaja Sarvanatha:—The Year 214
  • Scale & Technical Credits (inverted on plate):
    • SCALE .75
    • W. GRIGGS, PHOTO-LITH.
    • J. F. FLEET BO. C.S.

First Plate (Lines 1–15)

ओं स्वस्ति [॥] उच्छकल्पात्सपादपद्मोपजीव्यानेकगोसहस्रहस्त्यश्वहिरण्यादिप्रदस्य महाराजौघदेव[स्तस्य पुत्रस्तत्पादानु]-
ध्यातो महादेव्यामोघदेव्यां समुत्पन्नो महाराजकुमारदेवस्तस्य पुत्रस्तत्पादानुध्यातो महा[देव्यां कुमारदे]-
व्यां जयस्वामिन्यां समुत्पन्नो महाराजजयस्वामि तस्य पुत्रस्तत्पादानुध्यातो महादेव्यां जय[स्वामिन्यां जयदेव्यां]
समुत्पन्नो महाराजव्याघ्रस्तस्य पुत्रस्तत्पादानुध्यातो महादेव्यां व्याघ्रदेव्यां समुत्पन्नो म[हाराजज]-
यनाथस्तस्य पुत्रस्तत्पादानुध्यातो महादेव्यां जयनार्थदेव्यां समुत्पन्नः परमभागवतो म[हाराजशर्व्वनाथः]
कुशल्यस्मिन्नेवाश्रमकविषयसम्बद्ध-व्याघ्रपल्लिकायां प्रतिवासिनः कुडुम्बिनः समा[ज्ञापयति विदि]-
तमस्तु वो यथैष ग्रामो मया मातापित्रोरात्मनश्च पुण्याप्यायनायात्रेव भगवत्याः पिष्टपुर्याः पु[ण्य]-
गन्धाक्षतधूपदीपमाल्यानुलेपनादिसन्ततोपयोगाय खण्डस्फुटित-संस्कार-करणाय चो[च्छ]-
कल्पकेय-विष्णुनान्दि-पौत्र-प्रियात्मज-शुक्रेणोत्सृष्टः पूर्व्वदत्त-भोग-भागेन यतोस्माभिरेत[स्य]
धर्मार्थमेवैतस्य ग्रामस्यायमुदकातिसर्गेणातिसृष्टः सोद्रङ्गः सोपरिकरः अचोरदण्डव[र्ज्यः]
पूर्व्वप्रत्यंश-वर्ज्जः अचाटभटप्रावेश्यः अनुचितकरविष्टिकर-वर्ज्जितः आचन्द्रार्क[क्षितिसम]-
कालीनः पुत्रपौत्रान्वयभोग्यः [॥] तदेवं ज्ञात्वा भवद्भिरेतस्य ग्रामस्यानुज्ञा-श्रवण-विधेयैर्भू[त्वा]
यथोचित-भोग-भाग-कर-हिरण्याद्युपनेयं [॥
] भविष्यतश्च राज्ञः सम्बोधयति [।] तद्यथा [।] अस्म[त्कुल]-
जातानुवर्त्तिभिर्द्दान-रुचिभिः स्वपुण्य-यशः-प्रवर्द्धमानैरिदमनुमोदितव्यं परिपालयि[तव्यं च ॥]
यश्चास्य लोभादज्ञानाद्वा परिपन्थां कुर्य्यात्कारयेद्वा स पञ्चभिर्म्महापात कैरुपपातकैश्च [युक्तः स्यादिति ॥]


Second Plate (Lines 16–29)

उक्तञ्च महाभारते भगवता परमर्षिणा वेदव्यासेन व्यासेन [॥]
पूर्व्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर [।] महीं महिमतां श्रेष्ठ दानाच्छ्रेयोनुपालनं [॥]
बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः [।] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं [॥]
षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः [।] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [॥]
स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां [।] स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते [॥]
विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः [।] कृष्णाहयो हि जायन्ते भूमिदानं हरन्ति ये [॥]
अस्मत्कुल-समुत्थैस्तु भूपादैरपि यत्नतः [।] आचन्द्रार्कमयं धर्म्यः पालयितव्यो यशोर्त्थिभिः [॥]
संवत्सर-शते चतुर्द्दशोत्तरे द्विशते पौष-मास-शुक्ल-पक्ष-द्वितीयायाम् [॥]
संवत् २१० ४ पौष शु दि २ [॥]
दूतकोत्र महाबलाधिकृत-नागसिंहः [॥]
लिखितमिदं शासनं सन्धिविग्रहिकाक्षपटलाधिकृत-भोगिक-पुत्रेण
सन्धिविग्रहिकाक्षपटलाधिकृत-मनोरथेन [॥]
उत्कीर्ण्णं सूर्य्यदत्तेन [॥]
ओं नमः परदैवतेभ्यः [॥]