गुप्त अभिलेख संग्रह (जे. एफ. फ्लीट - गुप्त सम्राटों एवं परवर्ती नरेशों के ऐतिहासिक पाषाण व ताम्रलेख)
Inscriptions of the Early Gupta Kings by J.F. Fleet (CII Vol III)
जॉन फेथफुल फ्लीट (Corpus Inscriptionum Indicarum Vol III) द्वारा
पृष्ठ 357, कुल 691 में से
संदर्भ में पढ़ेंCorpus Inscriptionum Indicarum, Vol. III
Plate xviii
Khoh Plates of the Mahārāja Śarvanātha:—The Year 193
Plate I
ओं स्वस्ति [॥] जयत्युदधिसम्पन्नः श्रीमांस्त्रैलोक्यभावनः [।] शम्भुर्मुकुटसङ्क्रान्त-
चन्द्रांशुजलनिम्नगः [॥] शश्वत्प्रसन्नहृदयः समरेष्वपराजितः [।] महा-
राजौघदेवस्तु सङ्ग्रामजयसाधकः [॥] तत्पुत्रः प्रणताशेषनृप-
मौलिप्रसाधनः [।] कुमारदेव्यामुत्पन्नः श्रीमान्कुमारदेवराट् [॥]
जयति प्रमथितारातिर्ज्जयस्वामिनि यः सुतः [।] महा-
राजो जयस्वाथ्याञ्जातो जयति भूतले [॥] तत्पुत्रः शर-
दभ्राभ्रशुभ्रकीर्त्तिर्यशोन्वितः [।] श्रीशर्व्वदत्तभार्यायां
व्याघ्रो व्याघ्रपराक्रमः [॥] तत्पुत्रो ऽमित्रदमनीपुत्र-
श्छत्रधरो भुवि [।] जयनाथ इति ख्यातो जयत्यमित-
विक्रमः [॥] तस्य पुत्रः परं तेजः शरण्यो रिपुमर्द्दनः [।]
मुकुटेनेव यो दीप्तः पृथिव्यां पृथिवीपतिः [॥] श्री-
मुण्डदेवीगर्भोत्थो महावैश्वानरद्युतिः [।] शर्व्वनाथ
इति ख्यातो जयत्यादित्यसन्निभः [॥] स सर्व्वानेवास्मत्सन्त-
कान्महाराजपुत्रराजस्थानीयसामन्तमहाप्रतीहार-
महादण्डनायकतरवरिककुमारामात्यराज-
Plate II
दूतायुक्तकप्रमातृचोरद्धरणिकभटच्छात्रांश्च
समाज्ञापयति [।] विदितमस्तु वो यथास्माभिः काश्यपसगो-
त्राय वाजसनेयमाध्यन्दिनशाखाध्यायिब्राह्मण-
विष्णुचन्द्राय तस्य पुत्राय प्रियशर्म्मणे ऽस्माभिः
पुत्रपौत्रान्वयोपभोगाय आचन्द्रार्कक्षिति-
स्थितिसमकालीनो ऽयं सोद्द्रङ्गः सपरिकरः
अचोरदण्डवर्जं भागभोगकरहिरण्याद्य-
देयसमेतः आश्रमो ऽतिसृष्टः [।] यतो ऽस्मद्वंश्यैः
कालेन बहुनापि न व्याघातः कर्त्तव्यः [।] यश्चास्म-
त्कुलप्रसूतः समुत्पद्येत स चापि न्यायं
समनुपालयेत् [।] यश्चैनं परिपन्थी स्यात्स
पञ्चभिर्महापातकैरुपपातकैश्च संयुक्तः
स्यात् [॥] उक्तञ्च भगवता व्यासेन [।] पूर्व्वदत्तां द्विजातिभ्यो
यत्नाद्रक्ष युधिष्ठिर [।] महीं महिमतां श्रेष्ठ दानाच्छ्रे-
योनुपालनम् [॥] षष्टिं वर्षसहस्राणि स्वर्गे मोद-
ति भूमिदः [।] आच्छेत्ता चानुमन्ता च तान्येव नरके व-
सेत् [॥] सम्वत् १०० ९० ३ कार्त्तिक दि १० [॥]
Seal (Oval Ring)
Legend (partially defaced):
महाराजशर्व्वनाथस्य (Mahārāja-Śarvanāthasya)
Genealogy and Historical Summary
- Dynasty: Mahārājas of Uchchakalpa (उच्छकल्प)
- Genealogical Succession:
- Mahārāja Oghadeva (महाराजौघदेव)
- Mahārāja Kumāradeva (son of Oghadeva and Kumāradevī)
- Mahārāja Jayasvāmin (son of Kumāradeva and Jayasvāminī)
- Mahārāja Vyāghra (son of Jayasvāmin and Śarvadattā)
- Mahārāja Jayanātha (son of Vyāghra and Ajjhitadevī / Amitradamanī)
- Mahārāja Śarvanātha (son of Jayanātha and Muruṇḍadevī / Muṇḍadevī)
- Date: Year 193 (Gupta/Kalachuri-Chedi Era), month of Kārttika, the 10th solar/tithi day (
सम्वत् १९३ कार्त्तिक दि १०).