गुप्त अभिलेख संग्रह (जे. एफ. फ्लीट - गुप्त सम्राटों एवं परवर्ती नरेशों के ऐतिहासिक पाषाण व ताम्रलेख)
Inscriptions of the Early Gupta Kings by J.F. Fleet (CII Vol III)
जॉन फेथफुल फ्लीट (Corpus Inscriptionum Indicarum Vol III) द्वारा
पृष्ठ 307, कुल 691 में से
संदर्भ में पढ़ेंVol. III. CORPUS INSCRIPTIONUM INDICARUM. Plate XII.
A.—Eran Pillar Inscription of Budhagupta.—The Year 165.
TEXT (Inscription A)
जयति विभुश्चतुर्भुजश्चतुरर्णवविपुलसलिलपर्य्यङ्कः [।*] जगत्स्थितिसर्गादिहेतुरुन्नतकेतुर्जगद्गर्भः [॥*]
भूपतौ बुधगुप्ते च कालिन्दीनर्म्मदयोर्मध्ये [।*] पालयति पृथिवीं पृथिवीपतौ पृथुयशोहेतौ [॥*]
सम्वत्सरशते पञ्चषष्ट्यधिके १ षष्ट्यधिके वैशाखमासशुक्लपक्षद्वादश्याम् [।*] सुरगुरोर्द्दिवसे सुरारिविमर्दिनः पुण्ये [॥*]
नृपतेर्म्महाराजशर्मणो नप्तारं कुलधरस्य पुत्रं च [।*] मातृविष्णोर्ज्ज्येष्ठं भ्रातरमपि च धन्यविष्णुम् [॥*]
धर्म्मध्वजमिममग्रतो भगवतो जनार्द्दनस्य [।*] स्थापितवन्तौ स्वपुण्यवृद्धये कुलवृद्धये चैव [॥*]
मातुलस्यात्मनश्चापि पुण्यकीर्त्तिविवृद्धये [।*] यदत्र पुण्यं तद्भवतु सर्व्वलोकानां श्रेयसे [॥*]
स्वस्ति गोब्राह्मणपुरोगाभ्यः सर्व्वप्रजाभ्य इति [॥*]
SCALE .25
B.—Eran Posthumous Pillar Inscription of Goparāja.—The Year 191.
TEXT (Inscription B)
ओं [।*] श्रीसर्व्वराजप्रतिपक्षशत्रुः प्रख्यातककर्म्मा पृथुचारुकीर्त्तिः [।*]
बभूव गोपराजो नाम्ना पार्थसमो बली [॥*]
भानुगुप्तो महावीरो जगत्प्रख्यातपुरुषः [।*]
तेन सार्द्धं महाराज गोपराजोऽनुसंस्थितः [॥*]
युद्ध्वा सुतुमुले युद्धे स्वर्गतो ह्यरिघातिनः [।*]
भक्ता चानुरक्ता च प्रिया च विपुलोत्तमा [।*]
लग्नानुगता भार्य्या हुताशं प्रविष्टा [॥*]