सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 307, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 307

२७६ अह्रैणावाबाधः । [ ४ प्रपाठके
भरामैध्मं कृणवामा हवींषिते चितयन्तः पर्वणा पर्वणा वयम् ॥
जावातवे प्रतरां साधया धियोऽग्ने सख्ये मारिषामा वयन्तव ॥ ३ ॥
शकेम त्वा समिधं साधया धियस्ते देवा हविरदन्त्याहुतम् ॥
त्वमादित्याँ२॥ आवहताँ२॥ ह्यस्मस्यग्ने सख्येमारिषामा वयन्तव ॥४॥
इति । आसामर्थाः । वयम् 'इमं' (१)स्तुतिविशेषं 'सम्महेसा' सम्महेम ।
सम्यक् पूजोपकरणयुक्तं कुर्याम । छान्दसोदीर्घः ( पा० ६।३।१०७ ) एवमग्रे-
ऽपि । 'हि' यतः । 'नः' अस्माकम् । 'अस्य' अग्नेः सकाशात् । 'भद्रा' कल्या-
णी 'प्रमतिः' प्रकृष्टा बुद्धिः। 'संसदि' सभायां (२) (जनसमाजे) "जायते" इति
शेषः । जया वयमपि स्तोतुं प्रभवाम इति भावः