सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 301, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 301

२४० अर्हणाविधिः । [ ४ प्रपाठके
तीकैरेव पानमवगम्यते । “श्रीर्भवाऽसी”-ति खल्वस्मच्छाखायाम्मन्त्रपाठः ।
अतस्तत्रैव होरिलपद्धतेरुक्तिर्योजनीया। तत्र प्रमाणञ्च—
“यशसोयशोऽसीति त्रि-स्तूष्णी बहुचतुर्थकम् ।
कनिष्ठादिभिरङ्गुष्ठयोगेन तिसृभिः क्रमात् ॥
मधुपर्कप्रयोगेतु पाशने विधिरिष्यते ॥”
इति परिशिष्टान्तरवचनमिति बोध्यम् ॥ १५ ॥
तूष्णीञ्चतुर्थम् ॥ १६ ॥
मधुपर्कस्य पिबेत् ॥ १६ ॥
भूयएवाभिपीय शेषं ब्राह्मणाय दद्यात् ॥ १७ ॥
भूय. । पुनरपि । एवकारकरणात्तूष्णीमेव । अभिपीय आभिमुख्येन पीत्वा
शेषमवशिष्टम् । ब्राह्मणायेति । ब्राह्मणपदं पुत्रादिपरम्। “नोच्छिष्टं कस्यचिद् दद्याद्
न्यत्र जायापुत्रशिष्येभ्यः” इति स्मरणात् । “उच्छिष्टमगुरोर्भोज्यम्”-ति वसि
ष्ठवचनाच्च । तदभावे पुनरब्राह्मणायापि दद्यात् । तच्चाद्भिः प्रोक्ष्येतिविशेषः ।
तथा च द्राह्मायणसूत्रम् “तदभावेऽद्भिः संप्रोक्ष्य-(१)ब्राह्मणाये”-(१।२।२१।
ति । लाट्यायनोऽप्येवमेव । ( १।३।११ ) सर्वोभावे “प्राग्वाऽसञ्चरे निनये
दिति पारस्करीयेव गतिरन्यशाखीयाऽप्यविरोधिनीति । वीरपद्धतिरप्येव
मेव । “मधुपर्कशेषमसञ्च(२)रदेशे धारयेदि”ति ॥ १६ ॥
आचान्तोदकाय गौरितिनापितस्त्रिर्ब्रूयात् ॥ १८ ॥
अत्र सप्तम्यर्थे चतुर्थी । अर्हणीये कृताचमने सति । यद्वा तादर्थ्ये चतु
र्थी । यथा स शृणोति तथेति ( तदर्थम् ) अनेनोच्चैस्त्वं वचनस्य व्यक्तम् ।
क्रियाग्रहणाद्वा चतुर्थी ( पा० १।४।३२ वा० ) मधुपर्कभक्षणेनोच्छिष्टतापहत्या
आचमनं विधीयते नचानेन ( भोजनेन ) भुक्त्वा कर्म्माचरणदोष इत्युक्तमध-
स्तात् ( २।३।१७ ) ॥ १८ ॥
नापितेन त्रिर्गौरित्युक्ते खल्वयमर्हणीयस्तमेव नापितमुद्दिश्य—
“मुञ्च गां वरुणपाशाद्द्विषन्तं मेऽभिधेही”ति ।
तज्जह्यमुष्यचोभयोरुत्सृज गामत्तु तृणानि पिबत्त्वदकम्”-तिब्रूयात् १८
( मं ब्रा २।८।१२)
“मुञ्चगामि”ति मन्त्रं ब्रूयात् । मन्त्रार्थस्तु-अर्हणीयोनापितं वदति-एतां


( १ ) अत्र शूद्रवर्जमिति तद्भाष्यात्क्षत्रियवैश्ययोरन्यतरायेति प्रतीयते । युक्तञ्चैतत् ।
‘नञिवयुक्तमन्यसदृशाधिकरणे, तथाह्यर्थगतिः’ इतिपाणिनीयपरिभाषणात् । महाभाष्य
ऽपि “नह्यब्राह्मणमानयेत्युक्ते लोष्टमानीयकृतीभवति”-त्युक्तत्वेन तद्भिन्नस्य तत्सदृशस्यैव
ग्रहणम्भवतीति ॥ ( २ ) जनसञ्चारवर्जिते ॥