गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)
Gita Govinda of Jayadeva with Hindi Commentary
महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 440, कुल 448 में से
संदर्भ में पढ़ें४०८ श्रीगीतगोविन्दम्
यद्गान्धर्व-कलासु कौशलमनुध्यानं च यद्वैष्णवं
यच्छृङ्गार विवेक-तत्त्व-रचना-काव्येषु लीलायितम्।
तत्सर्वं जयदेव पण्डित-कवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥२॥
अन्वय—[अथोपसंहारेऽपि स्वाभीष्टोपासनायाः सर्वोत्तमता
निश्चयावेशेन कारुण्योदयात् तत्र सन्दिहानान् भक्तरसिकजनान्
प्रत्याह]—भोः सुधियः (श्रीकृष्णभक्तिरसोल्लासितचित्ताः साधवः)
[भवन्तः] सानन्दाः (आनन्देन सहिताः सन्तः) कृष्णैकतानात्मनः
(कृष्णे एकतानः एकाग्रः अनन्यवृत्तिरिति यावत् आत्मा मनः
यस्य तस्य; श्रीकृष्णैकान्तभक्तस्यैव सर्वगुणाश्रयत्वादित्यर्थः;
यस्यास्ति भक्तिर्भगवत्यकिञ्चने इत्युक्तेः) जयदेव-पण्डितकवेः
(पण्डासद-सद्विवेचिका बुद्धिः तया अन्वितः कविः सत्काव्य-
कर्त्ता; जयदेव एव पण्डितकविस्तस्य) श्रीगीतगोविन्दतः (श्रीगीत-
गोविन्द-ग्रन्थात्) [वक्ष्यमाणं] तत् सर्वं परिशोधयन्तु (परि
सर्वतोभावेन शोधयन्तु आशङ्कापङ्कमुद्धार्य निश्चिन्वन्तु इत्यर्थः)
[तत् किमित्याह]—यत् गान्धर्वकलासु (सङ्गीतशास्त्रोक्त- गीतराग-
तालादिषु) कौशलं (नैपुण्यं) [तदेव निर्बन्धानुसारेण जानन्तु
इत्यर्थः]; [न केवलमेतत्, अपि तु] यत् वैष्णवं (वेवेष्टि
विश्वं व्याप्नोतीति विष्णुः; सर्वव्यापनशीलस्य विष्णोः अचिन्त्या-
नन्तशक्तेः स्वयं भगवतः श्रीकृष्णस्य भजन-विषयकं) अनुध्यानं
(अनुचिन्तनं स्वाभीष्ट-तल्लीलाविचार-समाधानात् अनुक्षण-
चिन्तनमित्यर्थः) [तदपि एतद्दृष्ट्येव निश्चिन्वन्तु; नित्यत्व-
सर्वोत्तमत्वनिश्चयात् द्रढ़ीकुर्वन्तु इतिभावः] यदपि शृङ्गारविवेकतत्त्वं
(तत्रापि दुरूहगतेः शृङ्गारस्य-महाप्रेमरसस्य विवेके विचारे यत्
तत्त्वं दुरूहातिदुरूह-व्रजलीलागतं) [तदपि निश्चिन्वन्तु]; काव्येषु
यत् लीलायितं (विलसितं, रासलीलादि-व्यञ्जनाविशेष ग्रथनं)
[तदपि परिशेषयन्तु एतदनुसारेण निश्चिन्वन्तु] ॥२॥
अनुवाद—जो गान्धर्व कलाओंमें कौशल हैं, श्रीकृष्णका
जो ध्यान है, शृङ्गार रसका जो वास्तविक तत्त्व-विवेचन है,