सामग्री पर जाएँ
सर्वकोश
गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)

गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)

Gita Govinda of Jayadeva with Hindi Commentary

महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 33, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 33

श्रीश्रीगुरु-गौराङ्गौ-जयतः
श्रीश्रीगीतगोविन्दम्
प्रथमः सर्गः
सामोद-दामोदरः
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तंभीरुरयं, त्वमेव तदिमं राधे! गृहं प्रापय।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः ॥१ ॥
अन्वय—[कदाचित् बालगोपालेन सह गोष्ठस्थितो नन्दः
सायं समये मेघाडम्बरमालोक्य स्वयं कार्यान्तरव्यासक्ततया
नन्दनं गृहं नेतुमशक्तः किमपि कार्यमुद्दिश्य तत्रोपस्थितां राधां
प्रति आह];—अम्बरं (आकाशतलं) मेघैः मेदुरं (निविड़-
तमसाच्छन्नतया सान्द्र-स्निग्धं) वनभुवः (आरण्य-प्रदेशाः)
तमालद्रुमैः (घनसन्निविष्टैः तमालवृक्षैः) श्यामाः (गाढ़नीलवर्णाः)
[तथा च] अयं [मम शिशुः] नक्तं (सप्तम्यन्तमव्ययम्, रात्रौ
इत्यर्थः) भीरुः (नितरां भयशीलः) (पूर्वरात्रे) त्वां विहाय
अन्याभिः कृतरमणापराधतया त्वत्कृत-बहु-नायिकावल्लभा-
रोपणाशङ्की अतएव भीरुः]; तत् (तस्मात्) हे राधे, त्वमेव
इमं (बालगोपालं) गृहं (आलयं) प्रापय (नय); इत्थं (एवं)
नन्दनिदेशतः (नन्दस्य आज्ञया); [अथवा नन्दयतीति नन्दः,
नन्दश्चासौ निदेशश्चेति नन्दनिदेशः श्रीराधासखावचनं तस्मात्]
प्रत्यध्वकुञ्जद्रुमं (कुञ्जेनोपलक्षितो द्रुमः कुञ्जद्रुमः, अध्वनः
कुञ्जद्रुमोऽध्वकुञ्ज-द्रुमः, तं लक्षीकृत्य तत्रेत्यर्थः) चलितयोः
(प्रस्थितयोः) राधामाधवयोः यमुनाकूले रहःकेलयः (विजनविहाराः)