गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)
Gita Govinda of Jayadeva with Hindi Commentary
महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 253, कुल 448 में से
संदर्भ में पढ़ेंषष्ठः सर्गः-धृष्ट-वैकुण्ठः २२१
प्रस्तुत श्लोकमें शार्दूलविक्रीड़ित छन्द और समुच्चय
अलङ्कार है।
किं विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमीरुहे।
भ्रातर्याहि न दृष्टि-गोचरभितः सानन्द-नन्दास्पदम् ॥
राधाया वचनं तदध्वग-मुखानन्दान्तिके गोपतो।
गोविन्दस्य जयति सायमतिथि-प्राशस्त्य-गर्भा गिरः ?
इति श्रीगीतगोविन्दे द्वादशः सन्दर्भः।
इति श्रीगीतगोविन्दे महाकाव्ये वासकसज्जावर्णने धृष्ट-वैकुण्ठो
नाम षष्ठः सर्गः॥
अन्वय—[इदानीं कविः एतद्वर्णन-व्याकुलः तस्य अभिसारात्
पूर्वचरितं कथयन् सर्गान्ते आशिषं प्रयुङ्क्ते]—हे भ्रातः (पथिक !)
कृष्णभोगि भवने (कृष्णसर्पस्य आश्रयस्थाने; पक्षे सम्भोगविशिष्टस्य
श्रीकृष्णस्य भवने विहरणस्थाने) भाण्डीर-भूमीरुहे (भाण्डीर-वृक्षे
लक्षणया तदीय तले इत्यर्थः) किं (कथं) विश्राम्यसि (विश्रामं
माकुरु इत्यर्थः) [तर्हि इदानीं क्व यामि इत्यत आह]—इतः
(अस्मात् स्थानात्) दृष्टिगोचरं (इतो दृश्यते इति भावः)
सानन्द-नन्दास्पदं (आनन्देन सह वर्त्तमानं नन्दस्य आस्पदं गृहं;
पक्षे उत्सवपूर्णमानन्दनिकेतनं) किं (कथं) न यासि [येन तव
शङ्का न भवेदिति भावः]। राधायाः तत् (एतत्) वचनम्
(सङ्केतवाक्यम्) अध्वग-मुखात् (पथिकवदनात्, पथिक-वेशिन्या
दूत्या मुखादिति भावः) नन्दान्तिके (नन्दसमीपे) गोपतः
(गोपयतः) गोविन्दस्य सायं (सन्ध्यासमये) अतिथि-प्राशस्त्य-गर्भा
(अतिथेस्तस्यैव प्राशस्त्यं प्रशंसादिरूपं तदेव गर्भोऽभिप्रायो
यासां ताः) गिरः (वाचः) जयन्ति (श्रीराधाया मनोरथं
पूरयन्ति) [अतएव धृष्टः प्रगल्भो वैकुण्ठो यत्र इत्यायं सर्गः
षष्ठः] ॥३॥
अनुवाद—श्रीराधाने सखीका विलम्ब देखकर श्रीकृष्णके
समीप बहाना बनाकर एक दूतीको भेजा। उस दूतीने