गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)
Gita Govinda of Jayadeva with Hindi Commentary
महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 123, कुल 448 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः
(अक्लेश-केशवः)
विहरति वने राधा साधारण-प्रणये हरौ
विगलित-निजोत्कर्षादीर्ष्यावशेन गतान्यतः।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रत-मण्डली-
मुखर-शिखरे लीना दीनाप्युवाच रहः सखीम् ॥१॥
अन्वय—[अथ सखीवचनं निशम्य श्रीकृष्णस्य साधारण-
विहरणं विलोक्य ईर्ष्यादयात् तद्दर्शनमप्यसहमाना अन्यतोगता
राधा सखीमुवाच]—साधारण-प्रणये (साधारणः समानः सर्वास्वेव
गोपाङ्गनासु इति शेषः प्रणयः प्रीतिः यस्य तथाभूते) हरौ
(कृष्णे) वने विहरति (विहारं कुर्वति सति) राधा विगलित-
निजोत्कर्षात् (विगलितो निजोत्कर्षः अहमेव असाधारणी
प्रिया इत्येवं रूपेण यतस्तस्मादित्यर्थः (ईर्ष्यावशेन) (अन्योत्कर्षा-
सहिष्णुताया) दीना (कातरा) [सती] [प्रणयतारतम्यादपि विहारस्य
साम्यव्यवहरणात् श्रीकृष्णस्य स्वभावान्यथात्वदर्शनाक्षमतया] अन्यतः
(अन्यस्मिन्) गुञ्जन्मधुव्रत-मण्डली-मुखर-शिखरे (गुञ्जन्तो
ये मधुव्रताः (भ्रमरास्तेषां मण्डलीभिः श्रेणीभिः मुखरं ध्वनितं
शिखरम् अग्रं यस्य तादृशे) क्वचिदपि लताकुञ्जे लीना
लुक्कायिता सती) रहः (निर्जने) सखीम् [अत्यन्तगोप्यमपि]
उवाच ॥१॥
अनुवाद—समस्त गोपाङ्गनाओंके साथ एक समान स्नेहमय
श्रीकृष्णको वृन्दाविपिनमें विहार करते हुए देखकर अन्य
गोपिकाओंकी अपेक्षा अपना वैशिष्ट्य न होनेसे प्रणय-कोपके
आवेशमें वहाँसे दूर जाकर भ्रमर-मण्डलीसे गुञ्जित दूसरे
लताकुञ्जमें श्रीराधा छिप गयी एवं अति दीन होकर
गोपनीय बातोंको भी सखीसे कहने लगी।