सामग्री पर जाएँ
सर्वकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 339, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 339

२७२ | गौतमधर्मसूत्राणि

कियत्यप्येकादशी तदा पूर्वेद्युरेकादश्यां प्रनिविष्टायामेकादश ग्रासा-
न्भुक्त्वाऽपरेद्युरपि तानेवैकादश भुञ्जीत । तस्यापरेद्युर्द्वादशेति प्रयोगः ।
यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः ।
मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥
इति मानवे चान्द्रायणान्तरं विधीयते । न पुनरुपचयापचयरूप
उक्ते चान्द्रायणे पिण्डसंख्यानियमः । तथा च याज्ञवल्क्येन स्पष्टमुक्तम्—
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैकेन भुञ्जीत चान्द्रायणमथापरम् ॥ इति ॥ १२ ॥
पौर्णमासी के दिन पन्द्रह ग्रास खाकर मास के कृष्णपक्ष में प्रतिदिन एक-
एक ग्रास कम करता जाये ॥ १२॥

अमावास्यायामुपोष्यैकोपचयेन पूर्वपक्षम् ॥ १३ ॥

एवमेकापचयेन ग्रस्यमानेषु चतुर्दश्यामेको ग्रासो भवति । अमावा-
स्यायामुपवासः अमावास्यायामुपोष्य पूर्वपक्षप्रतिपद्येकं ग्रासमशित्वैकै-
कोपचयेनैकेकग्रासवृद्ध्या कृत्स्नमेव पूर्वपक्षमश्नीयात् । पौर्णमास्यां
पञ्चदश भवन्ति । तदेतत्तनुमध्यत्वात्पिपीलिकामध्यं चान्द्रायणम् ॥ १३ ॥
अमावास्या के दिन उपवास करे और शुक्लपक्ष में प्रतिदिन एक-एक ग्रास
बढ़ाता जाये ॥ १३ ॥

विपरीतमेकेषाम् ॥ १४ ॥

एकेषामाचार्याणां मतेनेदमेव विधानं विपरीतं भवति । अमावा-
स्यायामुपोष्यैकोपचयेन पूर्वपक्षमशित्वा कृष्णप्रतिपदमारभ्यैकापचयेना-
परपक्षमश्नीयाच्चतुर्दश्यामेको ग्रासो भवति । अमावास्यायामुपवासः ।
तदेतत्स्थूलमध्यत्वाद्यवमध्यं चान्द्रायणम् ॥ १४ ॥
कुछ आचार्यों के अनुसार यह क्रम इसके विपरीत होना चाहिए ॥ १४ ॥

एवं चान्द्रायणो मासः ॥ १५ ॥

एवं माससाध्यं चान्द्रायणं तद्योगादेष मासश्चान्द्रायणः । यद्यप्युक्ते
प्रकारे पिपीलिकामध्ये द्वात्रिंशदहानि यवमध्ये चैकत्रिंशत्तथाऽपि न
वैकेनाक्षरेणेति न्यायेनैष मास इत्युक्तम् ॥ १५ ॥
इस प्रकार चान्द्रायण मास होता है ॥ १५ ॥

एवमाप्त्वा विपापो विपाप्मा सर्वमेनो हन्ति ॥ १६ ॥

एवमेवंविधं चान्द्रायणं मासमाप्त्वा माससाध्यमेतद्व्रतं कृत्वा