गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 315, कुल 360 में से
संदर्भ में पढ़ें२४८ गौतमधर्मसूत्राणि
भोज्यान्युक्तानि तेभ्यः प्राग्यान्यभोज्यानि नित्यमभोज्यमित्यादिभिरेकोन-
विंशतिसूत्रैरुक्तानि तेषु भुक्तेषु च्छर्दयित्वा घृतं प्राश्य विशुध्यति । एवं
च पूर्व्वकं प्रायश्चित्तद्वयं स्वभावदुष्टेषु पञ्चनखादिष्वेवावतिष्ठते । अत्र
विष्णुः—मलानां मज्जानामन्यतरस्य प्राशने चान्द्रायणं कुर्य्याल्लशुनपला-
ण्डुगृञ्जनतजविड्वराहग्रामकुक्कुटनरमांसभक्षणे च सर्वेष्वेतेषु द्विजा-
तीनां प्रायश्चित्तं पुनः संस्कारः ।
बृहस्पतिः—अलेह्यानामपेयानामभक्ष्याणां च भक्षणे ।
रेतोमूत्रपुरीषाणां शुद्धिश्चान्द्रायणं स्मृतम् ॥
अङ्गिराः—अलेह्यानामपेयानामभक्ष्याणां च भक्षणे ।
रेतोमूत्रपुरीषाणामृषिकृच्छ्रो विशोधनम् ॥
पद्मोदुम्बरबिल्वानां कुशपर्णपलाशयोः ।
एतेषामुदकं पीत्वा तमेनैव विशुध्यति ॥
काश्यपः—लशुनपलाण्डुगृञ्जनकुकुटभक्षणे मेदःशुक्रपानेऽयाज्य-
याजनेऽभोज्यभोजनेऽभक्ष्यभक्षणेऽगम्यागमने चैवं प्रायश्चित्तं ब्राह्मणेभ्यो
निवेद्य षड्रात्रोपोषितश्चीर्णान्ते प्राच्यामुदीच्यां दिशि गत्वा यत्र ग्राम्य-
पशूनां शब्दो न श्रूयते तस्मिन्देशेऽग्निं प्रज्वाल्य ब्रह्मासनमास्तीर्य तत्प्र-
णीतेन विधिना पुनःसंस्कारमर्हति । सुमन्तुः—लशुनपलाण्डुगृञ्जनभक्षणे
वीरश्राद्धे सूतिकाभोज्यान्नमधुमांसमूत्ररेतोमेध्याभक्ष्यभक्षणे सावित्र्यष्ट-
सहस्रेण मूर्ध्नि संपातानवनयेत् । एतान्येवाऽऽतुरस्य भिषक्क्रियायामप्रति-
षिद्धानि भवन्ति । यानि चान्यान्येवंप्रकाराणि तेष्वप्यदोषः।
पलाण्डुं लशुनं चैव गृञ्जनं कवकं तथा ।
चत्वार्य्यज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेद् द्विजः ॥
मनुस्तु—छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या भुक्त्वा पतेद् द्विजः ॥
अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः ॥
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥
शातातपः—लशुनपलाण्डुगृञ्जनकुकुम्भरशरकवकामेध्यभक्षणे तप्तकृच्छ्रः ।
विष्णुः—वृन्ताककवकाशने सांतपनम् । पैठीनसिः—लशुनपलाण्डु गृञ्जन-
भक्षणे प्राजापत्यम् । देवलः-अभक्ष्यभक्षणे कृच्छ्रम् । पैठोनसिः—
अभक्ष्यभक्षणे तप्तकृच्छ्रम् । संवर्तः—
अभोज्यभोजनं कृत्वा ब्रह्मक्षत्रविशां गणः ।