सामग्री पर जाएँ
सर्वकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 308, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 308

सानुवाद-मिताक्षरावृत्तिसहितानि २४१

एतासु शिष्यभार्यायां गवि च मिथुनीभावे यावान्गुरुतल्पदोषस्ताव-
नस्येति ।

याज्ञवल्क्यः-सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥
पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि ।
मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥
आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि ॥ इति ।

नारदः-माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसामन्यतमां गच्छन्गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्त्तनात्तत्र नान्यो दण्डो विधीयते ॥ इति ।

कात्यायनः-जनन्याश्च भगिन्याश्च स्वसुतायास्तथैव च ।
स्नुषाया गमनं चैव विज्ञेयमतिपातकम् ॥
अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।

बृहद्यमः-रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च ।
सपिण्डास्वन्यदारेषु प्राणत्यागो विधीयते ॥ इति ।

स एव-चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् ।
मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
मातुलानीं प्रव्रजितां सगोत्रां नृपयोषितम् ।
शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणं चरेत् ॥
इति च ॥ १२ ॥

मित्र की पत्नी ( अथवा मित्रभूता स्त्री ), बहन, अपने कुल की किसी स्त्री, शिष्य की पत्नी, पतोहू अथवा गाय के साथ मैथुन कर्म का पाप गुरुपत्नीगमन के पाप के समान ही होता है ॥ १२ ॥

अवकर इत्येके ॥ १३ ॥

एके मन्यन्ते सख्यादिगमनेऽवकरो दोषः । अत्र प्रायश्चित्तमप्यवकीर्णिब्रतं न गुरुतल्पव्रतमिति । यान्येतानि सख्यादिगमनेऽनुक्रान्तानि प्रायश्चित्तानि तेषु मरणान्तिकानि सप्रत्ययानुबन्धात्यन्ताभ्यासविषयाणि ।

१६ गौ०