सामग्री पर जाएँ
सर्वकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 294, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 294

सानुवाद-मिताक्षरावृत्तिसहितानि २२७

पैठोनसिः-गोघ्नो मासं यवागूं प्रसृततण्डुलशृतां भुञ्जानो गोभ्यः प्रियं कुर्वन्शुध्यति । इति ।

मनुः-उपपातकसंयुक्तो गोध्नो भुञ्जीत यावकम् ।
कृतवापो वसेद् गोष्ठे चर्मणाऽऽद्रेण संवृतः ॥
चतुर्थकालमश्नीयादक्षारलवणं मितम् ।
गोमूत्रेणाऽऽचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥
इत्यारभ्य-अनेन विधिना यस्तु गोध्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥
ऋषभैकादशाःगाश्च दद्यात्सुचरितव्रतम् । इति ।

सुमन्तुः-गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्यप्राशनं गवामनुगमनं च । इति ।

संवर्तः-सक्तूयावकभैक्षाशो पयो दधि घृतं सकृत् ।
एतानि क्रमशोऽश्नीयान्मासार्धं सुसमाहितः ॥
ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥ इति ।

बृहस्पतिः-द्वादशरात्रं पञ्चगव्याहारः । इति ।

एतेषां बुद्धिपूर्वाबुद्धिपूर्वभेदेन ब्राह्मणादिपरिग्रहेण यथार्हं विषयविभाग ऊहितव्यः । षट्त्रिंशन्मते विशेषः-

पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते ।
पादोनं व्रतमादिष्टं हत्वा गर्भमचेतनम् ॥
अङ्गप्रत्यङ्गसम्पूर्णे गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं कुर्यादेषा गोघ्नस्य निष्कृतिः ॥

बृहत्प्रचेताः-एकवर्षे हते वत्से कृच्छ्रपादो विधीयते ।
अबुद्धिपूर्वे पुंसः स्याद् द्विपादस्तु द्विहायने ॥
त्रिहायने त्रिपादं स्यात्प्राजापत्यमतः परम् । इति ।

स्मृत्यन्तरम्-अतिवृद्धामतिकृशामतिबालां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥
ब्राह्मणान्भोजयेच्छक्त्या दद्याद्धेम तिलांस्तथा ॥ इति ।

संवर्तापस्तम्बौ-एका चेद्बहुभिः कैश्चिद्दैवाद्द्यापादिता क्वचित् ।
पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥
व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि वा ।
भिषङ्मिथ्योपचारे च द्विगुणं गोव्रतं चरेत् ॥ इति ।