सामग्री पर जाएँ
सर्वकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 282, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 282

सानुवाद-मिताक्षरावृत्तिसहितानि २१५

भ्रूणहनं हीनवर्णं च या सेवते न तस्य भार्या भवति सा पतति। चका-
राद् ब्रह्महत्यादिषु चेति। भ्रूणग्रहणं पतितोपलक्षणम् ॥ ९ ॥

स्त्री गर्भपात कराने पर, निम्नवर्ण के पुरुष के साथ सम्बन्ध करने ( और
ब्रह्महत्यादि कर्मों ) से पतित होती है ॥ ९ ॥

कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातक-
समानि ॥ १० ॥

कूटसाक्षिणो भावः कौटसाक्ष्यं साक्षिणोऽनृतवचनम् । सतोऽसतो
वा परदोषस्य ख्यापनं पैशुनम् । राजनीतौ वक्तव्ये राजगामीति वचनं
यत्रोक्तं पारम्पर्येणापि राजानं गच्छति तदपि वर्ज्यमित्येवमर्थम् । गुरोः
पितुराचार्यस्य वाऽनृतेनासत्येन दोषेणाभिशंसनं दुष्टताख्यापनं गुरोरनृ-
ताभिशंसनम् । एतानि [ महा ] पातकसमानि । साम्यातिदेशे प्रायश्चित्त-
मर्धमिति स्मार्तो व्यवहारः ॥ १० ॥

झूठी गवाही देना, राजा के कानों तक पहुँचने वाली चुगली करना, गुरु
( पिता, आचार्य ) के विषय में असत्य दोषारोपण करना—ये महापातक के
समान हैं ॥ १० ॥

अपङ्क्त्यानां प्राग्दुर्बलाद् गोहन्तृब्रह्मघ्नतन्मन्त्रकृदवकीर्णि-
पतितसावित्रीकेषूपपातकम् ॥ ११ ॥

स्तेनादयो गीतशीलान्ता एकपञ्चाशन्न भोजयितव्या इत्युक्ताः श्राद्ध-
प्रकरणेऽपङ्क्त्याः । तेषामपङ्क्त्यानां मध्ये दुर्बलात्प्राग्यावन्तस्त्यक्तात्म-
पर्यन्ता एकत्रिशत्तेषु पतितः कूटसाक्षो चान्तर्भूतः । तत्र पतितस्य पति-
तत्वं कूटसाक्षिणस्तत्साम्यमुक्तम् । व्यतिरिक्तेषूपपातकं पापम् । नास्ति-
कोऽपि तेषु पठितः । स च त्रिविधः । यथाऽऽहुः पौराणिकाः—

नास्तिकास्त्रिविधा ज्ञेया धर्मज्ञैस्तत्त्वदर्शिभिः ।
क्रियादुष्टो मनोदुष्टो वाग्दुष्टश्चेति ते त्रयः ॥ इति ।

अत्र वाग्दुष्ट उपपातकोऽभिप्रेतः । इतरयोः पातक एव । गोहन्ता
हननं दण्डकाष्ठादिना ताडनम् । ब्रह्म वेदस्तमधीतं यः प्रमादादभिहृतवा-
न्विस्मृतवान्स ब्रह्मघ्नः । बुद्धिपूर्वे मानवम्—

ब्रह्मघ्नत्वं वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ इति ।

तन्मन्त्रकृद्गोहन्तृब्रह्मघ्नयोर्योजनादिकृत् । यो ब्रह्मचारी स्त्रियमुपेया-
त्सोऽवकीर्णी । अस्यापङ्क्त्येषु पठितस्य पुनर्वचनं कृतेऽप्यवकीर्णिप्राय-