सामग्री पर जाएँ
सर्वकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 193, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 193

१२८ गौतमधर्मसूत्राणि

तत्पुत्रेण तद्दातव्यम् । तथा द्यूतं कृत्वा पराजितस्तत्पणद्रव्यमदत्त्वैव यदि
म्रियते तदा तत्पुत्रो न दातुमर्हति । य(त्त) था व्यवहारे पराजितो राज्ञे
दण्डमदत्त्वैव यदि म्रियते तदा न सोऽपि दण्डः पुत्रानभ्याभवति ॥३८॥

प्रतिभू होकर, व्यापार के लिए ऋण लेने पर, विवाह में देय धन न
देकर, मद्यपान और द्यूतक्रीडा के लिए ऋण लेने पर तथा राजा द्वारा लगाये
गए किसी दण्ड का भागी होने वाले व्यक्ति की मृत्यु के बाद उसके पुत्र देनदार
नहीं होते ॥ ३८ ॥

निध्यन्वाधियाचितावक्रीताधयो नष्टाः सर्वाननिन्दिता-
न्पुरुषापराधेन ॥ ३९ ॥

निधिर्निक्षेपः । ‘स्वं द्रव्यं यत्र विस्रम्भान्निक्षिपेत्यविशङ्कितः’ स
निक्षेपः । अन्वाधिरुपनिधिः । औपनिधिकमिति स्मृत्यन्तरे प्रसिद्धम् ।
तत्र याज्ञवल्क्यः—

भाजनस्थमनाख्याय हस्ते न्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ इति ।

याचितमुत्सवादिष्वाभरणादि । अवक्रीतमदत्तमौल्यमर्धदत्तमौल्यं
वा । आधिर्गोप्याधिः । एते निध्यादयो यदि पुरुषापराधेन विना नष्टा
भवन्ति चोरादिभिरपहृताः [ वा ] सर्वांस्ताननिन्दितानाहुरदोषानाहुः ।
न केवलं पुत्रानेव नाभ्याभवेयुः किं तर्हि येषां सकाशे निध्यादयः कृता-
स्तानपि नाभ्याभवन्ति । अनिन्दितेति ते यदि पूर्वं दृष्टदोषा भवन्ति
तदा पूर्वमिदम् । पुरुषापराधस्तु यदि धारयितारः स्वद्रव्यवन्न रक्षयेयुः,
यद्यग्निभयादौ स्वद्रव्यं गृहीत्वा निध्याद्युपेक्षेरन्स्वद्रव्यं वा गुप्तं निधाय
बहिर्निध्यादि स्थापयेयुः । एतस्मिन्पुरुषापराधे सति दद्युरेव ॥ ३९ ॥

धरोहर रखा हुआ, भूमि में छिपाया गया, माँग कर लाया गया, विश्वास
पर खरीदा गया और बन्धक रखा गया धन यदि किसी व्यक्ति के अपराध के
बिना नष्ट हो जाय तो वह व्यक्ति दोषी नहीं होता है ॥ ३९ ॥

स्तेनः प्रकीर्णकेशो मुसली राजानमियात्कर्माऽऽचक्षाणः ॥४०॥

स्तेनः सुवर्णस्तेयकृत् ।

सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन्त्रूयान्मां भवाननुशास्त्विति ॥ इति मानवम् ।

प्रकीर्णकेशो मुक्तकेशः । आयसः खादिरो वा मुसल इति स्मृत्य-
न्तरम् । तद्वान् । अंसे मुसलमाधायेत्यापस्तम्बः । राजानमियात्कर्माऽऽ-
चक्षाणः । एवंकर्माऽस्मि प्रशाधि मामिति ब्रुवाणः ॥ ४० ॥