गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
द्विचत्वारिंशः पटलः।
—:—❁०❁—:—
श्रीपार्वत्युवाच
कथमुत्पद्यते वाणी कथं वा सा विलीयते ।
वाचो विनिर्णयं ब्रूहि पश्चात्त्वत्समुदीरय ॥ १ ॥
ईश्वर उवाच
अव्यक्तात्प्राण उत्पन्नः प्राणादुत्पद्यते मनः ।
मनस उत्पद्यते वाग्वाङ्मनसि विलीयते ॥ २ ॥
देव्युवाच
आहारं काङ्क्षते कोऽसौ भुङ्क्ते चं पिबते च कः ।
जागर्ति १सुप्यते कोऽसौ सुप्तः कोऽसौ ३प्रबुध्यते ॥ ३ ॥
ईश्वर उवाच
आहारं काङ्क्षते प्राणो भुङ्क्ते चैव हुताशनः ।
जागर्ति सुप्यते वायुः सुप्ते तेजः प्रबोधयेत् ॥ ४,॥
देव्युवाच
को वा करोति पापानि को वा पापेन लिप्यते ।
को वा बद्धो विमुक्तः कः को वा पापैः प्रमुच्यते ॥ ५ ॥
ईश्वर उवाच
मनः करोति पापानि मनः पापेन लिप्यते ।
मनस्युन्मननीभूते न धर्मो नापि पातकः ॥ ६ ॥
१ 'चापिबतीश' क पाठ । २ 'स्वप' क पाठ । ३ 'द्धते' क पाठ ।
देव्युवाच
यदिदं शक्ते¹माकाशं देहस्थं देहवर्जितम् ।
तत् स्थितं तु कथं देहे² देहिदेहविवर्जितम् ॥ ७ ॥
कथं जीवः स्थितो देहे को वा जीवः प्रकीर्तितः ।
केन पश्यत्यसौ जीवः केन मार्गेण संचरेत् ॥ ८ ॥
सकै³लस्तु कथं जीवो निष्कलस्तु कथं भवेत् ।
केन जीवत्यसौ जीवः किंवा जीवस्य भोजनम् ॥ ९ ॥
कुतो वा लीयते जीवो जायते कुत एव हि ।
को वा जीवः कथं प्राणः केन जीवः प्रकीर्तितः ॥ १० ॥
एतत्सर्वं यथातत्त्वं तत्त्वं मे ब्रूहि शंकर ।
संसारार्णवमग्ना हि येन मुच्याम्यहं प्रभो ॥ ११ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यत्त्वया समुदाहृतम् ।
कथयामि न संदेहः सारात्सारतरं शुभम् ॥ १२ ॥
वायुस्तेजस्तथाकाशं तृतीयं जीवसंज्ञकम् ।
स जीवः प्राण इत्युक्तो बालाग्रै⁴शतकल्पितः ॥ १३ ॥
जीवः शुक्लं च विज्ञेयं यावत् सत्त्वेन संस्थितम् ।
रजसो च समायुक्तो वायुर्जीवः प्रकीर्तितः ॥ १४ ॥
तमसा च समायुक्तस्तदा दृष्टो भवेद् ध्रुवम् ।
सत्त्वेन च समायुक्तो धर्मज्ञानप्रवर्तकः ॥ १५ ॥
रजसा च समायुक्तो भुङ्क्ते च विषयान् प्रभुः ।
तमसा च समायुक्तस्तदा पापेन लिप्यते ॥ १६ ॥
नासाग्रं चैव नाभिं च हृदयं च तृतीयकम् ।
स्थानान्येतानि जीवस्य कल्पितानि शिवेन तु ॥ १७ ॥
१ 'शक्ति' क पाठ । २ 'ह' क पाठ । ३ 'सफल' क पाठ । ४ 'कै' क पाठ ।
३५८ गन्धर्वतन्त्रे ।
हृत्कमलं शिरश्चैव सत्त्वे यावद्व्यवस्थितम् ।
देहसंस्थित इत्युक्तः शिवेन परमात्मना ॥ १८ ॥
यावन्न चलते जीवस्तावन्निश्चलतां गतः ।
नाभिस्थो निष्कलं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ १६ ॥
नाभिस्थः सर्वकालेषु हृदि तिष्ठति सर्वगः ।
वक्त्रनासापुटान्तःस्थो भुङ्क्ते च विषयान् प्रभुः ॥ २० ॥
जीवः पश्यति देहस्थो जीवते२ च महेश्वरः ।
भुङ्क्ते भोगं शुभं जीवो देही३ देहे व्यवस्थितः ॥ २१ ॥
देहं त्यक्त्वा यदा जीवो बहिराकाशमाश्रितः ।
तदात्मविषयो जीवो जायते नात्र संशयः ॥ २२ ॥
तदिदं निष्कलं ब्रह्म ध्यायेदिति सदाशिवम् ।
ध्यात्वा शिवं च सहजं मुच्यते भवबन्धनात् ॥ २३ ॥
सर्वगः सर्वदेहस्थो नासाग्रे च प्रतिष्ठितः ।
प्रत्यञ्चः सर्वभूतानां दृश्यते नच लक्ष्यते ॥ २४ ॥
नाभिमध्ये स्थितं जीवं शुद्धतत्त्वं तु निर्मलम् ।
आदित्यमिव दीप्तं तु रश्मिभिर्ज्वलितं शुभम् ॥ २५ ॥
हकारार्थनिभं जीवं जीवो देहे च संस्थितः ।
नाभिरन्ध्रै४स्थितं ख्यातं विषयान्प्राप्य संस्थितम् ॥ २६ ॥
तेनेदमखिलं व्याप्तं क्षीरं च सर्पिषा यथा ।
कारणां नात्मनश्चैव प्राणापानैस्तु पञ्चभिः ॥ २७ ॥
श्वासनिःश्वासयोगेन अधऊर्ध्वं प्रवर्तते ।
शुष्कपत्रं तु वातेन नीयते गगनं यथा ॥ २८ ॥
१ 'त्यक्त' क पाठ । २ 'वि' क पाठ । ३ 'हि' क पाठ । ४ 'न्ध्रचित' क पाठ ।
तथा भ्रमति जीवाख्यं प्राणापानैस्तु पञ्चभिः ।
चतुष्कलासमायुक्तो भ्राम्यते हृदये स्थितः ॥ २९ ॥
गोलकैस्तु यथा देवि स्वेन दण्डेन ताडितः ।
उत्पत्य पतते² शीघ्रमविश्रान्तः पुनः पुनः ॥ ३० ॥
पार्वत्युवाच
यदिदं सकलं ब्रह्म व्योमातीतं निरञ्जनम् ।
निष्कलं निर्मलं शान्तं निष्प्रपञ्चमलक्षणम् ॥ ३१ ॥
अप्रत्यक्षमविज्ञेयं विनाशोत्पत्तिवर्जितम् ।
कैवल्यं केवलं शान्तं शुद्धस्फटिकसंनिभम् ॥ ३२ ॥
करणयोगनिर्मुक्तं हेतुसाधनवर्जितम् ।
तत्क्षणान्मुच्यते येन तज्ज्ञानं ब्रूहि शंकर ॥ ३३ ॥
ईश्वर उवाच
एतदेव महाभागे कुमारो ब्रह्मणः सुतः ।
परिसमेत्य योगीशं³ विष्णुं विश्वैककारणम् ॥ ३४ ॥
उवाच परया भक्त्या ब्रह्मविद्यां वद् प्रभो ।
ययाचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ३५
तस्मै स होवाच जगत्प्रभुश्च
श्रद्धाभक्तिध्यानयोगादवेहि ।
न कर्मणा न प्रजया धनेन
त्यागेनैकेनामृतत्वमानशुः ॥ ३६ ॥
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतयो विशन्ति ।
वेदान्तविज्ञानविनिश्चितार्थाः
संन्यासयोगाद्⁴ यतयो विशुद्धाः ॥ ३७ ॥
१ 'क' क पाठ । २ 'ततस्तु पतने' क पाठ. । ३ गेयतत्तो' क. पाठ. । ४ 'गि' क. पाठ. ।
३६० गन्धर्वतन्त्रे ।
ते ब्रह्मलोकेषु परान्तकाले
परामृतात् परिमुच्यन्ति सर्वे ।
विविक्तदेशे च सुखासनस्थः
शुचिः समग्रीवशिरःशरीरः ॥ ३८ ॥
स्वस्वाश्रमस्थः सकलेन्द्रियाणि
निरुध्य भक्त्या स्वगुरुं प्रणम्य ।
हृत्पुण्डरीके विरजं विशुद्धं
विचिन्त्य मध्ये विशदं विशोकम् ॥ ३९ ॥
अचिन्त्यमव्यक्तमनन्तरूपं
शिवं शान्तममृतं ब्रह्म योनिम् ।
अथादिमध्यान्तविहीनमेकं
विधिं¹ चिदानन्दरूपमद्भुतम् ॥ ४० ॥
उमासहायं परमेश्वरं प्रभुं
त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं
समस्तसाक्षिं तमसः परस्तात् ॥ ४१ ॥
स ब्रह्मा शिवः स इन्द्रः सोऽक्षरः परमः स्वराट् ।
स³ एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ४२ ॥
स⁴ एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ४३ ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन् परं ब्रह्म याति नान्येन हेतुना ॥ ४४ ॥
१ 'भु' क, पाठः । २ 'श' क. पाठ. । ३ 'स विष्णु' ४ 'स स' क पाठ ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः ॥ ४५ ॥
स एव मायापरिमोहितात्मा
शरीरमास्थाय करोति सर्वम् ।
स्त्रीस्वन्नपानादिविचित्रभोगैः
स एव जाग्रत्परितृप्तिमेति ॥ ४६ ॥
स्वप्ने च जीवः सुखदुःखभोक्ता
स्वमायया कल्पितविश्वलोके ।
सुषुप्तिकाले सकले विलीने
तमोभिभूतः सुखरूपमेति ॥ ४७ ॥
पुनश्च जन्मान्तरकर्मयोगात्
स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीव-
स्ततस्तु जातं सकलं विचित्रम् ॥ ४८ ॥
आधारमानन्दमखण्डबोधं
यस्मिंल्लयं याति पुरत्रयं च ।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथिवी विश्वधारिणी ॥ ४९ ॥
यत्पुनर्ब्रह्म सर्वात्मा सर्वस्यायतनं महत् ।
सूक्ष्मात् सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ५० ॥
जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ५१ ॥
१ 'ध्या' ख पाठ । २ 'तो' क पाठ ।
३६२ गन्धर्वतन्त्रे ।
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः सोऽहं चिन्मात्रोऽहं सदाशिवः ॥ ५२ ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५३ ॥
अणोरणीयानहमेव तद्व-
न्महानहं विश्वमहं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि ॥ ५४ ॥
अपाणिपादोऽहमचिन्त्यशक्तिः
पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाहम् ॥ ५५ ॥
वेदैैरनेकैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियबुद्धिरस्ति ॥ ५६ ॥
न भूमिरापो मम नास्ति वह्नि-
र्न चानिलो मेऽस्ति नचाम्बरं च ।
एवं विदित्वा परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम् ॥ ५७ ॥
समस्तसाक्षिं सदसद्विहीनं
प्रयाति शुद्धं परमात्मरूपम् ॥ ५८ ॥
१ 'साक्षी' क. पाठ. । २ 'द्वयो' क. पाठ ।
द्वाचत्वारिंशः पटलः । ३६३
य एतत्तन्त्रं समधीते सोऽग्निपूतो भवति सुरापानात्पूतो
भवति कृत्याकृत्यात्पूतो भवत्यगम्यगमनात्पूतो भवति ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे तत्त्वज्ञानोपदेशनं
नाम द्वाचत्वारिंशः पटलः ॥ ४२ ॥
समाप्तमिदं श्रीशिवार्पणं भूयात् ॥
प्रस्तुत पृष्ठ पूर्णतः रिक्त (सफेद/blank) है, इस पर कोई पाठ (text) या सामग्री उपलब्ध नहीं है। कृपया सही पृष्ठ की छवि पुनः संलग्न करें।
The provided image appears to be a solid magenta/blank placeholder image and does not contain any readable text or scriptural content to transcribe.
Please upload a clear image of the page you would like transcribed.