गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
३४४ गन्धर्वतन्त्रे ।
मांसझारैर्न मे प्रीतिर्न तथा मद्यसागरैः ।
यथा मे जायते प्रीतिर्भगलिङ्गामृतैः शिव ॥ ४१ ॥
अहमेव महादेव स्त्रियः सर्वा जगत्स्वह ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ४२ ॥
ये देवा मद्गतप्राणा मद्दासा मद्दिभूषणाः ।
स्वधर्मानपरित्यज्य मामेव शरणं गताः ॥ ४३ ॥
ते पुनर्भोगिनो मुक्ता जीवन्तोऽपि महीतले ।
मदङ्गस्पर्शमात्रेण चात्मानं ज्ञातुमर्हसि ॥ ४४ ॥
मयि प्रविश विश्वेश मां भजस्व सनातनीम् ।
जहि शङ्कां महादेव त्वमात्मानं न विस्मर ॥ ४५ ॥
विष्णुः पिबत्यसौ वामं ब्रह्मा मे दक्षिगं स्तनम् ।
त्वं पिबस्व महादेव ममाधर (श्रु ? स्रु) तामृतम् ॥ ४६ ॥
स्त्रियं गच्छन् स्पृशन्पश्यंस्ताभिरेव विहारवान् ।
ध्यानं पूजां जपं चैव कुर्यान्मे साधकोत्तमः ॥ ४७ ॥
शक्त्यायुक्तः सदा मन्त्री न तया रहितो भवेत् ।
तया विरहितो देवः सर्वकर्मसु न क्षमः ॥ ४८ ॥
पतिहीना यथा नारी सर्वकर्मविवर्जिता ।
शक्तिहीनस्तथा मन्त्री तस्माच्छक्तियुतो भव ॥ ४६ ॥
एका चेद्दशगा साध्वी तस्याः कुँष्टिर्भवाय च ।
दुष्टभार्या (कुला ? करा) कुष्टिर्विनाशायैव केवलम् ॥ ५० ।
कुलभेदौ नदीतीरे कोषागारं यथा शिव ।
भगलिङ्गसमायोगाद्यदानन्दः प्रजायते ॥ ५१ ॥
१ 'त' क पाठ । २ 'वतो' क पाठ । ३ 'स्याकृ' क पाठ । ४ 'दि' क पाठ. ।
चत्वारिंशः पटलः । ३४५
ब्रह्मैव तद्विजानीयादनन्तं मोक्षसाधनम् ।
गुरुपूजा कराकृष्टिर्विघ्नोत्सारणकर्मकृत् ॥ ५२ ॥
रहस्याख्यानकं कर्णे ह्यासनं गण्डचुम्बनम् ।
भूतशुद्धिः परीरम्भः संतोपेन्द्रियनिग्रहः ॥ ५३ ॥
प्राणायामः स्तनाकृष्टिन्यासमन्र समीरितम् ।
नखदन्तक्षतादीनि धूपदीपप्रदापनम् ॥ ५४ ॥
चाटुकानि रतान्ते च सुपुष्पा²शय्य³ङ्गसंगमम् ।
दर्शनं स्पर्शनं योनेर्विकाराल्लिङ्गघर्षणम् ॥ ५५ ॥
अधरामृतपानं च स्वयमावेशनं तथा ।
विक्षेपोत्क्षेपणं चैव पतनोत्पतनं तथा ॥ ५६ ॥
तर्पणाद्युपचारं तु मथनं हवनं तथा ।
सीत्कारो मन्त्रजपनं ब्रह्मार्पणैकचित्तता ॥ ५७ ॥
कूजनं गायनं स्तोत्रं¹ रेतःपातो विसर्जनम् ।
इत्थमेव महादेव पूजनं मे समीरितम् ॥ ५८ ॥
एकंस्या बहुरूपिण्याः प्रत्यहं यः समाचरेत् ।
जीवन्मुक्तः स्वयं देवोऽप्यसाध्यमपि साधयेत् ॥ ५६ ॥
भोगैश्च मधुपर्काद्यैर्वामाभावे स्थितो यजेत् ।
˙श्रुतिस्मृत्युदितं कर्म त्यजन् वाथ समाश्रयन् ॥ ६० ॥
तत्तत्कर्मपरित्यागाद् (ध्यानं ? हीनं) जातिषु जायते ।
ततो बहु सुखं भुक्त्वा परेषां च सुदुर्लभम् ॥ ६१ ॥
विद्याभ्यासप्रसादेन भोगेन मोक्षमाप्नुयात् ।
एवं बहुविधान् भोगी भोगान्वै सुमनोहरान् ॥ ६२ ॥
१ स्तुह्य' ख पाठ । २ 'काया' क पाठ । ३ 'शय्य' क पाठ ।
३४६ गन्धर्वतन्त्रे ।
समासाद्य च तांस्तांस्तु वैराग्ये वनमाविशेत् ।
असारांश्च तथा सारान्निःसारांश्च तथा परान् ॥ ६३ ॥
नानाविधैर्विवेकाद्यैर्विविच्य साधकस्तथा ।
सारभूते परे तत्त्वे मन आधाय योगवित् ॥ ६४ ॥
निःसारमसदाद्यन्तं जगदेतच्चराचरम् ।
सत्यं किमपि तत्रैव वस्तु सान्द्रान्निरन्तरम् ॥ ६५ ॥
तदानन्दमयं ब्रह्म विदित्वात्मनि साधकः ।
एकान्तविजने रम्ये मृदौ²कोमल आसने ॥ ६६ ॥
आसीनश्चिन्तयेद्ब्रह्म परमानन्दनिर्भरः ।
ब्रह्मचिन्तापरामोदी³ भोगेषु विगतस्पृहः ॥ ६७ ॥
एकां भार्यां समादाय योगिनीं सहचारिणीम् ।
असाध्यं साधयेद्योगी योगिन्येव सहायिनी ॥ ६८ ॥
यथा त्वं मयका नाथ पार्वत्या परमेश्वर ।
मोहयित्वा पुनर्देवी शंकरं प्राह पार्वती ॥ ६६ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शिवश-
क्तिमयज्ञान-कुलयागवर्णनं नाम चत्वारिंशः पटलः ॥ ४० ॥
१ 'न आ' क. पाठः । २ 'दु' ख पाठः । ३ 'दभो' क पाठ ।
एकचत्वारिंशः पटलः ।
—=-: ֍ :-=—
अतुलैकरसानन्दं कैवल्यायतनं शिवम् ।
नत्वा शिष्येव सानन्दा तमुवाच परा शिवा ॥ १ ॥
पार्वत्युवाच
प्रसीद परमानन्दमय संशान्तविग्रहे¹ ।
यद्यदेव परं तत्त्वं तत्त्वतो विदितं मया ॥ २ ॥
त्वया देव समाख्याताः सर्वे मन्त्राः क्रियाः पराः ।
योगाः समाधयो ज्ञानं तथा चान्ये मदीप्सिताः ॥ ३ ॥
तेषां हि कारणं तत्त्वं यदीश परतः परम् ।
वक्तुमर्हसि तत्त्वेन शांभवं चाप्यनुत्तरम् ॥ ४ ॥
वाच्यस्वरूपठ्याप्तित्वं ज्ञातुमिच्छामि तत्त्वतः ।
प्रकाशो विमर्शाधीन इति.सत्यं यदि प्रभो ॥ ५ ॥
ममाधीनस्त्वमेवाँसि³ यथोक्तं वद् शंकर ।
शंभुरुवाच
अतिगुह्यतमं सूक्ष्ममवाङ्मनसगोचरम् ॥ ६ ॥
मया यत्नेन गुप्तं तन्न तत्कस्यापि कथ्यते ।
अहमेव त्वमप्यँस्मि³ खलूक्तेति च मे मतिः ॥ ७ ॥
१ 'सशक्तिविग्रह ' क पाठ.। २ 'व स्यात्' क पाठ । ३ 'प्यस्य' क. पाठ ।
३४८ गन्धर्वतन्त्रे ।
त्वमप्येवं स्मरस्यस्मात् त्वयापि विदितं प्रिये ।
सच्चित्संयोगसंसिद्धिस्त्वद्द्दश्या मम सा यतः ॥ ८ ॥
तदेव चोत्तरं प्राहुः सत्यं सत्यं मयोदितम् ।
तदेव चित्सदाद्यन्तावैक्येन संस्थितं यदा ॥ ९ ॥
तदा शांभवमित्याहुर्मुनयस्तत्त्ववित्तमाः ।
तदेवाहमितींभावपूर्णानन्दो यदा भवेत् ॥ १० ॥
तदैव शंभुभावः स्यादुक्तमेतत्पदत्रयम् ।
शक्रोस्त्रिशूली सर्गोऽन्तं तैरेवालंकृता यदि ॥ ११ ॥
सैव हि श्रीपरेत्युच्चैर्मुनिभिः परिकीर्त्तिता ।
प्रकाशानन्दसंदोहकैवल्यमहमोश्रया ॥ १२ ॥
मत्परत्वान्महासिद्धयै सा परेति च कथ्यते ।
ये मन्त्राः परमेशानि तेनादावपि संयुताः ॥ १३ ॥
ते जीवन्ति च मन्त्रेभ्यो ह्यन्योन्यमिति मे मतिः ।
सप्तषष्टिप्रकृत्यर्णा जगत्सृष्ट्यादिकर्तृकाः ॥ १४ ॥
एतेषां जीवभूतत्वादनुत्तरमिदं जगत् ।
पार्वत्युवाच
सकला निष्कलाश्चैव मुक्तिमार्गप्रबोधकाः ॥ १५ ॥
मन्त्रास्तु बहवः सन्ति वद तेषामनुत्तरम् ।
शंभुरुवाच
केषांचिदस्मदुक्तानामेतेऽप्यनर्थदर्शर्णा (?) ॥ १६ ॥
आवयोर्देवदेवेशि मनूनां कारणं मनोः ।
सर्वेषामेव मन्त्राणां प्राप्यावावां महेश्वरि ॥१७ ॥
आवयोरपि तत्प्राप्यमनुत्तरमिति स्मृतम् ।
अप्येतदक्षरावृत्तेर्गम्यागम्यतया स्थितम् ॥ १८ ॥
१ 'द्धिमम वश्या मवसायत ' क. पाठः । २ 'ऋत्रि' क. पाठः । ३ 'दा' क पाठ. ।
एकचत्वारिंशः पटलः । ३४६
अगम्यकारणत्वाच्च गम्यावावांमिति प्रिये ।
इदन्तयाऽहन्तया वा सर्वेषामन्तरात्मनि ॥ १९ ॥
प्रतीयमानस्त्वर्थो यस्तदेव शिवनिर्णयम् ।
पूर्णाहन्तास्वभावेन कृत्रिमाहन्तया विना ॥ २० ॥
बहिरन्तोरिदं विश्वं यः पश्यति स·पश्यति ।
अहन्तायां महादेवि त्वमेव प्राणिनां प्रिया ॥ २१ ॥
अज्ञानामपि चात्मा त्वं सर्वे तेऽनुत्तरप्रियाः ।
पार्वत्युवाच
त्वया पूर्वोपदिष्टं यत्तत्त्वं श्रीमत्परामयम् ॥ २२ ॥
तदेव निर्वाणपदमिति प्रोक्तं तया मया ।
इदानीमतिगुह्यानां तदेवार्थमनुत्तरम् ॥ २३ ॥
प्रशंससे परानन्दविमर्शाविष्टविग्रह ।
एतस्मिन्नेव कैवल्ये चेतःश्लेषो न मे विभो ॥ २४ ॥
शभुरुवाच
सत्यमेव त्वयाख्यातमुभयं तव सुन्दरि ।
परया त्वपि तत्प्राप्यं पूर्वोदितमनुत्तमम् ॥ २५ ॥
यत् संमतं तथाप्येतत् तयोरप्यन्तरं महत् ।
परा तु सप्तविंशत्या अन्तर्वाह्यक्रियागणैः ॥ २६ ॥
पूज्या चास्त्मकलांशेति केषांचिद्योगिनीमतम् ।
मानरूपक्रियोपाधिविहीनत्वान्महेश्वरि ॥ २७ ॥
पराया अपि तत्प्राप्यं पूर्वोदितमनुत्तरम् ।
पार्वत्युवाच
अस्य माहात्म्यमेवोक्तं त्वया मे बहुधा विभो ॥ २८ ॥
१ 'वा मूत्ति' क पाठ । २ 'द' क पाठ. । ३ 'स्मान' क. पाठं । ४ 'द्या' क पाठ । ५ 'ष' क पाठ. ।
३५० गन्धर्वतन्त्रे ।
उपायेनामुना पश्ये¹ येद्युक्तं नैव जातुचित् ।
यदिष्टं सर्वमाख्यातं यदप्युक्तमनुत्तरम् ॥ १९ ॥
नैव शक्नोमि निर्णेतुं तत्त्वतः कथयस्व मे ।
शंभुरुवाच
अत्यन्ताभावतो भेदादावयोः परमार्थतः ॥ ३० ॥
इदमीदृशमित्युक्तं पुरेवाहमुपाँधितः² ।
संप्राप्ता स्वर³देवता नैव कार्या विचारणा ॥ ३१ ॥
यद्यन्यभावस्थैर्येण प्राप्तव्यं गुणकार्यतः ।
तर्हि भूयोऽपि वक्ष्यामि मयोक्तार्थस्य निर्णयम् ॥ ३२ ॥
मनोवाग्विषयातीतं पूर्वोक्तं यदनुत्तरम् ।
तन्त्रिधा भेदमायाति बिन्दुनादाख्यबीजतः ॥ ३३ ॥
तान्येव सच्चिदानन्दभेदेन वैभै⁴वानि तु ।
मत्स्वरूपो हि यो⁵ बिन्दुस्तस्मान्नादस्त⁶ भामिनि ॥ ३४ ॥
द्वयोः समरसीभावादुक्तं बीजाख्यमावयोः ।
ऐक्यज्ञानपथे चैनां देवि शांभववाचके ॥ ३५ ॥
वर्णक्रमेण संभाव्य कुर्यान्मैथुनभावनाम् ।
एवं क्रमे महेशानि तामनुत्तरतां व्रजेत् ॥ ३६ ॥
वह्निवत् काष्ठसंबद्धे समुन्नद्धो⁷ऽवनिं तरेत्⁸ ।
व्यै⁹ञ्जने मथनोद्भूते तां तु शक्तिपदामिकाम् ॥ ३७ ॥
व्रतहोमेन संभाव्यं¹⁰ स्वभावं स्वयमाचरेत् ।
प्रकाशान्तै¹¹र्विमर्शान्तस्तस्मादेवाप्रकाशकम् ॥ ३८ ॥
१ 'श्ये युक्तं नैव तु' क पाठ । २ 'दितम्' क पाठ । ३ 'वि' क पाठ । ४ 'यद्' क पाठ. ।
५ 'विनि क पाठ । ६ 'साभाव मुख बीजा' क पाठ । ७ 'मथ' क पाठ । ८ 'र' क. पाठ. ।
९ 'वार्ज्जने' क पाठ । १० 'ध्ये' क पाठ । ११ 'न्त' क पाठ ।
एकचत्वारिंशः पटलः । ३५१
उत्तरोत्तरमेकैकं नयामि तत् क्रमोत्क्रमात् ।
संकोचः सविकासश्च स्वरूपौ सूर्यसंगतौ ॥ ३९ ॥
तत्तु यागतया स्यातां प्रकाशानन्दमन्दिरौ ।
सच्चिन्मयौ क्रियासारावधूतात्मकियापरौ ॥ ४० ॥
एतयोरावयोर्यत्तत्कारणं स्यादनुत्तरम् ।
हृद्यानलेभार्यान्तं¹ शिवदण्डीविलं² फलम् ॥ ४१ ॥
अन्तः प्रतीयमानं तदमेयं सर्वतोमुखम् ।
आदिमध्यान्तनिर्मुक्तं निस्तरङ्गाब्धिसंनिभम् ॥ ४२ ॥
सन्मात्रं चैव चिन्मात्रं तयोरैक्यरसावृतम् ।
तमःप्रकाशहीनं यदणोर्बहुतरं परम् ॥ ४३ ॥
महतां च महत्त्वाच्च ब्रह्मसंज्ञमनुत्तरम् ।
तदेवावाहितेन त्वं स्वान्तेन परिभावय ॥ ४४ ॥
अनेन भाववानाशु मन्त्रस्तन्मयतां व्रजेत् ।
यदा तन्मयसिद्ध्यादि विश्वं त्वयि विभावयेत् ॥ ४५ ॥
तेन विश्रान्तभावेन तदै³क्यानन्दमाप्स्यति⁵ ।
आकाशे निर्मले यद्यै⁴त्ससहसा घनसंकुलम् ॥ ४६ ॥
उत्पत्य लीयते तद्वज्जगदात्मन्यनुत्तरे ।
इत्येवं प्रत्यभिज्ञानसिद्धिः स्यात्तव सुव्रते ॥ ४७ ॥
स्वसंवेद्यं सुखं पश्चान्नैव शक्नोमि वेदितुम् ।
परा त्वं परमार्द्धिः स्यान्नत्वस्य विहितं यतः ॥ ४८ ॥
इतः परं न जानामि त्वयाहं बहुधा शपे ।
एतच्छ्रुत्वा महादेव्या ह्येतदर्थविमर्शनम्⁶ ॥ ४९ ॥
१ 'नभार्यान्ता' क पाठ । २ 'लम्बितम्' ख पाठ । ३ 'दैका' क पाठ. । ४ 'थ' क-पाठ ।
५ 'द्ध' ख पाठ । ६ 'र्पणम्' क पाठ ।
३५२ गन्धर्वतन्त्रे ।
प्रकाशितं तदेवाशु विस्मयाविष्टचेतसा ।
महदाश्चर्यमेतन्मे सम्पूर्णोऽयं यदास्थितः ॥ ५० ॥
इति संचिन्त्य देवस्य पादमाश्लिष्य सुन्दरी ।
त(व?दा)चान्योन्यमथनात्सान्द्रानन्दाभिनन्दिता ॥ ५१ ॥
यत्प्रकाशात्मकं सर्वं तत्त्वं केवलतां गतम् ।
विमर्शावनि²संप्राप्तमित्येषा तात्त्विकी स्थितिः ॥ ५२ ॥
अवधानैकभावानां मतिः सा साच्चिरूपिणी ।
तत्प्रमाणैः वरार्कैः³ किं तैश्चिदेवाप्रमाणका ॥ ५३ ॥
नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते ।
आदर्शे विमलाभोगे यथा सर्वं प्रकाशते ॥ ५४ ॥
इत्थं चिदात्मकं विश्वं षट्त्रिंशत्तत्त्वभेदनम् ।
आदौ शुद्धात्मकं तत्त्वं पञ्चधा तमसः परम् ॥ ५५ ॥
शिवः शक्तिश्च सादाख्य ईशो विद्येति भिद्यते ।
हृक्षादिशान्तवर्णात्मा निरमायि यदा शिवे ॥ ५६ ॥
कलाविद्या रागकालौ नियतिर्वर्म⁴ उच्यते ।
मायापूर्वो वकारादियकारान्ताक्षरात्मकम् ॥ ५७ ॥
प्रधानं⁵ पुंमनो बुद्धिरहंकृन्मादिपञ्चकम्⁶ ।
श्रोत्रादिपञ्चकं ताँदि⁷ टादि वार्गादिपञ्चकम् ॥ ५८ ॥
तन्मात्रपञ्चकं चाँदि⁸ भूम्यादि कादिपञ्चकम् ।
सिसृक्षोः प्रथमः स्पन्दः शिवतत्त्वं प्रभोः स्मृतम् ॥ ५६ ॥
इच्छैवास्यापरम्लाना शक्तितत्त्वमुदङ्कुशम् ।
स्वेच्छया सूचितं विश्वमाच्छाद्याहन्तया¹² स्थितः ॥ ६० ॥
१ 'मृश्या' ख पाठः । २ 'र्षमवनि पा' क पाठः । ३ 'कैस्तैश्चिर्देवा' प्रमाणकः' के पाठः ।
४ 'र्वन्ध' ख पाठ । ५ 'प्रमाणं च मनो' क पाठ. । ६ 'हहृ' क पाठ. ।
७ 'लादिवादि' क पाठ । ८ 'मादि ज्ञादि' क पाठ. । ९ 'स्य' क पाठ' ।
१० 'त्त्वं मद' क पाठ । ११ 'त्व' क पाठ । १२ 'श्च मन्' क पाठध
स एव तत्त्वं सादाख्यं सर्वानुग्रहणोन्मुखम् ।
स एवैश्र्वरतत्त्वं स्यात् पश्यन् विश्र्वमिदन्तया ॥ ६१ ॥
अहन्तेदन्तयोरैक्यं सा विद्येति निगद्यते ।
स्वाङ्गभूतेषु भावेषु मायांतत्त्वं विभेदधीः ॥ ६२ ॥
मायागृहीतसंकोचः शिवः पुंस्तत्त्वमुच्यते ।
अयमेव हि संसारी जीवो भोक्तेति दृश्यते ॥ ६३ ॥
ज्ञत्वंकर्तृत्वपूर्णत्वमित्यंस्वायाश्च शक्तयः ।
तत्संकोचात्संकुचिताः कलाविद्यादिनाँ स्थिताः ॥ ६४ ॥
मायात्मनः कला नाम किंचित्कर्तृत्वलक्षणम् ।
विद्या किंचिज्ज्ञताहेतू रागोऽभिष्वङ्गकारणम् ॥ ६५ ॥
कालः परिच्छेदको वा नियतिश्चेदमेव मे ।
कर्तव्यं नान्यदित्येषा व्यवस्थायन्त्रणाकृतिः ॥ ६६ ॥
प्रकृतिर्गुणसाम्यं स्यादहंकारादिजन्मभूः ।
अह॑ममेदमित्येतद्बुद्धिहेतुरहंकृतिः ॥ ६७ ॥
बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः ।
संकल्पस्य विकल्पस्य बीजं मन उदीर्यते ॥ ६८ ॥
वचनादेश्च शब्दादेर्वागादि श्रवणादिकम् ।
करणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् ॥ ६९ ॥
आकाशाद्यवकाशादिकारणं भूतपञ्चकम् ।
परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् ॥ ७० ॥
१ 'हमेद' क पाठः । २ 'क्यम' क पाठ' । ३ 'त्वविभेदिनी' क. पाठः ।
४ 'ज्ञता' क पाठ. । ५ 'च्छु' क पाठः । ६ 'द्यात्मनया स्थिता' कं पाठः ।
७ 'भियोग' क पाठ । ८ 'अहिंसा मदमि' क पाठ । ९ 'र्नियतात्मनं' क. पाठं. ।
१० 'द्यवसानादि' क. पाठः ।
३५४ गन्धर्वतन्त्रे ।
तदन्यद्वपराशक्तिर्विद्योतत्तत्त्वमुदीरितम् ।
अर्थे देवी पराशक्तिः शुद्धाशुद्धाध्वैस्वरूपिणी ॥ ७१ ॥
पृथिव्यादीनि तत्त्वानि यँदा लीनानि कारणे ।
तदा कारणमात्राणि शक्तिरुद्गमँते बहिः ॥ ७२ ॥
अनुत्तरेच्छे उन्मेष आनन्देशनमूनता ।
क्रियेच्छाज्ञानशक्तीनां स्वराणां मूलता च षट् ॥ ७३ ॥
इच्छेशानां ततो रूढा स्फुटास्फुटजगन्मयी ।
चत्वारः षण्डवर्णाः स्युः शुद्धात्मानः प्रचोदिताः ॥ ७४ ॥
अनुत्तरानन्दशक्ती इच्छाशक्तौ नियोजिते ।
त्रिकोणमथ षट्कोणमिच्छायां रूढिमा गते ॥ ७५ ॥
अनुत्तरानन्दशक्ती त्रिकोणद्वययोगतः ।
तथैवोन्मेषयोगेन क्रियाशक्तेः स्फुटं वपुः ॥ ७६ ॥
उक्तत्रिशक्तिसंघातात् त्रिशूलं द्वैतघस्सरम् ।
परस्पराविरोधेन कार्येषु प्रविरोहति ॥ ७७ ॥
न कथंचिदुपाधेयमासां रूपमिदं भवेत् ।
बिन्दुर्वेद्यस्य संस्कारो विमर्शैः सर्ग इत्यसौ ॥ ७८ ॥
कलाषोडशकाकारा शक्तिर्बीजायते परा ।
तिथयः प्रतिपत्पूर्वाः पञ्चदश्यन्तिमा यथा ॥ ७६ ॥
सूर्याचन्द्रमसौ स्वान्तश्चरन्तौ स्थितिहेतवे ।
तथा विमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः ॥ ८० ॥
द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता ।
नित्यप्रवृत्तशृङ्गाटवपुर्विश्वस्य जन्मभूः ॥ ८१ ॥
१ 'रिति' ख पाठ । २ इयं' ख पाठ । ३ 'द्धैरिणी' क पाठ । 'गर्भिणी' ख पाठ ।
४ 'स' क पाठ । ५ 'द्र' क पाठ । ६ 'परतो वर्णा षण्डा' ख पाठ ।
७ 'ष' क पाठ । ८ 'के' क पाठ । ९ 'मुदीप्तवपुर्विश्वस्य चैव' क. पाठ ।
हृदयं बीजमेतस्याः संविदो यत्परं महः ।
वटबीजे यथा वृक्षस्तद्वत् संनिहितं जगत् ॥ ८२ ॥
विचार्यमाणो यो नैव कारणादतिरिच्यते ।
मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे ॥ ८३ ॥
इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः ।
इदं सर्वं सदेवासीदग्र इति विनिश्चयात् ॥ ८४ ॥
सत्तावाचिनि बीजेऽस्मिन् क्ष्मादिमायान्तिमं जगत् ।
विलुप्तप्रत्ययाकारमेतत् स परिशिष्यते ॥ ८५ ॥
ततो ज्ञानक्रियासारा विद्येश्वरसदाशिवाः ।
शक्तौ त्रिशूले लीयन्ते चतुर्दशकलात्मनि ॥ ८६ ॥
ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् ।
इत्थं परस्यां संवित्तौ साँ विसर्गचितिः क्रमात् ॥ ८७ ॥
अथ वाञ्जनसातीते यत्र क्वापि निरञ्जने ।
षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे ॥ ८८ ॥
विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते ।
कुतश्चिन्मथिते धाम्नि दीप्ते केनापि हेतुना ॥ ८९ ॥
सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते ।
पञ्चपञ्चात्मकं देवि पञ्चस्पन्दविजृम्भितम् ॥ ६० ॥
संकोचयन् परामर्शी सामान्यस्पन्दकेवलम् ।
अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् ॥ ६१ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादेऽनुत्तरज्ञानप्र-
क्रियानिरूपणं नामैकचत्वारिंशः पटलः ॥ ४१ ॥
१ 'वेद' क पाठ. । २ 'वाह नासीत्' क वान्यन्नासीत्' ख पाठ. । ३ 'शक्तिशूलिनि' क
'लिन्याम' ख. पाठ. । ४ 'सर्वसंकुचित' क. पाठ. । ५ 'फल' क. पाठः । ६ 'दमप्र' क. पाठः ।
द्विचत्वारिंशः पटलः।
—:—❁०❁—:—
श्रीपार्वत्युवाच
कथमुत्पद्यते वाणी कथं वा सा विलीयते ।
वाचो विनिर्णयं ब्रूहि पश्चात्त्वत्समुदीरय ॥ १ ॥
ईश्वर उवाच
अव्यक्तात्प्राण उत्पन्नः प्राणादुत्पद्यते मनः ।
मनस उत्पद्यते वाग्वाङ्मनसि विलीयते ॥ २ ॥
देव्युवाच
आहारं काङ्क्षते कोऽसौ भुङ्क्ते चं पिबते च कः ।
जागर्ति १सुप्यते कोऽसौ सुप्तः कोऽसौ ३प्रबुध्यते ॥ ३ ॥
ईश्वर उवाच
आहारं काङ्क्षते प्राणो भुङ्क्ते चैव हुताशनः ।
जागर्ति सुप्यते वायुः सुप्ते तेजः प्रबोधयेत् ॥ ४,॥
देव्युवाच
को वा करोति पापानि को वा पापेन लिप्यते ।
को वा बद्धो विमुक्तः कः को वा पापैः प्रमुच्यते ॥ ५ ॥
ईश्वर उवाच
मनः करोति पापानि मनः पापेन लिप्यते ।
मनस्युन्मननीभूते न धर्मो नापि पातकः ॥ ६ ॥
१ 'चापिबतीश' क पाठ । २ 'स्वप' क पाठ । ३ 'द्धते' क पाठ ।
देव्युवाच
यदिदं शक्ते¹माकाशं देहस्थं देहवर्जितम् ।
तत् स्थितं तु कथं देहे² देहिदेहविवर्जितम् ॥ ७ ॥
कथं जीवः स्थितो देहे को वा जीवः प्रकीर्तितः ।
केन पश्यत्यसौ जीवः केन मार्गेण संचरेत् ॥ ८ ॥
सकै³लस्तु कथं जीवो निष्कलस्तु कथं भवेत् ।
केन जीवत्यसौ जीवः किंवा जीवस्य भोजनम् ॥ ९ ॥
कुतो वा लीयते जीवो जायते कुत एव हि ।
को वा जीवः कथं प्राणः केन जीवः प्रकीर्तितः ॥ १० ॥
एतत्सर्वं यथातत्त्वं तत्त्वं मे ब्रूहि शंकर ।
संसारार्णवमग्ना हि येन मुच्याम्यहं प्रभो ॥ ११ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यत्त्वया समुदाहृतम् ।
कथयामि न संदेहः सारात्सारतरं शुभम् ॥ १२ ॥
वायुस्तेजस्तथाकाशं तृतीयं जीवसंज्ञकम् ।
स जीवः प्राण इत्युक्तो बालाग्रै⁴शतकल्पितः ॥ १३ ॥
जीवः शुक्लं च विज्ञेयं यावत् सत्त्वेन संस्थितम् ।
रजसो च समायुक्तो वायुर्जीवः प्रकीर्तितः ॥ १४ ॥
तमसा च समायुक्तस्तदा दृष्टो भवेद् ध्रुवम् ।
सत्त्वेन च समायुक्तो धर्मज्ञानप्रवर्तकः ॥ १५ ॥
रजसा च समायुक्तो भुङ्क्ते च विषयान् प्रभुः ।
तमसा च समायुक्तस्तदा पापेन लिप्यते ॥ १६ ॥
नासाग्रं चैव नाभिं च हृदयं च तृतीयकम् ।
स्थानान्येतानि जीवस्य कल्पितानि शिवेन तु ॥ १७ ॥
१ 'शक्ति' क पाठ । २ 'ह' क पाठ । ३ 'सफल' क पाठ । ४ 'कै' क पाठ ।
३५८ गन्धर्वतन्त्रे ।
हृत्कमलं शिरश्चैव सत्त्वे यावद्व्यवस्थितम् ।
देहसंस्थित इत्युक्तः शिवेन परमात्मना ॥ १८ ॥
यावन्न चलते जीवस्तावन्निश्चलतां गतः ।
नाभिस्थो निष्कलं ज्ञात्वा मुच्यते जन्मबन्धनात् ॥ १६ ॥
नाभिस्थः सर्वकालेषु हृदि तिष्ठति सर्वगः ।
वक्त्रनासापुटान्तःस्थो भुङ्क्ते च विषयान् प्रभुः ॥ २० ॥
जीवः पश्यति देहस्थो जीवते२ च महेश्वरः ।
भुङ्क्ते भोगं शुभं जीवो देही३ देहे व्यवस्थितः ॥ २१ ॥
देहं त्यक्त्वा यदा जीवो बहिराकाशमाश्रितः ।
तदात्मविषयो जीवो जायते नात्र संशयः ॥ २२ ॥
तदिदं निष्कलं ब्रह्म ध्यायेदिति सदाशिवम् ।
ध्यात्वा शिवं च सहजं मुच्यते भवबन्धनात् ॥ २३ ॥
सर्वगः सर्वदेहस्थो नासाग्रे च प्रतिष्ठितः ।
प्रत्यञ्चः सर्वभूतानां दृश्यते नच लक्ष्यते ॥ २४ ॥
नाभिमध्ये स्थितं जीवं शुद्धतत्त्वं तु निर्मलम् ।
आदित्यमिव दीप्तं तु रश्मिभिर्ज्वलितं शुभम् ॥ २५ ॥
हकारार्थनिभं जीवं जीवो देहे च संस्थितः ।
नाभिरन्ध्रै४स्थितं ख्यातं विषयान्प्राप्य संस्थितम् ॥ २६ ॥
तेनेदमखिलं व्याप्तं क्षीरं च सर्पिषा यथा ।
कारणां नात्मनश्चैव प्राणापानैस्तु पञ्चभिः ॥ २७ ॥
श्वासनिःश्वासयोगेन अधऊर्ध्वं प्रवर्तते ।
शुष्कपत्रं तु वातेन नीयते गगनं यथा ॥ २८ ॥
१ 'त्यक्त' क पाठ । २ 'वि' क पाठ । ३ 'हि' क पाठ । ४ 'न्ध्रचित' क पाठ ।
तथा भ्रमति जीवाख्यं प्राणापानैस्तु पञ्चभिः ।
चतुष्कलासमायुक्तो भ्राम्यते हृदये स्थितः ॥ २९ ॥
गोलकैस्तु यथा देवि स्वेन दण्डेन ताडितः ।
उत्पत्य पतते² शीघ्रमविश्रान्तः पुनः पुनः ॥ ३० ॥
पार्वत्युवाच
यदिदं सकलं ब्रह्म व्योमातीतं निरञ्जनम् ।
निष्कलं निर्मलं शान्तं निष्प्रपञ्चमलक्षणम् ॥ ३१ ॥
अप्रत्यक्षमविज्ञेयं विनाशोत्पत्तिवर्जितम् ।
कैवल्यं केवलं शान्तं शुद्धस्फटिकसंनिभम् ॥ ३२ ॥
करणयोगनिर्मुक्तं हेतुसाधनवर्जितम् ।
तत्क्षणान्मुच्यते येन तज्ज्ञानं ब्रूहि शंकर ॥ ३३ ॥
ईश्वर उवाच
एतदेव महाभागे कुमारो ब्रह्मणः सुतः ।
परिसमेत्य योगीशं³ विष्णुं विश्वैककारणम् ॥ ३४ ॥
उवाच परया भक्त्या ब्रह्मविद्यां वद् प्रभो ।
ययाचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ३५
तस्मै स होवाच जगत्प्रभुश्च
श्रद्धाभक्तिध्यानयोगादवेहि ।
न कर्मणा न प्रजया धनेन
त्यागेनैकेनामृतत्वमानशुः ॥ ३६ ॥
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतयो विशन्ति ।
वेदान्तविज्ञानविनिश्चितार्थाः
संन्यासयोगाद्⁴ यतयो विशुद्धाः ॥ ३७ ॥
१ 'क' क पाठ । २ 'ततस्तु पतने' क पाठ. । ३ गेयतत्तो' क. पाठ. । ४ 'गि' क. पाठ. ।
३६० गन्धर्वतन्त्रे ।
ते ब्रह्मलोकेषु परान्तकाले
परामृतात् परिमुच्यन्ति सर्वे ।
विविक्तदेशे च सुखासनस्थः
शुचिः समग्रीवशिरःशरीरः ॥ ३८ ॥
स्वस्वाश्रमस्थः सकलेन्द्रियाणि
निरुध्य भक्त्या स्वगुरुं प्रणम्य ।
हृत्पुण्डरीके विरजं विशुद्धं
विचिन्त्य मध्ये विशदं विशोकम् ॥ ३९ ॥
अचिन्त्यमव्यक्तमनन्तरूपं
शिवं शान्तममृतं ब्रह्म योनिम् ।
अथादिमध्यान्तविहीनमेकं
विधिं¹ चिदानन्दरूपमद्भुतम् ॥ ४० ॥
उमासहायं परमेश्वरं प्रभुं
त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं
समस्तसाक्षिं तमसः परस्तात् ॥ ४१ ॥
स ब्रह्मा शिवः स इन्द्रः सोऽक्षरः परमः स्वराट् ।
स³ एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ४२ ॥
स⁴ एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ४३ ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन् परं ब्रह्म याति नान्येन हेतुना ॥ ४४ ॥
१ 'भु' क, पाठः । २ 'श' क. पाठ. । ३ 'स विष्णु' ४ 'स स' क पाठ ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः ॥ ४५ ॥
स एव मायापरिमोहितात्मा
शरीरमास्थाय करोति सर्वम् ।
स्त्रीस्वन्नपानादिविचित्रभोगैः
स एव जाग्रत्परितृप्तिमेति ॥ ४६ ॥
स्वप्ने च जीवः सुखदुःखभोक्ता
स्वमायया कल्पितविश्वलोके ।
सुषुप्तिकाले सकले विलीने
तमोभिभूतः सुखरूपमेति ॥ ४७ ॥
पुनश्च जन्मान्तरकर्मयोगात्
स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीव-
स्ततस्तु जातं सकलं विचित्रम् ॥ ४८ ॥
आधारमानन्दमखण्डबोधं
यस्मिंल्लयं याति पुरत्रयं च ।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथिवी विश्वधारिणी ॥ ४९ ॥
यत्पुनर्ब्रह्म सर्वात्मा सर्वस्यायतनं महत् ।
सूक्ष्मात् सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ५० ॥
जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ५१ ॥
१ 'ध्या' ख पाठ । २ 'तो' क पाठ ।
३६२ गन्धर्वतन्त्रे ।
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः सोऽहं चिन्मात्रोऽहं सदाशिवः ॥ ५२ ॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५३ ॥
अणोरणीयानहमेव तद्व-
न्महानहं विश्वमहं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि ॥ ५४ ॥
अपाणिपादोऽहमचिन्त्यशक्तिः
पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाहम् ॥ ५५ ॥
वेदैैरनेकैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियबुद्धिरस्ति ॥ ५६ ॥
न भूमिरापो मम नास्ति वह्नि-
र्न चानिलो मेऽस्ति नचाम्बरं च ।
एवं विदित्वा परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम् ॥ ५७ ॥
समस्तसाक्षिं सदसद्विहीनं
प्रयाति शुद्धं परमात्मरूपम् ॥ ५८ ॥
१ 'साक्षी' क. पाठ. । २ 'द्वयो' क. पाठ ।
द्वाचत्वारिंशः पटलः । ३६३
य एतत्तन्त्रं समधीते सोऽग्निपूतो भवति सुरापानात्पूतो
भवति कृत्याकृत्यात्पूतो भवत्यगम्यगमनात्पूतो भवति ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे तत्त्वज्ञानोपदेशनं
नाम द्वाचत्वारिंशः पटलः ॥ ४२ ॥
समाप्तमिदं श्रीशिवार्पणं भूयात् ॥