सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

अष्टाविंशः पटलः । २६१
प्रलपन् वा जपेद् यावत् तावन्निष्फलमुच्यते ।
सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ॥ ५९ ॥
प्रोक्ते पामरशब्दे तु प्राणायामं सकृच्चरेत् ।
बहुप्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ॥ ६० ॥
पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६१ ॥
कृत्वाचम्य जपेच्छेषं यद्वा सूर्यादिदर्शनम् ।
शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ॥ ६२ ॥
प्रत्यहं चालयेच्छय्यामेकाकी निर्भयः स्वपेत् ।
एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ ६३ ॥
एवमुक्तविधानेन विलम्बत्वरितं विना ।
उक्तसंख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥ ६४ ॥
देवतागुरुमन्त्राणामैक्यं संभावयन् धिया ।
जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥ ६५ ॥
यत्सं(ख्यामा?ख्यया)समारब्धं तच्च कुर्याद्दिने दिने ।
यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ६६ ॥
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात् (तेषां?पुंसः) सिद्धिहानिः प्रजायते ॥६७॥
मन्त्रं जप्त्वाम्बु पानीयैः सुलोचनमभोजनम् (?) ।
कुर्याद्यथोक्तविधिना त्रिसंध्यं देवमर्चयेत् ॥ ६८ ॥
एकसंध्यं द्विसंध्यं वा न मन्त्रं केवलं जपेत् ।

२६३ गन्धर्वतन्त्रे ।
एकग्रामे स्थितो गत्वा वन्देत केवलं गुरुम् ॥ ६९ ॥
प्रणामोऽष्टाङ्ग एवात्र देवतावन्दनं तथा ।
नित्यं नैमित्तिकं कुर्यात् सङ्गं च साधुभिः सह ॥ ७० ॥
शक्तौ त्रिषवणस्नानं द्वे सकृद्वा तथा चरेत् ।
परकीयतरे तोये स्नानं पूर्वं समाचरेत् ॥ ७१ ॥
संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः ।
यथोक्तविहिते कुण्डे जुहुयात् संस्कृतेऽनले ॥ ७२ ॥
अथवा प्रत्यहं जप्त्वा जुहुयात्तद्दशांशतः ।
तथा होमदशांशं तु जले संपूज्य देवताम् ॥ ७३ ॥
तर्पयामीति मन्त्रान्ते प्रोक्ताद्भिर्मूर्ध्नि तर्पयेत् ।
जपो होमस्तर्पणं च (पू?मृ)जा ब्राह्मणभोजनम् ॥ ७४ ॥
पूर्वपूर्वदशांशेन कुर्यात् पञ्चाङ्गसंयुतम् ।
स्वाभिषेकाघमर्षौ च सूर्यार्घ्यं जलपानकम् ॥ ७५ ॥
प्राणायामं ततः कुर्यात् पूर्वपूर्वदशांशतः ।
दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते ॥ ७६ ॥
तत्पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः ।
यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य हि ॥ ७७ ॥
करणं विजयान्तं तत्प्रोक्तं देशिकसत्तमैः ।
तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ॥ ७८ ॥
गुरुं संतोषयेदेवं मन्त्राः सिध्यन्ति मन्त्रिणः ।

अष्टाविंशः पटलः । २६३
होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ ७६ ॥
इतरेषां तु वर्णानां त्रिगुणादिः समीरितः ।
एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ॥ ८० ॥
अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधनम् ।
सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ॥ ८१ ॥
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः ।
न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ॥ ८२ ॥
तान्येवं पूर्णतां यान्ति समस्तानि भवन्ति चेत् ।
अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ॥ ८३ ॥
नियतान्यपि कर्माणि हीनानि द्विजभोजनैः ।
निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ ८४ ॥
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ८५ ॥
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ॥ ८६ ॥
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ।
होमस्य तु दशांशेन तर्पणं समुपाचरेत् ।१॥ ८७ ॥
अभिषेकदशांशेन कुर्याद् ब्राह्मणभोजनम् ।
तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ८८ ॥
गुरवे दक्षिणां दद्याद्भक्त्या विप्रान् प्रतर्पयेत् ।
१ 'स' क. पाठ. । २ 'ज्ञ' क. पाठ. । 'क' ख. पाठ. ।

२६४ गन्धर्वतन्त्रे ।
ततश्च मन्त्रसिद्धिः स्याद् देवता च प्रसीदति ॥८९॥
ततस्तु मन्त्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् ।
अथवा देवतारूपं गुरुं भक्त्या प्रतोषयेत् ॥ ९० ॥
पुरश्चरणहीनोऽपि मन्त्रसिद्धिरसंशयः ।
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुरश्चर्याविधिनिरूपणं
अष्टाविंशः पटलः ॥ २८ ॥

४. पटल ३१-४२: सिद्धि-लक्षण, कुलधर्म एवं तन्त्र-उपसंहार

एकोनत्रिंशः पटलः ।
—=::❀::=—
ईश्वर उवाच
पूर्वोक्तविधिना देवि लक्षार्धं प्रजपेत् तथा ।
रात्रौ ताम्बूलपूर्णास्यस्तथैवोक्तविधानतः ॥ १ ॥
कामरूपं वपुः कृत्वा कामिन्येवै महानिशि ।
कुलयुक्तो जपेल्लक्षं निशाया मध्यभागतः ॥ २ ॥
अत्र यत् क्रियते कर्म तदनन्तफलप्रदम् ।
मूलाधारे महादेवि लिङ्गं स्वयंभूवाचकम् ॥ ३ ॥
ज्योतीरूपं तु योनिस्यं तत्रैव मनसा जपेत् ।
ध्यायेत् कुण्डलिनीं देवि तद्विद्यान्तररूपिणीम् ॥ ४ ॥
हृदि त्रिकोणमध्ये च बाणलिङ्गे च तेजसि ।
तत्र संचिन्त्य मनसा जपेल्लक्षं समाहितः ॥ ५ ॥
मूर्ध्नि त्रिकोणमध्ये तु इतरं पश्चिमामुखम् ।
तत्र स्थित्वा जपेल्लक्षं यत्र कुत्र समाहितः ॥ ६ ॥
एवं लक्षत्रये सिद्धे यद्भावस्तूपजायते ।
तमुपाश्रित्य भावेन यथा देवस्तथा (रवे?भवेत्) ॥७॥
नवलक्षं जपेद्विद्यामिह भोगसमृद्धये ।
न ध्यानं नच विन्यासो न पूजा न पुरस्क्रिया ॥८॥


१ 'रास्य.' ख. पाठ. । २ 'नी' ख. पाठ. ।

२६६ गन्धर्वतन्त्रे ।
केवलं जपमात्रेण सिद्धयः सिद्धिकाङ्क्षिणाम् ।
कोटिजापे तु संपूर्ौ मनो मन्त्रात्मकं भवेत् ॥ ६ ॥
यावत्तावद्धि जप्तव्यं मनसैव नचान्यथा ।
मन्त्रमात्रस्वरूपे च सिद्धे मनसि पार्वति ॥ १० ॥
ध्यानमात्रं मनः कृत्वा ध्यानं ब्रह्मणि चार्पयेत् ।
विदिते ब्रह्मणः नेत्रे विदितः सर्ववित् प्रभुः ॥ ११ ॥
नव स्थानानि कथ्यन्ते शृणु सावहिता प्रिये ।
ज्योतीरूपं तदाधारे मेढ्रस्थाने शिखाप्रभम् ॥ १२ ॥
नाभिस्थं सूर्यविम्बाभं तरुणादित्यवर्च्चसम् ।
हृदि ज्योतिःशिखाकारं कण्ठे दीपशिखाप्रभम् ॥ १३॥
भ्रूमध्ये रत्नसङ्काशं तदूर्ध्वं भास्करप्रभम् ।
लम्बिके चन्द्रबिम्बाभं ततो वैदूर्यसंनिभम् ॥ १४ ॥
नवमे विश्वतेजा हि घण्टावैदूर्यसंनिभः ।
लिङ्गरूपी ह्यहं देवि नव लिङ्गानि यानि च ॥ १५ ॥
नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् ।
विसंज्ञाममृतं पीत्वा पुनराधारमानयेत् ॥ १६ ॥
मूलस्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु ।
नवलक्षप्रमाणं तु जप्त्वा त्रिपुरसुन्दरीम् ॥ १७ ॥

एकोनत्रिंशः पटलः । २६७
विधिवज्जायते देवि रुद्रमूर्त्तिरिवापरः ।
मन्त्राणां नव लक्षाणि कृत्वा लिङ्गानि वै नव ॥१८॥
नवैव परिजप्याथ नवलक्षफलं लभेत् ।
जातसूतकमादौ स्याद् वृत्ते च मृतसूतकम् ॥१९॥
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति ।
स्वयं तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया ॥२०॥
सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः ।
सत्कुलस्थानजातीनां शुचीनां श्रीमतां सताम् ॥ २१ ॥
नियतमग्निहोतॄणां भिक्षाशिनो(शना) ग्रजन्मनाम् ।
एषां मध्ये तु यः कश्चिद्गुरुर्वा शिष्य एव वा ॥२२॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति च ।
कथितं सूतकं तस्य जपात् सिद्धिर्न जायते ॥२३॥
गुप्तवी(जा?र्या)श्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।
मन्त्राश्चैतन्यसंयुक्ताः सर्वसिद्धिकराः स्मृताः ॥२४॥
चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।
फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ २५॥
मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।
शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ २६ ॥

२६८ गन्धर्वतन्त्रे ।
हृदये ग्रन्थिभेदश्च सर्वावयववर्धनः ।
मन्त्रार्थः कथ्यते देवि शृणु तत्प्रथमं प्रिये ॥ २७ ॥
भावार्थः संप्रदायार्थो निग(र्वा?र्भा)ख्यश्च कौलिकः ।
तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ॥ २८ ॥
अ(त्यन्ता?न्तरा)र्थो हि भावार्थः केवलं परमेश्वरि ।
शिवशक्तिसमायोगाज्जनितो मन्त्रराजकः ॥ २६ ॥
तन्मयीं परमानन्दनन्दितां मन्तरूपिणीम् ।
नि[संज्ञ?सर्ग] सुन्दरीं देवीं ज्ञात्वा खैरमुपासते ॥ ३० ॥
शिवशक्त्यात्मसं[यन्त्र?घट्ट]रूपिणी ब्रह्मरूपिणी ।
तत्प्रथाप्रसराश्लेषभुवि त्विन्द्रोपलक्षिते ॥ ३१ ॥
ज्ञातुर्ज्ञानमयाकारकरणान्मन्तरूपिणी ।
मध्यबिन्दुवि[सर्गान्तः] समौस्थानमये परे ॥ ३२ ॥
कुटिलारूपके तस्याः प्रतिरूपे३ त्रियत्कले४ ।
मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः ॥ ३३ ॥
मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ।
[बाह्य?राहु]कूटद्वयस्फूर्जच्च[रुद्रा?लक्ता]संस्थितस्य तु ।३४।
धर्माधर्मस्य वाच्यस्य [वीरा?विषा]मृतमयस्य च ।
वाचकाक्षरसंयुक्तेः प्रथिताँ विश्वरूपिणी ॥ ३५ ॥

१ 'भ्रं' ख पाठ । २ 'मस्था' ख पाठ । ३ 'बिम्ब' क पाठ । ४ 'ता' क पाठ ।
५ 'णीम्' क पाठ ।

एकोनत्रिंशः पटलः । २६६
तेषां समस्तरूपेण पराशक्तिस्तु मातृका ।
कूटत्रयात्मिका देवी समष्टिव्यष्टिरूपिणी ॥ ३६ ॥
कूटत्रये तु ह्रींकारं देव्या नेत्रत्रयं शुभम् ।
हकारस्त्वग्निरू[ढ?प]त्वात् संहरेद्भेदसंततिम् ॥ ३७ ॥
रेफः कालाग्निरू[ढ?प]त्वात् पापौघक्षयकारकः ।
तयोर्विमर्श ईकारो बिन्दुना त्रिगुणात्मना ॥ ३८ ॥
अमृतत्वं करोतीन्दुः कामः कामानशेषतः ।
सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ॥ ३६ ॥
विश्वाकारप्रथायास्तु महत्त्वं च (स?य)दाश्रयम् ।
शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ॥ ४० ॥
जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ।
पञ्चभूतमयं विश्वं तन्मयी सा सनातनी ॥ ४१ ॥
तन्मयी मूलविद्या च तथापि कथयामि ते ।
हकाराद्व्योम संभूतं (ह?क)कारात्तु प्रभञ्जनः ॥ ४२ ॥
रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ।
लकारात् पृथिवी जाता तस्माद्विश्वमयी च सा ॥ ४३ ॥
गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शुभा ।
यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता ॥ ४४ ॥
१ 'का देवी' क पाठ । २ 'णीम्' क पाठ । ३ 'त्मना' क पाठ ।

२७० गन्धर्वतन्त्रे ।
सैव सर्वेश्वरी देवी स च सर्वो महेश्वरः ।
व्याप्या पञ्चदशार्णैः सा पञ्चभूत[स्तु?गु]णात्मिका¹ ॥ ४५ ॥
पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः ।
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ॐ ॥ ४६ ॥
सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी ।
तत्त्वातीतस्वभावा च विज्ञेयं भाव्यते सदा ॥ ४७ ॥
पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ।
भूतं[लं सस्तलं?त्वधस्तनं] व्याप्यं तद्गुणा व्यापकाश्रयाः ४८
व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ।
तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ॥४६॥
व्योमबीजैस्तु विद्या[चै?स्थै]र्लक्ष्ये[तु च?च्छब्द] पञ्चकम् ।
तेषा कारणरूपेण स्थितं व्योममये परम् ॥ ५० ॥
भवे(ज्जवलु?द्गुण)वतां बीजं गुणानामपि वाचकम् ।
कार्यकारणभावेन तयोरैक्यविवक्षया ॥ ५१ ॥
१ 'काम्' क पाठ । २ 'ध्वनिमय' ख पाठ ।
ॐ प्रथमबीजेऽकारचतुष्टयमकारश्चेति पञ्च स्वरा व्यञ्जनषटक चेति एवमेकादश ।
द्वितीयबीजेऽकारपञ्चकमीकारश्चेति षट् स्वरा सप्त व्यञ्जनानि एव त्रयोदश । तृतीयबी-
जेऽकारत्रयमीकारश्चेति चत्वार स्वरा पञ्च व्यञ्जनानि एव नव । एवं विभजने त्रय-
स्त्रिशत् । बीजत्रयान्ते बिन्दुद्वयम् इति षट्त्रिंशत् । एतत्समष्टिरेका । एव सप्तत्रिंश-
त्प्रभेदिनी विज्ञेति ।

एकोनत्रिंशः पटलः । २७१
महामायात्रयेणापि कारणेन च बिन्दुना ।
वाय्वग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ॥ ५२ ॥
उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ।
रूपाणां त्रितयं त[त्त्वं?द्वत्]त्रिभी रेफैर्विभावितम् ॥ ५३ ॥
प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते ।
विद्यास्थैश्चन्द्रबीजैस्तु स्थूलः सूक्ष्मो रसः स्मृतः ॥ ५४ ॥
सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ।
वसुन्धरागुणो गन्धस्त[द्विद्धि?ल्लिपिः]गन्धवाचिका ॥ ५५॥
भुवनत्रयसं [बुद्ध्या?बन्धात्] त्रिधात्वं तु महेश्वरि ।
अशुद्ध [स्तत्त्व?शुद्ध] मिश्राणां प्रमातॄणां परं वपुः ॥ ५६ ॥
क्रोधीशत्रितयेनाथ विद्यास्थेन प्रकाश्यते ।
श्रीक[श्व?ण्ठ] दशकं तद्वद्व्यक्तस्य हि' वाचकम् ॥ ५७॥
प्राणारूपस्थितो देवि त (त्त्वमे?द्वाद)कादशः (पुनः?परः) ।
एकः सन्नेव पुरुषो बहुधा जायते हि सः ॥ ५८ ॥
रुद्रेश्वरसदेशाख्या देवता मितैविग्रहाः ।
बिन्दु(क्रमे?त्रये)ण कथिता, अमितामितैर्विग्रहाः ॥ ५९ ॥
शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनैः ।
वा[ग्भवो?गुरा] मूलवलये सूत्राद्याः कवलीकृताः ॥ ६० ॥

२७२ गन्धर्वतन्त्रे ।
तथा ऽमन्त्राः समस्ताश्च विद्याया(य?म)त्र संस्थिताः ।
गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ॥ ६१ ॥
निग[र्वो?र्भो]ऽपि च देवेशि शिवगुर्वा[थ?त्म] गोचरैः ।
तत्प्रकारं च देवेशि दिङ्मात्रेण वदामि ते ॥ ६२ ॥
शिवगुर्वात्मनामैक्यानुसंधानात् तदात्मकम् ।
निष्कलत्वं शिवे बुद्ध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ६३ ॥
भावयेद्भक्तिनम्रस्तु शङ्कोन्मेषाकलङ्कितः ।
कौलिकं कथयिष्यामि चक्र[मे?दे]वतयोरपि ॥ ४६ ॥
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते² ।
तथा मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ६५ ॥
एकादशाधिकशतै³र्देवतात्मतया स्थितम् ।
लकारैश्चतुरस्राणि, वृत्तत्रितयसंयुक्तम् ॥ ६६ ॥
सरोरुहद्वयं (शक्तो?शाक्तै)रग्नी(सो?षो) मात्मकं प्रिये ।
हृल्लेखात्रयसम्भु[ल्यै?तै]रक्षरैर्नवसंख्यकैः ॥ ६७ ॥
बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ।
मण्डलत्रयसंयुक्तं चक्रं शक्त्यनलात्मकम् ॥ ६८ ॥
व्योमबीजत्रयेणापि, प्रमातृत्रितयात्मकम् ।
इच्छा[दिना?ज्ञान]क्रियारूपमादनत्रयसंयुक्तम् ॥ ६६ ॥
१ 'गौरव' क पाठ । २ 'दृश्यते' क पाठ । ३ 'त' क पाठ ।

एकोनत्रिंशः पटलः । २७३
सर्ववर्णात्मकं बिन्दुचक्रं सद्यः शिवात्मकम् ।
गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ७० ॥
इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः ।
ग्रहरूपा परा देवी, ज्ञानकर्मेन्द्रियैरपि ॥ ७१ ॥
त(दुत्थै?दर्थै)रेव देवेशि करणैरान्तरैः पुनः ।
प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ७२ ॥
नक्षत्रविग्रहा जाता, योगिनीनामथोच्यते ।
त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ७३ ॥
वर्गाष्टकनिविष्टाभिर्योगिनी(भ्य?भि)स्तु संयुता ।
योगिनीरूपमास्थाय क्रीडते विश्वरूपिणी ॥ ७४ ॥
प्राणोऽपानः समानश्च व्यानोदानौ तथा पुनः । ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७५ ॥
जीवात्मा परमात्मा च तैरेव [बलि?राशि]रूपिणी ।
अकथादित्रिपंक्त्यात्मतार्तीयादिक्रमेण सा ॥ ७६ ॥
(जनना?गणेशोऽ)भून्महाविद्या परावागादिवाङ्मयी ।
बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ७७ ॥
हृल्लेखात्रयसम्भूतैस्तिथिसंख्यैरथाक्षरैः ।
अन्यैर्द्वादशभि[र्व्यक्तै?र्वर्णै]रेषा नक्षत्ररूपिणी ॥ ७८ ॥

२७४ गन्धर्वतन्त्रे ।
विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः¹ षद्भिरथाक्षरैः ।
योगिनी[वर्गा?त्वं च]विद्याया, राशित्वं चान्त्यवर्जितैः ॥७६॥
एवं विश्वप्रथाकारचक्ररूपा महेश्व(रि?री) ।
देवीदेहो यथा देवि गुरुदेहस्तथैव च ॥ ८० ॥
तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रकाशते ।
सहस्रदलमध्ये तु त्रिकोणं परिचिन्तयेत् ॥ ८१ ॥
तत्रैव मादनं बीजं बिन्दुमाश्रित्य दीपयेत् ।
कोटिचन्द्रप्रतीकाशं चिदानन्दमयं परम् ॥ ८२ ॥
अनुत्तरपदं गुह्यं ललाटोर्ध्वे व्यवस्थितम् ।
भगमाधारसंस्थानं त्रिकोणपुरमाश्रितम् ॥ ८३ ॥
मृणालतन्तुरूपौ हि विश्वोत्पत्तेश्च कारणम् ।
इच्छाज्ञानक्रियारूपा चतुर्थी हृदये स्थिता ॥ ८४ ॥
शक्रं ललाटमध्ये तु दीपाभं परिचिन्तयेत् ।
विद्युत्कोटिप्रतीकाशं पञ्चमं नेत्रनासिके ॥ ८५ ॥
शिवो नादाख्यसंयुक्तस्त्रिषु शून्येषु संस्थितः ।
सूर्यकोटिप्रतीकाशो महापद्मोपरिस्थितः ॥ ८६ ॥
सकारं मुखमध्ये तु बालार्कसदृशं परम् ।
मादनं जठरे देवि वराभं परिचिन्तयेत् ॥ ८७ ॥
१ 'कै' ख पाठ.। २ 'ष' ख पाठः।

एकोनत्रिंशः पटलः । २७५
हकारं प्राणवायौ च हंसा [भि?भं] परिचिन्तयेत् ।
कलाषोडशपत्रे च इन्द्रमोंकाररूपकम् ॥ ८८ ॥
ह्रींकारं हृदये पद्मे कोटिसूर्यसमप्रभम् ।
बिन्दुद्वये कुचयुग्मे यवाभे चार्थचन्द्रकम् ॥ ८९ ॥
नादबिन्दुस्तदग्रे तु शिवशक्तिसमन्विते ।
कामराजं महेशानि आकर्षणकरं परम् ॥ ९० ॥
नाभिपद्मे त्रिकोणे च दाडिमाभं सकारकम् ।
पादद्वये महेशानि मादनं दीपसंनिभम् ॥ ९१ ॥
पृष्ठोपरिस्थितं देवि इन्द्रं तेजःस्वरूपिणम् ।
चतुर्थं योनिमध्ये तु दीपाभं परिचिन्तयेत् ॥ ९२ ॥
शिवेन लिङ्गरूपेण तद्विन्दुयुगलेन च ।
विद्याबीजत्रयं देवि योनित्वे परिचिन्तयेत् ॥ ९३ ॥
लिङ्गं योनिं च सत्त्वं च चतुर्थं कथितं मया ।
(५)अथ सर्वरहस्यार्थं कथयामि तवानघे ॥ ९४ ॥
मूलाधारे ज्वलद्रूपं वाग्भवाकार[तद्धि?तां] गते ।
अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा ॥ ९५ ॥
विद्यां कुण्डलिनीरूपा मण्डलत्रयभेदिनी ।
तडित्कोटिप्रभाप्रख्या विषतन्तुनिभाकृतिः ॥ ९६ ॥
व्योमेन्दुमण्डलासक्ता [स्व?सु]धास्रोतःस्वरूपिणी ।
सदाव्याप्तजगत्कृत्स्ना सदानन्दस्वरूपिणी ॥ ९७ ॥
एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ।

२७६ गन्धर्वतन्त्रे ।
(६)महातत्त्वार्थ इति यत्तच्च देवि ब्रवीमि ते ॥ ९८॥
निष्कले परमे सूक्ष्मे १निर्लिप्ते भाववर्जिते ।
व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे ॥ ९९॥
विश्वोत्तीर्णे विश्वमये तत्त्वे स्वात्मनियोज(येत्?नम्) ।
तदा प्रकाशमानत्वात् तेजसां तमसामपि ॥ १००॥
अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ।
प्रकाशते महातत्त्वं दिव्यक्रीडारसो२ज्ज्वले ॥ १०१ ॥
निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ।
रहस्यार्थो मया प्रोक्तः सद्यः प्रत्ययकारकः ॥ १०२ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्यासाधननिर्णयो
एकोनत्रिंशः पटलः ॥ २९ ॥
१ 'निर्लप्त्ये' ख पाठः । २ 'सोद्वले' ख. पाठ ।

ित्रंशः पटलः ।
—=:!0:-=—
ईश्वर उवाच ,
अकथ्यमपि देवेशि तव स्नेहाद्वदाम्यहम् ।
त्रिकूटान्ते हंसबीजं बिन्दुनादविभूषितम् ॥ १ ॥
विपरीतेन वा देवि दुर्लभं पापचेतसाम् ।
हकारः प्राणरूपस्तु सकारो जीव उच्यते ॥ २ ॥
उभौ जीवेति विख्यातौ त्रैलोक्ये सचराचरे ।
हकारं शुक्लवर्णाढ्यं चन्द्रकोटिसमप्रभम् ॥ ३ ॥
सकारं रक्तवर्णाढ्यं कोटिसूर्यसमप्रभम् ।
भावनं त्वस्य मन्त्रस्य जपमात्रं न विद्यते ॥ ४ ॥
अजपा तेन विख्याता शिवशक्तिसमन्विता ।
न्यासमन्त्रस्य विद्याया हकारः प्राण उच्यते ॥ ५ ॥
सकारो जीव आख्यातो जीवः कामेन मण्डितः
मादनं प्राणरूपं तु वि(मर्श?कासः) शिव उच्यते ॥६॥
सकारस्थः परो ज्ञेयः संकोचः शक्तिरूपवान् ।
संकोचः परमा शक्तिर्वि(मर्शः?कास.) परमः शिवः ॥७॥
संकोचश्च विकासश्च हस इत्यक्षरद्वयम् ।
तयोरखररूपेण [क?ह]वर्णौ बिल्व(न्दु)मालिनी ॥ ८ ॥


१ 'सकार जीवमाख्यात जीव कामेन मण्डितम्' क पाठ ।

२७८ गन्धर्व्वतन्त्रे ।
प्राणो 'बिन्दुरिति प्रोक्तः साहचर्याद्वरानने ।
सपूर्व्वमुदितं मन्त्रं शंभुशक्त्यैक्यवाचकम् ॥ ६ ॥
जीवशक्त्यैक्यसिद्धयर्थं गदितं सुरपूजिते ।
अस्मिन्मन्त्रे वरारोहे कालकर्म्मान्तवर्त्मना ॥ १० ॥
वर्तते यस्तु युक्तात्मा असाध्यमपि साधयेत् ।
त्वं च जीवैक्यसिद्धयर्थमुदितं मन्त्रनायकम् ॥ ११ ॥
तथ्यं मद्वाक्यतो(देवि?विद्धि) फलाफलस्पृहां त्यज ।
अस्मिन्मन्त्रे महाभागे समे जप्ते वदाम्यहम् ॥ १२ ॥
सर्वे मन्त्राः प्रसिध्यन्ति जीवन्ति च पुनन्ति च ।
प्राणन्ति च महाभागे सत्यं सत्यं वदाम्यहम् ॥ १३ ॥
सोऽहंभावेन भावेन भावनं भावनं मतम् ।
सोऽहंभावेन भावं तु उक्तलक्षणल(क्ष्यते?ञ्चितम्) ॥१४॥
कृत्वाहंभावमुत्सृज्य सोऽहंभावे स्थिरीभवेत् ।
शंभुभावे स्थिरीभूते बिन्दुं शंभौ विभावयेत् ॥ १५ ॥
सञ्चित्सुखमयंः शंभुस्त्रिरूपः सर्वकर्मणि ।
सर्वदा भा(ष?व्य)ते यस्मात्तन्मयं त्वखिलं ततः ॥१६॥
सत्संनिधिसमज्ञेषु शंभुश्चैव प्रकाशते ।
कामः कामर्यते भेदमिति तद्रूपतां मतिः ॥ १७ ॥
१ ‘यतो भेदमिति तद्रूपतामति’ क्र पाठ ।

त्रिंशः पटलः । २७६
यैत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दोऽभिजायते ।
यत्रानन्दो भवेद्भावे तत्र चित्सत्तयोः स्थितिः ॥ १८ ॥
या चित्सत्तैव सा प्रोक्ता यौ सत्ता सा चिदुच्यते ।
एवं चित्सत्तयोरैक्ये स्थिरीभूते वरानने ॥ १९ ॥
आनन्देन समावेशोऽसुचिरादेव जायते ।
तदानन्दमयं विश्वं स्वात्माभेदं प्रकाशते ॥ २० ॥
एवं शंभुमये भावे सर्वतः प्रभवे शिवे ।
सर्वशक्त्युपभोगे तु जीवन्मुक्तो महीं वसेत् ॥ २१ ॥
भावद्या ? वस्तुभूताया हसौ ⸱ ⸱ ⸱ ।
प्राणाः स्वराः समाख्याता बिन्दुस(ङ्कौ?र्गौ) च चेतना ॥२२॥
अन्यान्यावयवानि स्युरन्यानि परमेश्वरि ।
तेन तद्युक्तितो मन्त्राः प्रसीदन्ति नचान्यथा ॥ २३ ॥
बिन्दुसर्गौ हसौ तुर्यस्वरश्चेति च पञ्चमम् ।
भवत्या मातृकादेहे विद्धि चैतन्यजृम्भणम् ॥ २४ ॥
तेन तैर्हीनरूपास्तु मन्त्रा विद्यास्तथा परे ।
निष्प्राणदेहवत्कार्यकरणेष्वक्षमाः स्मृताः ॥ २५ ॥
रमां मायां हंसबीजं वाग्भ[वत्वे?वाद्ये]नियोजयेत् ।
शक्त्यन्ते परमेशानि सोऽहं मायां रमां तथा ॥ २६ ॥
१ 'अत्र चित्सत्त्वये व्याप्तिर्य' क पाठ । २ 'त्त्व' क पाठ. । ३ 'अ' क. पाठः ।
३ 'त्त्व' क पाठ । ४ 'सर्गौ' क. पाठ ।

२८० गन्धर्वतन्त्रे ।
कामराजाह्वये देवि क्रोधीशं शक्रसंयुतम् ।
मायाबिन्दुसमायुक्तं कोटिसूर्यसमप्रभम् ॥ २७ ॥
स्फुरत् त्रिकोणमध्यस्थं किरणानेकसंवृतम् ।
एतत्प्राणं महाभागे गुप्तं ग्रन्थे प्रकाशितम् ॥ २८ ॥
बोधिन्या बोधयेद्विद्यां संदीपन्या च दीपयेत् ।
तारमायारमायोगो म(नो?नु)दीपनमुच्यते ॥ २६ ॥
जीवन्या जीवयेद्विद्याममृतैरमृतं चरेत् ।
पृथग्विधं तु तस्यापि साधनं शृणु पार्वति ॥ ३० ॥
वाग्भवबीजरूपां तु दीपाभां तन्तुरूपिणीं ।
गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु ॥ ३१ ॥
विशेदकुलामृतं दिव्यं क्षीरधारोपमं द्रवत् ।
पीत्वाकुलामृतं देवि पुनरेव विशेत् कुलम् ॥ ३२ ॥
पुनरेवाकुलं गच्छेद् द्वादशान्ते वरानने ।
सहस्रारे महापद्मे वाग्भवं पूर्णचन्द्रकम् ॥ ३३ ॥
ब्रह्मग्रन्थि ततो भित्त्वा ❁सप्तषष्ट्याख्यधारया '?, ।
नासिकारन्ध्रमार्गेण त्वात्ममूलं प्रवेशयेत् ॥ ३४ ॥
जिह्वामापूर्य भो देवि मातृकावर्णरूपिणीम् ।
बहिर्गतां तु वाग्रूपां जिह्वाग्रे दीपरूपिणीम् ॥ ३५ ॥
१ 'पं' क. पाठ । २ 'विशदस्था' क पाठ । ३ 'सद्भवम्' क पाठ' ।
❁ 'वह्निविषाधारद्वयमध्यवर्तिन शाक्ताख्यमाधार भित्त्वेत्यर्थः ।