सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

षोडशः पटलः । १६१
तस्मात् सर्वप्रयत्नेन नैवेद्यं खलु दापयेत् । .
मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ ३१ ॥
यो नरो भक्तिसंयुक्तो दीर्घायुः स सुखी भवेत् ।
हविः सुसंस्कृतं दिव्यमाज्ययुक्तं सशर्करम् ॥ ३२ ॥
शुद्धस्फटिकसंकाशं चन्द्रबिम्बसमप्रभम् ।
लसत्त(न्तु?ण्डु)लजं देवि चारुगन्धसहं मृदु ॥ ३३ ॥
सुगन्धिशा(द्वि?लि)जं चा(त्वं?रु) मधुमांससमन्वितम् ।
अपूपपायसं क्षीरमन्नं देव्याः प्रशस्यते ॥ ३४ ॥
बलिदानेषु विहिता य एव मृगपक्षिणः ।
तेषां मांसानि मत्स्यानि देयानि विविधानि च ॥ ३५ ॥
सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् ।
यथा यथा भवेद्धद्यं यत्ने(द्रव्यं?देयं)तथा तथा ॥ ३६ ॥
संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् ।
यत्पूतिगन्धसंयुक्तं दग्धं भोगबहिष्कृतम् ॥ ३७ ॥
तदुक्तमपि(यो?न)दद्यात् त्रिपुरायै कदाचन ।
कालशाकं कलायं च पालकं चापि पोतिकाम् ॥ ३८ ॥
सार्षपं मूलकं चापि वास्तूकं च कलम्बिकाम् ।
शाकानेतान् महादेव्यै यो दद्याद्भक्तिसंयुतः ॥ ३६ ॥
सोऽतुलां श्रियमाप्नोति देवीलोके महीयते ।
माषमु(ग्द?द्र)मसूराद्यैर्व्यञ्जनं लवणान्वितम् ॥ ४० ॥
हिङ्गुजीरमरीचाद्यैरार्द्रकैश्चापि संस्कृतम् ।
१ 'यत्नात्' क पाठः । २ 'दुग्ध' क पाठः ।

१६२ गन्धर्वतन्त्रे ।
तिन्तिडीखण्डसंयुक्तं भक्तियुक्तो निवेद्य च ॥ ४१ ॥
ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् ।
नानाविधानि पेयानि व्यञ्जनानि बहून्यपि ॥ ४२ ॥
क्षीरादीन्यथ गव्यानि माहिषाणि च सर्वशः
आमिक्षां परमेशान्यै दधि चापि सशर्करम् ॥ ४३ ॥
पायसं शर्करापूपं कपिलाघृतसंयुतम् ।
पक्वान्नमतिमिष्टं च सिताकर्पूरसाधितम् ॥ ४४ ॥
शर्करालोलितान् कृत्वा वटकान् कुङ्कुमारुणान् ।
सशर्करं पक्वदुग्धं कदल्यादिफलान्वितम् ॥ ४५ ॥
सितोपदेशं मद्यं च स्वर्णपात्रे निवेदयेत् ।
अथवा रौप्यपात्रे च ताम्रपात्रेऽथवा पुनः ॥ ४६ ॥
अभावात् पद्मपत्रे वा अन्यथा नरकं व्रजेत् ।
आममन्नं महादेव्यै नैव दद्यात् कदाचन ॥ ४७ ॥
मन्त्रकालाविशुद्धानि नैवेद्यानि कदाचन
देवेभ्यो नोपयुञ्जीत[गुरोर्वामे?पुरो वा स्व]हितेरतः॥ ४८॥
सितासंमिश्रितां दत्त्वा सुरां मधुसमन्विताम् ।
देवीलोके चिरं स्थित्वा कैवल्यं मुक्तिमाप्नुयात् ॥ ४६॥
आमिक्षया समं दत्त्वा सलिलं नारिकेलजम् ।
क्षीरा[द्य?ज्य]मधुकर्पूरसितादधिसमन्वितम् ॥ ५० ॥
त्रिजातत्रिकटूनां च लवङ्गेन द्वयोरपि ।
तथान्येषां च वस्तूनां चूर्णैर्गन्धवतीं शिवे ॥ ५१ ॥
साधयित्वा प्रकारेण वासि(त?तां) गन्धरेणुभिः ।

षोडशः पटलः । १६३
यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत् ॥ ५२.॥
भक्तिप्रवर्णांचितेन तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ५३ ॥
स्थित्वा देवीपुरे श्रीमान् सार्वभौमो भवेत् क्षितौ ।
ततः परं तु कैवल्यमाप्नोति च यथेच्छया ॥ ५४॥
केवलं नारिकेलाम्बु दत्त्वा देव्यै महेश्वरि ।
अग्निष्टोमफलं लब्ध्वा नरलोके महीयते ॥ ५५॥
ग्राम्यारण्यैः फलैर्देवीं सकलैः परिपूजयेत् ।
बलिप्रियं च नैवेद्यं कशेरुकविषादिकम् ॥ ५६ ॥
ऋते श्लेष्मातकं बिल्वं शौनकं च विशेषतः ।
फलान्यनल्पपक्कानि निसर्गमधुराणि च ॥ ५७॥
सुपक्कानि सुगन्धीनि मनोहराणि यानि च ।
एवमेतानि शस्तानि नान्यानि शुभदानि च ॥ ५८ ॥
सौवर्णे राजते वापि ताम्रे वा प्रस्तरेऽपि च ।
पद्मपत्रेऽथवा दद्यान्नैवेद्यं त्रिपुराप्रियम् ॥ ५९ ॥
निराच्छादं समालोक्य भक्तिश्रद्धासमन्वितः ।
वायुबीजेन संशोष्य संदहेद्वह्निना तथा ॥ ६० ॥
वारुणेन [ख?सु]धावृ[त्या?ष्ट्या] प्लावयेद्धेनुमुद्रया ।
अस्त्रमन्त्रेण संरक्ष्य मूलेनैवाभिषिच्य तु ॥ ६१ ॥
मूलदेव्याः स्वनामान्ते नैवेद्यमिति चोच्चरेत् ।
गृहाण वह्निजायान्तो नैवेद्यमनुरीरितः ॥ ६२ ॥
१ 'द्याव' क पाठः । २ 'वह्नि' क. पाठ. ।

१६४ गन्धर्वतन्त्रे ।
अन्नं चतुर्विधं देवि रसैः षड्भिः समन्वितम् ।
मया निवेदितं भक्त्या तदिदं प्रतिगृह्यताम् ॥ ६३ ॥
लेह्यचोष्यानुपानादिभक्ष्य[तोह्या?भोज्या]नि यानि च ।
मयाहृतानि यत्नेन [रू?कृ]पया देवि भुज्यताम् ॥ ६४ ॥
जातीलवङ्गकक्कोलवासितं स्वर्धुनीजलम् ।
मुखवासकरं पुण्यं गृहीत्वाचाम सुन्दरि ॥ ६५ ॥
मूलमन्त्रेण देवेशि हुनेत् पञ्चाहुतीः क्रमात् ।
प्राणापानौ तथा व्यानमुदानं च समानकम् ॥ ६६ ॥
एतत्स्वरूपं जानीयादाहुतीनां च पञ्चकम्
पञ्चाङ्गुलीभिरेव स्यात् क्रमात् पञ्चाहुतीः प्रिये ॥ ६७ ॥
पुनराचमनं दत्त्वा मुखवासं निवेदयेत् ।
ताम्बूलं गन्धसंयुक्तं कर्पूरादिसुवासितम् ॥ ६८ ॥
संस्कृत्य विविधैर्द्रव्यैर्गन्धवद्भिर्निवेदयेत् ।
स्तुवन् नानाविधैः स्तोत्रैर्भक्तिभावसमन्वितः ॥ ६६ ॥
प्रणमेत् परमेशानीं विधिना साधकोत्तमः ।
देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः ॥ ७० ॥
नमस्कारेण तुष्यन्ति महात्मानः समन्ततः ।
नमस्कारेण लभते चतुर्वर्गं महोदयम् ॥ ७१ ॥
सर्वत्र सर्वसिद्ध्यर्थं नतिरेवं प्रशस्यते ।
नत्वा विजयते लोकान् नत्वा धर्मः प्रवर्तते ॥ ७२ ॥
नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः ।
१ 'नि' क पाठ । २ 'तिरेका प्रवर्तते' ख पाठ. ।

षोडशः पटलः । १६५
चतुर्वर्गं लभेद्रक्तो न चिरादेव साधकः ॥ ७३ ॥
नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा ।
नमस्कुरु महादेवीं प्रदक्षिणां च भक्तितः ॥ ७४ ॥
मनसापि महादेव्या यो भक्त्या कुरुते नतिम् ।
सोऽपि लोकान् विनिर्जित्य देवीलोके महीयते ॥ ७५ ॥
कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः ।
नमस्काराश्च विज्ञेया उत्तमाधममध्यमाः ॥ ७६ ॥
कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति सर्वतः ।
नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः ॥ ७७ ॥
जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षि[त?ति]म् ।
क्रियते यो नमस्कारः स एव कायिकः स्मृतैः ॥ ७८ ॥
पुटीकृत्य करौ शीर्षे नमस्कारः प्रदीयते ।
अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते ॥ ७६ ॥
जानुभ्यां क्षितिमस्पृष्ट्वा शिरसास्पृश्य मेदिनीम् ।
क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः ॥ ८० ॥
पौराणिकैस्तान्त्रिकैर्वा मूलमन्त्रेण वा पुनः ।
प्रदक्षिणां प्रणामं च कुर्याद्धर्मार्थसाधनम् ॥ ८१ ॥
प्रसार्य दक्षिणां हस्तं स्वयं नम्रशिराः पुनः ।
दक्षिणां दर्शयन् पार्श्वं भक्तिश्रद्धासमन्वितः ॥ ८२ ॥
सकृत् प्रदक्षिणां कृत्वा वर्तुलाकृति साधकः ।
स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः ॥ ८३ ॥
१ 'सर्वदा' ख पाठः । २ 'प्रोच्यते कायिकस्तु स' ख पाठः । ३ 'रु' ख पाठः ।

१६६ गन्धर्वतन्त्रे ।
अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् ।
स सर्वकामानासाद्य पश्चान्मोक्षमवाप्नुयात् ॥ ८४॥
त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् ।
दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ ८५॥
दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शांभवीम् ।
ततोऽपि दक्षिणां [द?ग]त्वा नमस्कारस्त्रिकोणवत्॥ ८६॥
त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः ।
दक्षिणाद्वायवीं गत्वा वायव्याः शांभवीं तथा ॥ ८७॥
ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाग्नौ प्रविश्य च ।
अग्नितो राक्षसीं गत्वा कौबेरीं च ततो विशेत् ॥८८॥
आग्नेयीं च ततो गत्वा नमस्कारः प्रकीर्तितः ।
षट्कोणाख्यो नमस्कारो दुर्गायाः प्रीतिदायकः ॥८६॥
दक्षिणाद्वायवीं गत्वा तस्माद्भावृत्य दक्षिणम् ।
गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रो मम प्रियः ॥६०॥
नमस्कारेषु जानीयादासां प्राकृतमाद्रिजे ।
त्यक्त्वा स्वमासनस्थानं पश्चाद्गत्वा नमस्कृतः ॥६१॥
निपत्य दण्डवद् भूमौ निपत्य हृदयेन च ।
तथैव दण्डवद् भूमौ दण्ड इत्युच्यते बुधैः ॥६२॥
चिबुकेन मुखेनाथ नासया हनुकेन च ।
चक्षुषा वाथ कर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि ॥६३॥
तदष्टाङ्गमिति प्रोक्तं यद्भूमिं स्पृशते क्रमात् ।


१ 'ममा' ख पाठ ।

षोडशः पटलः । १६७
ब्रह्मरन्ध्रेण संस्पर्शः द्वितेर्यस्या नमस्कृतेः ॥ ६४ ॥
स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः ।
यत् स्वयं गद्यपद्याभ्यां [ग?घ]टिताभ्यां नमस्कृतिः ॥ ६५ ॥
क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः ।
पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः ॥ ६६ ॥
स मध्यमो नमस्कारो भवेद्वाचनिकैः सदा ।
परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत् ॥ ६७ ॥
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः ।
इष्ट[धामा?मध्या]निष्ठगतैर्मनोभिस्त्रिविधं भवेत् ॥ ६८ ॥
नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् ।
त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः ॥ ६६ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे उपचारफलविधिनिरूपणं
षोडशः पटलः ॥ १६ ॥


१ 'यास्त्व' ख पाठः । २ 'दाचारत ' ख पाठः ।

सप्तदशः पटलः ।
ꕤ
श्रीदेव्युवाच
प्रकटायः कथं देव पूज्यन्ते परमेश्वर ।
तत् सर्वं कथयेशान मुद्राविरचनं तथा ॥ १॥
ईश्वर उवाच
तास्तु प्रपूजयेद्भक्त्या सृष्टिस्थितिलयक्रमैः ।
मोहनं क्षोभणं चक्रं दक्षावर्तक्रमाद्यजेत् ॥ २॥
वामावर्तक्रमेणैव शेषचक्राणि पूजयेत् ।
आरभ्य पश्चिमाद् देवि वायव्यन्तं समापयेत् ॥ ३॥
रश्मिवृन्दानि ते देवि पूजयामि विधानतः ।
आज्ञापय जगन्मातर्यत[स्त?स्त्व]मेव तानि[व?च] ॥ ४ ॥
कृताञ्जलिर्महेशानि देव्याज्ञां साधकोत्तमः ।
गृहीत्वा पूजयेत् तुष्टैः प्रागुक्तक्रमयोगतः ॥ ५॥
पूजावरणशक्तीनां गन्धपुष्पाद्भिरर्चतैः ।
ज्ञानमुद्रान्वितैर्देवि तर्पणं तत्त्वमुद्रया ॥ ६॥
(१)महायोगीश्वरं देवं योगिनं करुणामयम् ।
वारुणं पूर्वमुद्धृत्य दक्षकर्णेन्दुभूषितम् ॥ ७॥
बुद्धाय नम इत्युक्त्वा पूजयेज्जगदीश्वरम् ।
पश्चिमादिचतुर्दिक्षु पूजयेद(नि?णि)मादिका ॥ ८॥
वायव्यादिषु कोणेषु वशित्वप्रमुख[न्?खाः]यजेत् ।
प्राप्तिसिद्धिमधोभागे सर्वकामां तथोर्ध्वके ॥ ६॥

१ 'ष्टो' क. पाठ । २ 'मा' क पाठ. ।

सप्तदशः पटलः । १६६
मायालक्ष्मीसमायोगं कृत्वा पूर्वं महेश्वरि ।
तथैव सिद्धिशब्दान्ते श्रीपादुकां ततो वदेत् १॥ १० ॥
पूजयामीति मनुना पूजयेदुक्तमार्गतः ।
तथा द्वितीयरेखायां ब्रह्माण्याद्याः प्रपूजयेत् ॥ ११ ॥
असिताङ्गं रुरुं चैव चण्डं क्रोधं तथैव च ।
उन्मत्तं च तथा देवि भैरवं च कपालिनम् ॥ १२ ॥
भीषणं चैव संहारं ताभिः सह प्रपूजयेत् ।
सर्वसंक्षोभिणीमुख्यास्तथा तृतीयरेखगाः ॥ १३ ॥
करशुद्धिकरीं पूर्वे पूजयेच्चक्रनायिकाम् ।
दक्षिणे पूजयेद् देव्या मुद्रा संक्षोभकारिणीम् ॥ १४ ॥
अ[नि?ग्णि]मां पूजयेद्वामे बुद्धं तस्याः पुरः पुनः ।
मध्यमे मध्यतः कृत्वा कनिष्ठेऽङ्गुष्ठ[बो?रो]धिते ॥ १५ ॥
तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके ।
एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ १६ ॥
(खा?था)न्तं ॐ वह्निसमारूढं द्वितीयस्वरभूषितम् ।
नादबिन्दुकलायुक्तं बीजं तस्याः प्रकीर्तितम् ॥ १७ ॥
आदाय दक्षहस्तेन विशेषार्घ्योदकं ततः ।
बीजद्वयं समाभाष्य तथैताः प्रकटास्ततः ॥ १८ ॥
योगिन्यश्च समुद्राश्च ससिद्धयश्च सायुधाः ।
तथा सपरिवाराश्च सर्वोपचारकैस्तथा ॥ १६ ॥
त्रैलोक्यमोहने चक्रे त्रिपुराधिष्ठिते तथा ।
१ 'रीपूर्वां' क. पाठ । ॐ थान्तमित्यादिना द्रीं इति बीजोद्धारः कृतः ।

१७० गन्धर्वतन्त्रे ।
पूजितास्तर्पिताः सन्तु देव्या हस्ते निवेदयेत् ॥ २० ॥
एवमखिलचक्रस्थयोगिनीनां महौजसाम् ।
यथाव[दह?दुक्त]वाक्येन चक्रपूजां निवेदयेत् ॥ २१ ॥
(१) मायालक्ष्मीकलाभिस्ता नित्याः कलाः प्रपूजयेत् ।
ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः ॥ २२ ॥
राजहंससमासीनः प्रांशुस्तुङ्गांसे उन्नतः ।
सावित्री वामपार्श्वस्था दक्षिणे च सरस्वती ॥ २३ ॥
सर्वे देवाः स्थितास्त्वग्रे वेदाः सर्वेऽग्रतः स्थिताः ।
वर्णेन रक्तगौराङ्गो जपमा[न?ला]लसत्करः ॥ २४ ॥
वराभयप्रदो देवः सर्वलोकपितामहः ।
प्रणवं पूर्वमुद्धृत्य ब्रह्मणे नम आलिखेत् ॥ २५ ॥
अनेन मनुना देवि ब्रह्माणं परिपूजयेत् ।
बालया योजितां कृत्वा पूजयेच्चक्रनायिकाम् ॥ २६ ॥
दर्शयेद(भा?द्रा)विणीं मुद्रां तत्तद्बीजपुरस्कृताम् ।
(खा?था)न्तं * वह्निसमारूढं तुर्यस्वरविभूषितम् ॥ २७ ॥
नादबिन्दुकलायुक्तं द्राविणीबीजमुत्तमम् ।
सर्वसंक्षोभमुद्राया मध्यमे स[त्र?र]ले यदा ॥ २८ ॥
क्रियेते परमेशानि सर्वविद्राविणी तदा ।
(३) शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् ॥ २९ ॥
व्याघ्रचर्मस्थिते पद्मे पद्मासनगतं सदा ।
संश्लिष्यन्तमुमां देवीं चामरोत्पलधारिणीम् ॥ ३० ॥
१ 'श' क पाठ । * थान्तमित्यादिना द्री इति द्राविणीमुद्राया बीजोद्धारः ।

सप्तदशः पटलः । १७१
द्विभुजां स्वर्णगौराङ्गीं सौम्यातिसौम्यरूपिणीम् ।
लीलारविन्दं [रा?वा]मे [णा?न] पाणिना बिभ्रतीं सदा ॥ ३१ ॥
शुक्लं तु चामरं [द?धृ]त्वा शिवस्याङ्केऽथ दक्षिणे ।
विन्यस्य दक्षिगं हस्तं तिष्ठन्तीं परिचिन्तयेत् ॥ ३२ ॥
त्रैलोक्यजननीं देवीं त्रैलोक्यजनकं शिवम् ।
उमामहेश्वरं ध्यात्वा मोहयेज्जगतीमिमाम् ॥ ३३ ॥
कामं शक्रं तथाकाशं तुरीयमनुभूषितम् ।
नादबिन्दुकलायुक्तं द्वयं बीजं तयोः क्रमात् ॥ ३४ ॥
उमा ङेन्ता तथा ङेन्तो महेश्वरो हृद[म्वि?न्वि]तः ।
मन्त्रराजः समाख्यातश्चतुर्वर्गफलप्रदः ॥ ३५ ॥
अनेन तौ समभ्यर्च्य सर्वसंक्षोभके ततः ।
अनङ्गकुसुमां पूर्वे कवर्गेणैव पूजयेत् ॥ ३६ ॥
चवर्गेण च देवेशि दक्षिणेऽनङ्गमेखलाम् ।
अनङ्गमदनां देवि टवर्गेण च पश्चिमे ॥ ३७ ॥
तवर्गेणोत्तरे भागे पूजयेन्मदनातुराम् ।
तथैवानङ्गरे[खासु?खां तु] पवर्गेण हुताशने ॥ ३८ ॥
यवर्गेण च देवेशि नैर्ऋतेऽनङ्गवेगिनी(म्) ।
शववर्गेण च वायव्येऽनङ्गाङ्कुशां च पूजयेत् ॥ ३६ ॥
ळक्षाभ्यां परमेशानि ईशे चानङ्गमालिनीम् ।
प्रोक्तस्थाने समावाह्य पूजयेच्चक्रनायिकाम् ॥ ४० ॥
कामबीजं पुरस्कृत्य मुद्रां संदर्शयेत् ततः ।
१ 'न्ती' क पाठः । २ 'शत्रु' क पाठ । ३ 'न्तोत' क पाठ ।

१७२ गन्धर्वतन्त्रे ।
मध्यमानामिकाभ्यां तु कनिष्ठनामिके समे ॥ ४१ ॥
अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ।
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षकारिणी ॥ ४२ ॥
[४] सर्वसौभाग्यदे चक्रे भास्करं परिचिन्तयेत् ।
पद्मरागप्रतीकाशं किरीटाङ्गदभूषणम् ॥ ४३ ॥
पद्मासनसमासीनं स्वशक्त्यालिङ्गितं विभुम् ।
दधानं बाहुभिर्देवं रक्तपद्मे वराभयौ ॥ ४४ ॥
प्रागुक्तेन तु मन्त्रेण भास्करं परिपूजयेत् ।
संप्रदायाः प्रपूज्यैव पूजयेच्चक्रनायिकाम् ॥ ४५ ॥
वारुणं ❁ चेन्द्रबीजस्थं [दक्ष?वाम]कर्णविभूषितम् ।
नादबिन्दुकलायुक्तं बीजं वश्यकरं महत् ॥ ४६ ॥
पुटाकारौ करौ कृत्वा तर्जन्यङ्कुशरूपिणी ।
परिवर्तक्रमेणैव मध्यमे तदधोगते ॥ ४७ ॥
क्रमेण देवि तेनैव कनिष्ठानामिके अपि ।
संयोज्य निविडाः कार्याः सर्वा अङ्गुष्ठदेशतः ॥ ४८ ॥
मुद्रैषा परमेशानि सर्ववश्यकरी मता ।
(५) सर्वार्थसाधके चक्रे बाह्ये दशारके ततः ॥ ४६ ॥
मणिमयम(हृद्?हा)रत्नपङ्कजेऽतिमनोहरे ।
पीठे तस्मिंस्त्रिविष्टपस्य प्रद्योतनशतद्युतेः ॥ ५० ॥
तप्तकाञ्चनवर्णा[भावनतो?भवैनते]यस्य पार्वति ।
आसीनमुन्नतांसे च विष्णुं विद्रुमसंनिभम् ॥ ५१ ॥
१ 'प्लव' क पाठ । २ 'वार' ख पाठ. । * वश्यमुद्राया बीजमुद्धरति वारुणमिति ब्लूँ इति ।

सप्तदशः पटलः । १७३
स्वामोरुगतां पद्मां श्लिष्यन्तमरुणेक्षणम् ।
पीतवस्त्रपरीधानं (च?स)सितं चारुभूषणम् ॥ ५२ ॥
शङ्खचक्रगदापद्मं दधानं बाहुभिः सदा ।
चिन्तयित्वा महेशानि पूजयेज्जगदीश्वरम् ॥ ५३ ॥
मन्त्रम(स्याः?स्य)प्रवक्ष्यामि चतुर्वर्गप्रदायकम् ।
कामबीजं समुद्धृत्य हृषीकेशमतः परम् ॥ ५४ ॥
ङेन्तं च नतिसंयुक्तमनेन तं प्रपूजयेत् ।
कुलकौलाः प्रपूज्यैव पूजयेच्चक्रनायिकाम् ॥ ५५ ॥
सर्वोन्मादकरीं मुद्रां दर्शयेद्वीजपूर्वकाम् ।
ससर्गो❄ भृगुरेत्तस्या बीजमेतदुदाहृतम् ॥ ५६ ॥
संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे ।
अनामिके तु सरले तद्वहिस्तर्जनीद्वयम् ॥ ५७ ॥
दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ ।
मुद्रैषोन्मादिनी नाम्ना क्लेदिनी सर्वयोषिताम् ॥ ५८ ॥
[६]सर्वरत्नाकरे चक्रे तथान्तर्दशकोणके ।
त्रैलोक्यमोहनं विष्णुं ध्यायेद्बन्धूकसंनिभम् ॥ ५९ ॥
ज(वा?पा)कुसुमसंकाशं दाडिमीकुसुमप्रभम् ।
उद्यदादित्यसंकाशं रत्नसिंहासनेऽम्बुजे ॥ ६० ॥
पद्मासनसमासीनं भुजैश्चतुर्भिरायतैः ।
पाशाङ्कुशौ च दधतं पुष्पबाणेक्षुकार्मुकम् ॥ ६१ ॥


१ 'रीम्' क पाठ. । २ 'मे मध्यमे' यजेत्' क पाठः ।

  • भृगु स ससर्गो विसर्गसहित । इति सर्व्वोन्मादिनीबीजोद्धारः ।

१७४ गन्धर्वतन्त्रे ।
अरुणायतलोलाक्षियुगलं मदघूर्णितम् ।
सर्वशृङ्गारवेषाढ्यं किरीटाङ्गदभूषितम् ॥ ६२ ॥
रक्तमालाम्बरधरं रक्तगन्धानुलेपिनम् ।
स्ववामोरुगतां शक्तिं श्लिष्यन्तीं दक्षपाणिना ॥ ६३ ॥
बामेन पाणिना पद्मं धारयन्तीं शुचिस्मिताम् ।
रुचिराङ्गदभूषाढ्यां शुद्धक्षोमविराजिताम् ॥ ६४ ॥
मदनोत्तप्तहृदयां क्लिन्नयोनिं परेश्वरीम् ।
कलाकलितम(ा)धु(रां?यां)तरुणीं यौवनान्विताम् ॥ ६५॥
सकार्मुकभुजेनैव श्लिष्यन्तं सुदृढं तथा ।
त[र्ज?ज्ज]नितपरानन्दनन्दितं परमेश्वरम् ॥ ६६ ॥
नागगन्धर्वदेवाना मङ्ग[ला?ना]भिः समावृतम् ।
मदनोल्लालिताङ्गाभिर्भूषिताभिर्विभूषणैः ॥ ६७ ॥
आत्म[१]भेदेन यो ध्यायेद् देवदेवं जगद्गुरुम् ।
त्रैलोक्यमोहनं विष्णुं त्रैलोक्यमोहनो भवेत् ॥ ६८ ॥
बीजमस्य प्रवक्ष्यामि लक्ष्मीनारायणात्मकम् ।
☸ब्रह्मा पुरन्दरः पश्चान्मायास्वरमतः परम् ॥ ६६ ॥
नादबिन्दुकलायुक्तं बीजं त्रैलोक्यपूजितम् ।
श्रुतिषु मथितसारं देवताकण्ट[हारकं?कारिं]
त्रिभुवनव[शंकरी?शकारं]श्रीधनाथर्थका[रकं?रम्]
शमनभयविनाशं सर्वशङ्काप्रणाशं
भवजलधिविशोषं मानसा[न्ध?न्ध्य]प्रकाशम् §
* ब्रह्मा क पुरन्दरो ल मायास्वर ई नादाद्युपेत तेन क्लीं इति । § इदं पद्य प्रक्षिप्तमिति प्रतिभाति ।

सप्तदशः पटलः । १७५
अनेन तं समभ्यर्च्य निग(र्व?र्भ)योगि(नीं?नीः)यजेत् ॥७०॥
नायिकां तत्र संपूज्य मुद्रां संदर्शयेत् तथा।
तं[स्माद्?स्यास्त्य]नामिकायुग्ममधः कृत्वाऽङ्कुशाकृति । ७१।
तर्जन्‍यावपि तेनैव क्रमेन विनियोजयेत् ।
इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ७२ ॥
*कामदेवोऽग्निमारूढो बिन्दुनादकलान्वितः ।
त्रयोदशस्वरोपेतो मुद्राबीजमितीरितम् ॥ ७३ ॥
[७]अष्टकोणे महेशानि रहस्ययोगिनीर्यजेत् ।
वशिनीप्रमुखाः सर्वाः पूर्ववद्बीजसंयुताः ॥ ७४ ॥
पादुकां पूजयामीति न्यासादेव विशेषतः ।
चक्रेश्वरीं यजेच्छक्तिं (भ?भु)क्तिसिद्धिं च वामतः ॥ ७५ ॥
त(दङ्के?द्वत्ते)खेचरीमुद्रां तां च संदर्शयेत् ततः ।
सव्यं दक्षिणदेशे तु दक्षिणं वामदेशतः ॥ ७६ ॥
बाहुं कृत्वा महेशानि हस्तौ संपरिवर्त्य च ।
कनिष्ठानामिके देवि यु(क्ता?क्त्वा)तेन क्रमेण तु ॥ ७७॥
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ।
अङ्गुष्ठौ च महेशानि कारयेत् सरलाविह ॥ ७८ ॥
इयं सा खेचरी मुद्रा नाम्ना सर्वोत्तमा प्रिये ।
रचितेयं महामुद्रा सर्वतेजोपहारिणी ॥ ७९ ॥
‡शिवं चन्द्रं तथा कान्तं पान्तं वह्निसमन्वितम् ।
१ 'अस्या' क पाठ । २ 'ज्ञानात्मिका' क पाठ । * रेफारूढ कामदेव-क ।
योदश स्वर, तेन क्रो इति । ‡ शिव ह चन्द्र स कान्त ख पान्त फ वह्नि रेफ, एकादश. स्वर ए
र्ध्वन् नादकलादियुत, तेन हसख्फ्रें इति खेचरीविद्या ।

१७६ गन्धर्वतन्त्रे ।
एकादशस्वरोपेतं बीजं तस्याः प्रकीर्तितम् ॥ ८० ॥
(८)मध्यत्रिकोणचक्रे च अग्रदक्षोत्तरे शिवे ।
ता एव पूजयेद्देवि विन्यासोक्तविधानतः ॥ ८१ ॥
पादुकां पूजयामीति विशेषोऽत्र प्रकाशितः ।
त्रिपुरा[पां?म्बां]तु चक्रेशीमिच्छासिद्धिं च वामतः ॥ ८२ ॥
परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये ।
तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः ॥ ८३ ॥
अधः कनिष्ठाष्वष्ठधे मध्यमे विनियोजयेत् ।
तथैव कुटिले योज्ये सर्वाधस्तादनामिके ॥ ८४ ॥
बीजमुद्रेयमाख्याता परा त्रैलोक्यमातृका ।
सदाशिवस्य बीजाढ्या† दर्शयित्वा विधानतः ॥ ८५ ॥
[६]सर्वानन्दमये चक्रे ब्रह्मविष्ण्वीशरूपिणीम् ।
पूजयित्वा विधानेन चक्रेशीमपि भैरवीम् ॥ ८६ ॥
ज्ञानेच्छादिक्रियारूपां मोक्षसिद्धिं च वामतः ।
सिंहं च पुरतो देव्या जगदाधारमर्चितम् ॥ ८७ ॥
पूजयेत् सततं भक्त्या पश्यन्तमम्बिकामुखम् ।
वाग्बीजं पूर्वमुद्धृत्य योनिमुद्रां प्रदर्शयेत् ॥ ८८ ॥
अनामिकायुगं देवि परिवर्तनयोगतः ।
अङ्कुशाकाररूपाभ्यां तर्जनीभ्यां तु धारयेत् ॥ ८९ ॥
मध्यमे कुरु तन्मध्ये कनिष्ठिके तथाविधे ।
दण्डाकारौ ततोऽङ्गुष्ठौ कनिष्ठोपरिसंस्थितौ ॥ ९० ॥


  • 'त्र' क. पाठ. । † ह्रौं इति सदाशिवबीजम् ।

सप्तदशः पटलः । १७७
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ।
अत्रपदं समाभाष्य सर्वानन्दमयात् ततः ॥ ६१ ॥
चक्रराजपदस्यान्ते ब्रह्मस्वरूपमालिखेत् ।
संवि(देत्य?न्मय)पदं ब्रूयाद्विन्दुचक्रे ततः परम् ॥ ६२ ॥
एषा परापरशब्दाद्रहस्ययोगिनी ततः ।
ब्रह्मस्वरूपिणी पश्चान्महात्रिपुरसुन्दरी ॥ ६३ ॥
समुद्रा सायुधा चैव सवाहना तथैव च ।
तथा सपरिवारान्ते सर्वोपचारकैस्तथा ॥ ६४ ॥
पूजितास्तु तथा देवी तर्पितास्त्वं१ति पूर्ववत् ।
पुष्पाञ्जलिभिरभ्यर्च्य तर्पयेद्विधिना ततः ॥ ६५॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे प्रकटाप्रकटादिदेवीपूजनक्रम-
निरूपणं सप्तदशः पटलः ॥ १७ ॥
—=-!!:-=*—
१ 'तमीति' ख पाठः ।

अष्टादशः पटलः ।
--=:****:=--
ईश्वर उवाच
प्रसादसुमुखीं देवीं भावयन् प्रजपेन्मनुम् ।
सर्वयज्ञेषु सर्वत्र जपयज्ञः प्रशस्यते ॥ १ ॥
जपात्तुष्यन्ति देवाश्च जपात् सिध्यन्ति साधकाः ।
तस्मात् सर्वप्रयत्नेन जपनिष्ठापरो भवेत् ॥ २ ॥
जपः स्यादक्षरावृत्तिरद्रुतं न विलम्बितम् ।
पूजा ध्यानं जपो होम इति धर्मचतुष्टयम् ॥ ३ ॥
प्रत्यहं साधकः कुर्यात् स्वयं चेत् सिद्धिरिच्छति ।
जपस्यान्ते शिवं ध्यायेद् ध्यानस्यान्ते पुनर्जपेत् ॥ ४ ॥
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् ।
जपरूपा शिवा शक्तिर्ध्यानरूपः सदाशिवः ॥ ५ ॥
तयोर्योगान्भवेत् सिद्धिर्नान्यथा खलु पार्वति ।
संयुक्तं संयुतं कृत्वा यदयुक्तं न योजयेत् ॥ ६ ॥
यथा सिद्धिस्तथा माला मालाङ्गं जपकर्मणि ।
मालया जपतो नित्यं सिद्धिरेव न संशयः ॥ ७ ॥
आशुसिद्धिकरी माला वर्णमयी समीरिता ।
अनुलोमविलोमार्गेर्मातृकायाः सबिन्दुकैः ॥ ८ ॥
(सु?स)मेरुकैः सदा कार्या माला सर्वसमृद्धि[जाः?दा] ।
अष्टाधि(के?का)ष्टवर्गैस्तु पुनरेव समापयेत् ॥ ६ ॥
१ 'क.' क पाठ । २ 'द्धि' क पाठः ।

वर्णेनान्तरितमन्त्रं कृत्वा ज(प्येत?पेत्तु)साधकः ।
मालाभावे ततः स्वासु अङ्गुलीषु जपेद्बुधः ॥ १० ॥
नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन ।
आरभ्यानामिकामध्यात् प्रादक्षि(णो?ण्ये)न वै क्रमात् ॥११।
तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु ।
तर्जन्यग्रे तथा मध्ये यो जपेत् (तन्त्र?मति)मान्नरः ॥ १२ ॥
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ।
अनामामध्यपर्वं तु मेरुं¹ कृत्वा न लङ्घयेत् ॥ १३ ॥
मेरुं प्रदक्षिणं कुर्वन्ननामामूलपर्वतः ।
अङ्गुलीपर्वभिर्मन्त्रं जपन् रेखां न संस्पृशेत् ॥ १४ ॥
अङ्गुलीर्नापयुञ्जीत किंचिदाकुञ्चिता(:) तले ।
अङ्गुलीनां वियोगे तु छिद्रेण (श्र?स्र)वते जपः ॥ १५ ॥
स्फटिकादिभिरप्यत्र माला जपसमृद्धिदा ।
निधाय पुरतो मालां सव्यहस्तगतां च वा ॥ १६ ॥
जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् ॥ १७ ॥
ऐं मां माले महामाले सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १८ ॥
चन्द्रचन्दनकस्तूरी-रोचनागुरुकुङ्कुमैः ।
पूजयित्वा ततो मालां गृह्णीयाद् दक्षपाणिना ॥ १६ ॥
बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ।


पादटिप्पणी:
¹ 'रु.' ख. पाठ ।

१८० गन्धर्वतन्त्रे ।
अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन तु ॥ २० ॥
यथा हस्तान्न च्यवते जपत: (श्र?स्र)क् तथाचरेत् ।
हस्ताच्च्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् ॥ २१॥
यत्नात् संगोपयेदेनां भ्रमयेन्न वि(धा?ध्रू)नयेत् ।
गुरुं प्रकाशयेन्नैव यन्त्रं मन्त्रं कदाचन ॥ २२ ॥
अक्षमालां च मुद्रां च गुरवेऽपि न दर्शयेत् ।
भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ॥ २३ ॥
हरन्ति प्रकटं यस्मात् तस्माद्गुप्तं जपेत् सदा ।
मालां स्वहृदयासन्नां दक्षिणस्य करस्य च ॥ २४ ॥
मध्यमाया मध्यभागे वर्जयित्वा तु तर्जनीम् ।
अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः ॥ २५ ॥
स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् ।
प्रत्येकं बीजमादाय कुर्याद्वामेन न स्पृशेत् ॥ २६ ॥
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् ।
तर्जन्या न स्पृशेन्मालां मुक्तितो गणनाक्रमः ॥ २७ ॥
अङ्गुष्ठपर्वमध्यस्थापरिवर्त्तं समाचरेत् ।
अङ्गुष्ठेन विना कर्म कृतं भवति निष्फलम् ॥ २७ ॥
अङ्गुष्ठं मोक्षदं देवि तर्जनी शत्रुनाशिनी ।
मध्यमा धनसिद्धौ स्याच्छान्तिकर्मण्यनामिका ॥ २६ ॥१
कनिष्ठाकर्षणे ज्ञेया जपकर्मणि सिद्धिदा ।
मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् ॥ ३० ॥
१ 'स्तच्यु ' ख पाठः ।