गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
१४२ गन्धर्वतन्त्रे ।
अनया*मूलमुच्चार्य मुद्रया च त्रिखण्डया ।
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ॥ २१ ॥
सर्वभूतहिते मातरेह्येहि परमेश्वरि ।
देवेशि भक्तिसुलभे परिवारसमन्विते ॥ २२ ॥
अस्यां (मूर्त्तौ) समागच्छ स्थितिं मत्कृपया कुरु ।
एहि देवि प्रभावात् ते शुभदे भयनाशिनि ॥ २३ ॥
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ।
कामेशि त्वमिहागच्छ सर्वैः परिकरैः सह ॥ २४ ॥
पूजाकर्मणि सांनिध्यमिह कल्पय कामिनि ।
कामेश्वरि समागच्छ कामेशाङ्कनिषेदुषि ॥ २५ ॥
अव्युच्छिन्नां मतिं शुद्धां वाचं कण्ठस्य देहि मे ।
एवं कृते महादेवि स्थितितस्त्याः प्रजायते ॥ २६ ॥
सम्यक् संपूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः ।
आवाहनी समाख्याता मुद्रा सर्वार्थसाधिका ॥ २७ ॥
अधोमुखीकृता सैव तदा वै स्थापनी भवेत् ।
मिलितं मुष्टियुगलं संनिधापनरूपिणी ॥ २८ ॥
अन्तरङ्गुष्ठमुष्ट्या तु संनिरोधनरूपिणी ।
एतस्या एव मुद्रायास्तर्जन्यौ (सवने? प्रसृते) यदा ॥ २९ ॥
अवगुण्ठनमुद्रेयं सर्वरक्षाकरी मता ।
अमृतीकरणं कुर्यात् साधको धेनुमुद्रया ॥ ३० ॥
परिवर्त्य करौ पश्चात् तर्जनीमध्यमे युगे ।
- ह्स्त्रैं हसकलरीं ह्स्त्रौ इति त्रिखण्डाविद्या ।
चतुर्दशः पटलः । १४३
कनिष्ठानमिकायुग्मं परस्परयुतं कुरु ॥ ३१ ॥
धेनुमुद्रेयमाख्याता अमृतीकरणे प्रिये ।
अङ्गमन्त्रान् न्यसेद् देवि देव्याङ्गे साधकोत्तमः ॥ ३२ ॥
सकलीकरणं नाम मुद्रेयं व्याप्तिरूपिणी ।
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुलिः ॥ ३३ ॥
महामुद्रेयमाख्याता परमीकरणे शिवे ।
ततोऽवगुण्ठयेद् देवीमवगुण्ठनमुद्रया ॥ ३४ ॥
आवाहनं भवेद् देवि दूरादाह्वानमेव च ।
संस्थापनं भवेद् देवि निश्चलत्वोपपादकम् ॥ ३५ ॥
नैकट्यावस्थितित्वं च संनिधानमितीरितम् ।
अनन्यचित्ततया(च्छा?त्त्वा)संनिरोधनमुच्यते ॥ ३६ ॥
संपूर्णावस्थितेर्या(च्छा?त्त्वा)सकलीकरणं प्रिये ।
अयोग्यदृष्ट्यविषयपा(दो?द)नमवगुण्ठनम् ॥ ३७ ॥
आनन्दपूर्णाव(स्थिति?स्थ)त्वममृतीकरणं शिवे ।
सर्वापराधजातानां सहिष्णुत्वप्रकाशकम् ॥ ३८ ॥
परमीकरणं नाम संप्रार्थनमिहोच्यते ।
संमुखमुद्रया देवीं संमुखं प्रार्थयेत् ततः ॥ ३६ ॥
मुष्टिद्वयस्थिताङ्गुष्ठौ संमुखौ च परस्परम् ।
संश्लिष्टावुच्छ्रितौ कुर्या[च्छ्रेयः?त्सेयं]संमुखमुद्रिका ॥४०॥
मूलविद्यां समुच्चार्य महात्रिपुरसुन्दरी ।
श्रीपादुकां ततः पश्चात् पूजयामीति भक्तितः ॥ ४१ ॥
१ 'यता पा' क पाठ ।
१४४ गन्धर्वतन्त्रे ।
देवीपादाम्बुजद्वन्द्वे पुष्पाञ्जलित्रयं दिशेत् ।
तथैव^१ तर्पयाम्यन्ते मुद्रया तर्पयेत् त्रिधा ॥ ४२ ॥
प्रार्थनमुद्रया पश्चादभ्यर्थयेदनेन तु ।
प्रसादसंमुखे देवि प्रसन्ना भव सुन्दरि ॥ ४३ ॥
पूजाभागं गृहाणेमं मामकं भक्तवत्सले ।
अहं यद्यपि देवेशि दुर्बलोऽप्यल्पसाधनः ॥ ४४ ॥
भक्त्या करोमि पूजां ते कृपयानुगृहाण माम् ।
प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ च संमुखौ ॥ ४५ ॥
कार्यौ च हृदये सेयं मुद्रा प्रार्थनसंज्ञिका ।
संदर्शयेत् स्वस्वबीजपूर्वं मु(द्रां त?द्रास्त)तो नव ॥ ४६ ॥
संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरीबीजयोन्याख्या नव मुद्रास्ततः क्रमात् ॥ ४७ ॥
एता मुद्रा महेशानि ब[न्ध?न्धू]ककुङ्कुमप्रभाः ।
खखमुद्रांकराः सर्वाः श्रीविद्यासंमुखी(:)स्मरेत् ॥ ४८॥
अथैवं परमेशान्या उपचारान् निवेदयेत् ।
भक्त्यैवैते कृता देवि साधकं देवसंनिधिम् ॥ ४६ ॥
चारयन्ति यतस्तस्मादुच्यन्ते चोपचारकाः ।
समीपे चारणाद्वापि[कला?बालि]कान्ते तथोदिताः ॥५०॥
नमोन्तमासनं दद्यात् स्वागतं दर्शनं भवेत् ।
नमोन्तं पाद्योः पाद्यमर्घ्य [शिवो?नमो]न्तमेव च ॥ ५१ ॥
स्वधेत्याचमनं [प्राज्ञि?प्रोक्तं] मधुपर्कस्तथैव च ।
१ 'द्रा' क पाठ ।
चतुर्दशः पटलः । १४५
तेनैव मनुनाचामं नमोन्तं स्नानमेव च ॥ ५२ ॥
नमोन्ते वाससी प्रोक्ते तथाङ्गाभरणानि च ।
नमोन्तमर्पयेत्(कुन्दं?गन्धं)पुष्पं चै¹ वौषडन्तकम् ॥ ५३ ॥
पुष्पं समर्पयेद् देव्यै मुद्रया ज्ञानसंज्ञया ।
अङ्गुष्ठतर्जनीयोगाज् ज्ञानमुद्रेयमीरिता ॥ ५४ ॥
नमोन्तं च तथा धूपं दीपं² मालां तथैव च ।
नैवेद्यं च ततो दद्याद्यथोक्तं वै चतुर्विधम् ॥ ५५ ॥
पानार्थं मधुरं वारि दद्यादाचमनं पुनः ।
कर्पूरसहितं देव्यै ताम्बूलं च निवेदयेत् ॥ ५६ ॥
तर्पणानि पुनर्दद्यात् त्रिपुरात्तत्वमुद्रया ।
अङ्गुष्ठानामिकायोगात्³ तत्त्वमुद्रेयमीरिता ॥ ५७ ॥
अङ्गुष्ठं शिवमित्याहुरनामा शक्तिरुच्यते ।
तर्पणं तु तयोर्गादमृतैर्वामपाणिना ॥ ५८ ॥
योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत् क्रमात् ।
स्तुत्वा प्रणम्य विधिवज्जपेद्विद्यामनन्यधीः ॥ ५९ ॥
जपान्ते जुहुयादग्निं होमान्ते बलिमुत्सृजेत् ।
बलिदानावसाने तु निवेद्यानि निवेदयेत् ॥ ६० ॥
दशाङ्गाद्यैस्ततो धूपैः पुनर्देवीं प्रधूपयेत् ।
दीपमालाः प्रदर्श्याथ पादाङ्गललाटकावधि ॥ ६१ ॥
वीरेश्वराय वौषट् चै सिन्दूरं दापयेदथ ।
अङ्गरागेषु सिन्दूरं पानेषु मदिरां तथा ॥ ६२ ॥
१ 'च नास्ति' क पाठ । २ 'पमा' क पाठ । ३ 'ग' क पाठ ।
४ 'पडिति' क पाठ ।
१४६ गन्धर्वतन्त्रे ।
वस्त्रेषु रक्तकौशेयं त्रिपुराप्रीतिदायकम् ।
नेत्राञ्जनं निवेद्याथ दर्शयेद् दर्पणं तथा ॥ ६३ ॥
मूर्ध्नि च्छत्रं निधायाथ वीजयेद्रक्तचामरैः ।
सितैर्वा परमेशानीं नतु कृष्णैः कदाचन ॥ ६४ ॥
वादयेच्छङ्खघण्टे च पुनःपुनः प्रधूपयेत् ।
ततः संतोषयेद् देवीं गीतवादित्रनिःस्वनैः ॥ ६५ ॥
वाद्यैर्नानाविधैर्देवि क्रीडाकौतुकमङ्गलैः ।
नटनर्तकसङ्घैश्च वेश्याभिरपि पार्वति ॥
आत्मना सर्वभावेन निवेद्य तन्मयो भवेत् ॥ ६६ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे बहिर्यागविधिनिरूपणं
चतुर्दशः पटलः ॥ १४ ॥
१ 'षेय' क. पाठः । २ 'यञ्छ्र' क. पाठः । ३ 'है' क. पाठः ।
पञ्चदशः पटलः।
──────── 0 ────────
श्रीदेव्युवाच
उपचारान् कथं देव फलं तेषां च कीदृशम् ।
यच्च प्रियतमं देव्यास्तत् सर्वं वद शंकर ॥ १ ॥
ईश्वर उवाच
उपचारान् प्रवक्ष्यामि शृणु षोडश पार्वति ।
यैः साक्षात्¹ तुष्यते देवी विधानैर्विहितैर्वि[दुःभुः] ॥ २ ॥
सौवर्णं राजतं वस्त्रं तथा रत्नविनिर्मितम् ।
आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा ॥ ३ ॥
न पत्रमासनं दद्यात् कदाचिदिह पूजने ।
यथोक्तविधिना देव्यै रक्तकम्बलमेव वा ॥ ४ ॥
सुमेरुपादपीठान्ते पद्मकल्पित आसने³ ।
भोगमोक्षप्रदे मातस्तिष्ठस्व परमेश्वरि ॥ ५ ॥
अनेनैवासनं देव्यै यो दद्याद्विहितं शिवे ।
भुक्तिमुक्ती करे तस्य सर्वत्र स्थानवान् भवेत् ॥ ६ ॥
पा(द्या?दा)⁵र्थमुदकं पाद्यं चन्दनागुरुसंयुतम् ।
सुशीतलं❄मया देवि सुखाय तव पादयोः ॥ ७ ॥
तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् ।
धर्मार्थकाममोक्षाणां संस्थानं पाद्यमिष्यते ॥ ८ ॥
१ 'स्यात्' ख पाठ । २ 'रिडिनै' क पाठ । ३ 'स्व' क पाठ । ४ 'तमासनम्'
ख पाठ । ५ 'द' क पाठ । ❄ निवेदितमितिशेष ।
१४८ गन्धर्वतन्त्रे ।
पाद्यमन्त्रो मया प्रोक्त(म?स्त्व)नेनैव निवेदयेत् ।
अर्घ्येण लभते कामानर्घ्येण लभते धनम् ॥ ६ ॥
पुत्रायुःसुखमोक्षा(शि?दि) ढानाढ(र्घ?र्घ्य)स्य वै लभेत् ।
पूर्वसंस्थापितेनैव शङ्खेन विधिना स्वयम् ॥ १० ॥
श्वेतसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः ।
रक्तचन्दनपु(ष्पे च ?ष्पैश्च) त्रिपुरायै महेश्वरि ॥ ११ ॥
निधाय पुरतो दद्यादर्घ्यमन्त्रेण साधकः ।
अर्घ्यमर्घ्यमिदं देवि मया भक्त्या निवेदितम् ॥ १२ ॥
सजलं शङ्खपात्रस्थं गृहीत्वा मूर्ध्नि योजय ।
उदकं दीयते य[स्तु?त्तु] सगन्धं फेनवज्र्जितम् ॥ १३ ॥
आचमना(द्यं?र्थं)देवाय तदाचमनमुच्यते ।
कर्पूरवासितैर्वापि कालागुरुप्रधूपितैः ॥ १४ ॥
यथा तथा सगन्धैर्वा प्रसत्रैः [क?फे]नवर्जितैः ।
दद्यादाचमनीयं तु सगन्धसलिलैः शुभैः ॥ १५ ॥
तैजसेन तु पात्रेण शङ्खेनाप्यथवा प्रिये ।
आयुर्बलयशोवृद्धिं प्रदायाचमनीयकम् ॥ १६ ॥
लभते साधको नित्यं[स?का]मांश्चैव यथेप्सितान् ।
सगन्धाचमनं देवि मया भक्त्या निवेदितम् ॥ १७ ॥
आयुर्बलयशोवृद्धयै तदिदं प्रतिगृह्यताम् ।
दधि सर्पिर्जलं क्षौद्रं सितामिश्रापि[पञ्चभिः?सेत्तुभिः] १८
प्रोच्यते मधुपर्कस्तु देवीप्रीतिप्रदायक ।
१ 'तम्' क पाठ । २ 'के तु' क पाठ
पञ्चदशः पटलः। १४६
जलं च नारिकेलोत्थं सिता दधि घृतं समम् ॥ १९ ॥
सर्वेषामधिकं क्षौद्रं मधुपर्के प्रयोजयेत् ।
तद्दद्यात् कांस्यपात्रेण रोप्यपात्रेण वा पुनः ॥ २० ॥
ज्योतिष्टोमाश्वमेधादौ यत् पुण्यं लभते नरः ।
सर्वं तत् परमेशानि मधुपर्के प्रतिष्ठितम् ॥ २१ ॥
आज्यं दधि मधुन्मिश्रं जलं चापि सशर्करम् ।
मधुपर्कं रोप्यपात्रे गृहीत्वा भुङ्क्ष्व सुन्दरि ॥ २२ ॥
मधुपर्कं विना पूजा साधकक्षयकारिणी ।
मधुपर्क्रमदृष्ट्वैव साधकं भक्षयेत् परा ॥ २३ ॥
कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमं तथा ।
नारिकेलजलं क्षौद्रं तथेक्षुरसमुत्तमम् ॥ २४ ॥
सितां च पञ्चगव्यं च सर्वौषधिगणं तथा ।
प्रान्ते तोयमिति प्रोक्तं स्नानीयं त्रिपुराप्रियम् ॥ २५ ॥
भृङ्गारेणाथवा शङ्खैस्त्रिपुरायै निवेदयेत् ।
साधकः स्नानदानात्तु हयमेधफलं लभेत् ॥ २६ ॥
दीर्घायुः कामभोगी च महापातकहा भवेत् ।
प्रत्येकं सर्ववस्तूनां सहस्रपलमानतः ॥ २७ ॥
महास्नानं भवेद्देवि मध्यं पलशतेन तु ।
कनिष्ठं वै भवेत् स्नानं प(लानां ? लैः) दशभिरीरितम् ॥ २८ ॥
मिश्रीकृतैस्तु सर्वेषां स्नानमानं न विद्यते ।
स्नपयेत् प्रथमं देवीं त्रिपादिति ऋचा पुनः ॥ २६ ॥
'रौप्य' क पाठ । २ तां' क पाठः । ३ 'स्ना' क पाठः ।
१५७ गन्धर्वतन्त्रे ।
मूलेनापि ततः पश्चादमुना च निवेदयेत् ।
त्वमापः पृथिवी चैव ज्योति(स्तं?स्त्वं)वायुरेव च ॥ ३०॥
केवलं भक्तिभावेन देवि त्वां स्नपयाम्यहम् ।
स्नपयित्वा महादेवीं वस्त्र यदि न दापयेत् ॥ ३१ ॥
स निर्लज्जः परः पापः प्रपते(द्?द्वृ)जिनार्णवे ।
वस्त्राभावे ततो दद्याद्रक्तपद्मं तथा ज(वाः?पाः) ॥ ३२॥
स्नपयित्वा महादेवीं वस्त्रयुग्मं प्रदापयेत् ।
वस्त्रेण ह्रियते लज्जा वस्त्रेण ह्रियते त्वघम् ॥ ३३ ॥
सर्वभूषणवर्गेषु वस्त्रमुत्तममुच्यते ।
देवीप्रीतिकरं वस्त्रं चतुर्वर्गप्रदं शुभम् ॥ ३४ ॥
निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् ।
परकीयं ह्या²(थु?खु)दष्टं सूचीविद्धं तथोषितम् ॥ ३५ ॥
सत्पताका(रि?वि¹)तानादौ सूचीविद्धं प्रयोजयेत् ।
केशान्वितमधौतं च श्लेष्ममूत्रादिदूषितम् ॥ ३६ ॥
वह्निदग्धं कुचैलं च महादेव्यै न दापयेत् ।
चित्रवस्त्रं दुकूलं च देवीप्रीतिकरं परम् ॥ ३७ ॥
सर्वसिद्धिप्रदं वस्त्रं वह्निष्टोमफलप्रदम् ।
विद्यातन्तुसमायुक्ते मन्त्रवर्णसमन्विते ॥ ३८ ॥
विद्याविद्ये ज(वा?पा)शोणवाससी तव सुन्दरि ।
उद्यदादित्यसंकाशं वासोयुग्मं सुनिर्मलम् ॥ ३६ ॥
नूतनं गात्रसुखदं परिधत्स्व सुरेश्वरि ।
१ 'वी' क पाठ । २ 'स्त्रा' क पाठ ।
पञ्चदशः पटलः । १५१
किरीतं च शिरोरत्नं कुण्डलं च ललाटिका ॥ ४० ॥
तालपत्रं च हारेश्च ग्रैवेयकमथोर्मिका ।
सूत्रावली केशपाशे ता(ड?ट)ङ्कवलया(न्ददौ?ङ्गदाः) ॥४१॥
पादाङ्गु(री?ली)यकं सूत्रं नूपुरं क्षुद्रघण्टिकाः ।
अलङ्काराः समाख्याता अलङ्कारेषु षोडश ॥ ४२ ॥
चतुर्वर्गप्रदं नित्यं भूषणं सर्वसौख्यदम् ।
तुष्टिपुष्टिकरं देव्यै यथाशक्त्या निवेदयेत् ॥ ४३ ॥
नवरत्नसमायुक्ता द्रुतहाटककल्पिताः ।
गात्राणि शोभयन्त्येते अलङ्कारास्तु सुन्दरि ॥ ४४ ॥
कामेशि कामरूपे त्वं सर्वकामफलप्रदे ।
भूषणं गृह्ण चार्वङ्गि मया भक्त्या निवेदितम् ॥ ४५ ॥
चूर्णीकृतो वा घृष्टो वा दाहार्कर्षित एव वा ।
रसः संमर्दजो वापि प्रागयङ्गोद्भव एव वा ॥ ४६ ॥
गन्धः पञ्चविधः प्रोक्तो देवीप्रीतिप्रदायकः ।
प्रशस्तगन्धयु[क्ता ? क्त्या] तु गन्धचूर्णानि यानि च ॥ ४७॥
तानि गन्धाह्वयानि स्युः स गन्धः प्रथमः स्मृतः ।
घृष्टो मलयजो गन्धः [स ? श]बलश्च नमेरुणा ॥ ४८ ॥
अगुरुप्र[भू ? भृ]तिश्चापि यस्य पङ्कः प्रदीयते ।
अगुरुर्देवदार्व्वादि यो दग्ध्वा गृह्यते रसः ॥ ४९ ॥
स दाहार्कर्षितो गन्धस्तृतीयः परिकीर्तितः ।
सगन्धगन्धिनीबिल्वतिलकं शतपत्रिकाम् ॥ ५० ॥
१ 'र'क पाठ । २ 'नित्य' क पाठ । ३ 'समर्दज ' क पाठ । ४ 'रुदै' क पाठः ।
१५२ गन्धर्वतन्त्रे ।
निष्पीड्य गृह्यते योऽसौ संमर्द्जः स उच्यते ।
मृगनाभिसमुद्भूतस्तत्कोशोद्भव एव वा ॥ ५१ ॥
गन्धः प्राणयङ्गजः प्रोक्तः पञ्चमस्तु स उच्यते ।
गन्धस्य विस्तरो भेदो दिङ्मात्रं समुदाहृतम् ॥ ५२ ॥
सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः ।
तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा ॥ ५३ ॥
कुङ्कुमागुरुकस्तूरीकर्पूरमलयोद्भवैः ।
समीकृतैस्तु यो गन्धस्त्रिपुराप्रीतिदायकः ॥ ५४ ॥
कुचन्दनं [शि? सि]तं चैव कालीयकसमन्वितम् ।
अनुलेपनमुख्यं तु देव्याः प्रीतिकरं परम् ॥ ५५ ॥
अलक्तं नखरागेषु देवीप्रीतिकरं तथा ।
गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा ॥ ५६ ॥
अ[श्वा? ङ्गा]नां साधको गन्धो मोक्षे चापि प्रतिष्ठितः ।
शरीरं ते न जानामि चेष्टां [चै? श्चै]व महेश्वरि ॥ ५७ ॥
मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् ।
गन्धैः सुतोषिता देवी चतुर्वर्गप्रदा भवेत् ॥ ५८ ॥
अनेनैव महेशानि गन्धान् देव्यै निवेदयेत् ।
घृततैलादियोगेन स्वर्णादौ दीपवह्निना ॥ ५६ ॥
यदञ्जनं प्रजायेत कृत्वा कर्पूरमिश्रितम् ।
धर्मार्थकाममोक्षाय त्रिपुरायै निवेदयेत् ॥ ६० ॥
विधवा ना(च्छ? ञ्ज)नं कुर्यान्महामायार्थमद्रिजे ।
१ ‘पोद्भव’ क पाठ ।
पञ्चदशः पटलः । १५३
न मृत्पात्रे गतं कुर्यात् साधको नेत्ररञ्जनम् ॥ ६१ ॥
न पूजाफलमाप्नोति मृत्पात्रे विहिताञ्(लैः?नैः) ।
परकीयांस्तथा घ्रातान् स्तेयं कृ(त्या?त्वा)भिमर्दितान् ॥ ६२॥
पुष्पं धूपं च गन्धं च नोपच[रान्? रेत्] तथापरान् ।
घ्रातान् निवेद्य देवेशि नरो नरकमाप्नुयात् ॥ ६३ ॥
नैव पर्युषितैः पुष्पैः पत्रैश्चापि महेश्वरीम् ।
पूजयेत् परमेशानि महात्रिपुरसुन्दरीम् ॥ ६४ ॥
सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं तथा ।
पद्मानि सितरक्तानि कुमुदान्युत्पलानि च ॥ ६५ ॥
एषां पर्युषिताशङ्का कार्या पञ्चदिनोर्ध्वतः ।
अन्येषां कुसुमानां च यावद्गन्धविपर्ययः ॥ ६६ ॥
बिल्वपत्रे महेशानि नास्ति पर्युषितात्मता ।
बकुलं केसरं वज्रं माल्यं कुन्दं च शाल्मलम् ॥ ६७ ॥
करवीरं चार्कपुष्पं बन्धूककमले तथा ।
मालती मल्लिका जाती यूथिका माधवी तथा ॥ ६८ ॥
तगरः कर्णिकारश्च द्रोणश्चोत्पलचम्पकौ ।
अशोकः कुमुदश्चैव शेफालिकाकदम्बकौ ॥ ६९ ॥
केतकी वनमाला च कुसुम्भर्किंशुकौ तथा ।
कह्लारबकुले चैव लवङ्गनागकेसरौ ॥ ७० ॥
सर्वेषु पुष्पजातेषु त्रिपुरायाः सदैव हि ।
एतान्येव प्रियाणि स्युर्न पत्रैरर्चयेच्छिवाम् ॥ ७१ ॥
पत्रेषु बिल्वपत्रं च तथा मदनपल्लवम् ।
१ 'र्ध्वत.' क पाठ । २ 'ला' ख पाठ ।
१५४ गन्धर्वतन्त्रे ।
दूर्वाङ्कुरं तथा प्रो(क्ता?क्तं) नान्यत् पत्रं प्रयोजयेत् ॥ ७२॥
मल्लिका मालती कुन्दो द्रोणश्चाथ सिताम्बुजम् ।
शुक्लपक्षे महादेवि त्रिपुरायै निवेदयेत् ॥ ७३ ॥
सर्वेषां पुष्पजातीनां रक्तपद्मं तथा ज(वा?पा) ।
देवीप्रीतिकरं प्राज्ञे सर्वकामफलप्रदम् ॥ ७४ ॥
रत्नपुष्पं च देवेशि तथा स्वर्णादिनिर्मितम् ।
रक्तपद्मेन वज्रेण तुलां नायाति कर्हिचित् ॥ ७५ ॥
एतेषां पुष्पजातानां येन केन विनिर्मिताम् ।
मालां कृत्वा महादेव्यै यत् फलं लभते नरः ॥ ७६ ॥
अपि वक्त्रसहस्रैस्तद्वक्तुं नालं ततः प्रभुः ।
पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः ॥ ७७ ॥
पुष्पाग्रेऽहं स्थितो नित्यं सर्वे देवाः स्थिता दले ।
चराचराश्च सकलाः सदा पुष्पवसाः स्मृताः ॥ ७८ ॥
परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति ।
भोगमोक्षप्रदं पुष्पं तुष्टिश्रीपुष्टिमोददम् ॥ ७६ ॥
पुष्पैर्देवी प्रसन्ना स्याद् धर्मकामार्थदायिनी ।
तस्मात् पुष्पैर्यजेद् देवीं नित्यं भक्तियुतो नरः ॥ ८० ॥
ब्रह्मविष्णुशिवादीनां पुष्पमेव सदा प्रियम् ।
तत्ते मातः प्रयच्छामि पवित्रं प्रतिगृह्यताम् ॥ ८१ ॥
उग्रगन्धमगन्धं च कृमिकेशादिदूषितम् ।
अशुद्धपात्रपाणिस्थं वासोभिः कुत्सितात्मभिः ॥ ८२ ॥
आनीतं नार्पयेद् देव्यै प्रमादादपि दोषकृत् ।
१ ‘स्तु’ ख पाठ ।
पञ्चदशः पटलः । १५५
स्ना(त्वा?ता)नीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ॥ ८३ ॥
स्वयं विका(शि?सि)तर्मुक्तेः स्वयं च पतितैर्भुवि ।
नार्चयेत् कलिकाभिश्च विना चम्पकपङ्कजैः ॥ ८४ ॥
पुष्पं वा यदिवा पत्रं फलं नेष्टमधोमुखम् ।
दुःखदं तत् समाख्यातं यथोत्पन्नतथार्पणम् ॥ ८५ ॥
चित्रपूजासु सर्वासु न विरुद्धं न दूषणम् ।
अधोमुखापर्णं नेष्टं पुष्पाञ्जलिविधिं विना ॥ ८६ ॥
किंचातिबहुनोक्तेन सामान्येनेदमुच्यते ।
उक्ता(न्मु?नु)कैस्तथा पुष्पैर्जलजैः स्थलजैरपि ॥ ८७ ॥
पत्रैः सर्वैर्यथालाभं भक्तिमान् सततं यजेत् ।
पुष्पाभावे यजेत् पत्रैः पत्रालाभे च तत्फलैः ॥ ८८ ॥
अक्षतैर्वा जलैर्वापि न पूजां व्यतिलङ्घयेत् ।
एतेषामप्यलाभे तु मानसीं भक्तिमाश्रयेत् ॥ ८९ ॥
दह्यमानस्य काष्ठादेर्निस्तापो यस्य जायते ।
नासादिरन्ध्रसुखदः सगन्धोऽतिमनोहरः ॥ ६० ॥
स धूप इति विज्ञेयो देवीप्रीतिप्रदायकः ।
पत्रं मुस्तं नखं कुष्ठं जटा मांसी च शैलजम् ॥ ६१ ॥
सरलं देवकाष्ठं च जतु सर्जसचन्दनम् ।
कपिलाघृत-कर्पूर-शर्करागरुमिश्रितम् ॥ ६२ ॥
षोडशाङ्गो महाधूपः षोडशीप्रीतिदायकः ।
न भूमौ वितरेद् धूपं नासने कलशे नतु ॥ ६३ ॥
यथा तथाधारगतं कृत्वा तं तु निवेदयेत् ।
१ 'पुत्र' क पाठ ।
१५६ गन्धर्वतन्त्रे ।
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ॥ ६४ ॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
अथ दीपं प्रवक्ष्यामि ज्योतिष्टोमफलप्रदम् ॥ ६५ ॥
घृतदीपस्तु प्रथमस्तिलतैलोद्भवस्ततः ।
सार्षपश्चाधमः प्रोक्तस्तदन्यो निन्दितः स्मृतः ॥ ६६ ॥
पद्मसूत्रभवा चाद्या कार्पाससंभवा परा ।
दर्भगर्भभवा चापि वर्तिका परिकीर्तिता ॥ ६७ ॥
को[ष?श]जं रोमजं वस्त्रं तूलं पर्युषितं तथा ।
वर्तिकार्थं न चादद्यात् साधको भूतिमिच्छुकः ॥ ६८ ॥
तैजसं पार्थिवं लौहं दीपपात्रं प्रशस्यते ।
दीपवृक्षाश्च कर्तव्यास्तैजसाद्याः पृथक् पृथक् ॥ ६६ ॥
वृक्षे दीपः प्रदातव्यो नतु भूमौ कदाचन ।
कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ १०० ॥
तामिस्रं नरकं घोरमाप्नोत्येव न संशयः ।
नेत्राह्लादकरः स्वर्च्चिर्दूरतापविवर्जितः ॥ १०१ ॥
सशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः ।
दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते ॥ १०२ ॥
दक्षिणावर्तवर्त्या वै चारुदीप्तः प्रदीपकः ।
उत्तमः प्रोच्यते सोऽत्र त्रिपुराप्रीतिदायकः ॥ १०३ ॥
वृक्षेण वर्जिनो दीपो मध्यमः परिकीर्तितः ।
विहीनः पात्रतैलाभ्याम[ध्य?ध]मः परिकीर्तितः ॥ १०४ ॥
दीपमाला प्रकर्तव्या नैकदीपः कदाचन ।
- १ क पाठ । २ 'मलिन' क पाठ.।
पञ्चदशः पटलः । १५७
त्रयो दीपाः प्रदातव्याः पञ्च वा परमेश्वरि ॥ १०५ ॥
इतो न्यूनं न दातव्यं त्रिपुरायै कदाचन ।
नैव दीपः प्रदातव्यो विधूतः श्रीविवृद्धये ॥ १०६ ॥
न मिश्रीकृत्य दद्यात् तु दीपस्नेहान् घृतादिकान् ।
कृत्वा मिश्रीकृतस्नेहं रौरवं नरकं व्रजेत् ॥ १०७ ॥
नैव निर्वापयेद् दीपं देवार्थमपि कल्पितम् ।
दीपहर्ता भवे[द्व?द]न्धः का[नो?णो]निर्वापको भवेत् ।१०८।
न तेन व्यवहारोऽपि कर्तव्यः साधकोत्तमैः ।
सूर्याचन्द्रमसोर्ज्योतिर्विद्यु[द?तोऽ]ग्रेस्तथैव च ॥ १०६ ॥
त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
दीपं दक्षिणतो देव्याः पुरतो नतु वामतः ॥ ११० ॥
वामतस्तु तथा धूपमग्रे वा नतु दक्षिणे ।
निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम् ॥ १११ ॥
नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः ।
गात्रे दातुं च यद्योग्यं यन्त्रेष्वेव निवेदयेत् ॥ ११२ ॥
दद्याद्यथोग्यं पुरतो नैवेद्यं भोजनादिकम् ।
मदिरां पृष्ठतो दद्यादन्यपानं तु वामतः ॥ ११३ ॥
या विद्या चेह देवेशि श्रीविद्यायामनासवा ।
फलहीना समाख्याता साभिचाराय कल्पते ॥ ११४ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजोपचारतत्फलवर्णनं
पञ्चदशः पटलः संपूर्णः ॥ १५ ॥
१_ 'बी' क पाठ ।
षोडशः पटलः
ईश्वर उवाच
इक्षुरसं समादाय पर्युषितं सुसंस्कृतम् ।
सहकाररसं तत्र निक्षिपेन्मधुना सह ॥ १ ॥
बादरं जाम्भवं चैव रसं खार्जूरमेव च ।
नारिकेलोद्भवं तत्र द्राक्षारसमनुत्तमम् ॥ २ ॥
मोहिनीफलजं चूर्णं जातीकोषरजस्तथा ।
कनकबीजचूर्णं च जातीफलसमुद्भवम् ॥ ३ ॥
त्रिजातं त्रिसुगन्धि च त्रिकटुं त्रिफलान्वितम् ।
तथान्येषां च द्रव्याणां सुगन्धीनां रजः शिवे ॥ ४ ॥
किंचित् किंचिच्च निक्षिप्य कर्पूरैरधिवासयेत् ।
स्वर्णे वा राजते पात्रे का(ट?च)पुटेऽथवा प्रिये ॥ ५ ॥
स्थापयित्वा सितां तत्र निक्षिपेत् परमेश्वरि ।
निक्षिप्य लोहितैर्देवि वस्त्रैराच्छाद्य यत्नतः ॥ ६ ॥
सप्तरात्रोषितं तत्तु जायते ह्यमृतोपमम् ।
चन्दनागुरुकर्पूरैर्धूपयित्वा निवेदयेत् ॥ ७ ॥
एषा सर्वोत्तमा प्रोक्ता देवीप्रियतमा सदा ।
मदिरेति समाख्याता परमानन्ददायिनी ॥ ८ ॥
एनां निवेद्य सुन्दर्यै सर्वसिद्धिमुपालभेत् ।
देवीलोके चिरं स्थित्वा ततो राजा क्षितौ भवेत् ॥ ६ ॥
१ 'श्रा' ख पाठः।
षोडशः पटलः । १५६
तत्रापि चानयाराध्यं कैवल्यं मुक्तिमाप्नुयात् ।
सविकल्पस्य देवेशि विहितैषा न चान्यथा ॥ १० ॥
निर्विकल्पस्य देवेशि सुरै(र?व)विहितागमे ।
अमृतं च तदेव स्यान्म(दां?द्यं)चापि तदेव हि ॥ ११ ॥
नापद्यपि द्विजो मद्यं दद्याद् देव्यै कदाचन ।
मोहाद्यदि ददेन्मद्यं ब्राह्मण्यदेव हीयते ॥ १२ ॥
ब्रह्मघाती स एव स्यात्तस्मान्मद्यं विवर्जयेत् ।
मद्यमेव पुरासेव्यमासीत् कमललोचने ॥ १३ ॥
पीत्वा मद्यं पुरा शुक्र आत्मानं चापि(विस्मृतः?व्यस्मरत्) ।
पीत्वा मत्तो निशानाथः पत्नीं तां जगृहे गुरोः ॥ १४ ॥
अतस्तेनापि मुनिना शापो दत्तः सुदारुणः ।
ब्रह्मा च मुनिभिः सार्धमिदमेव पुरा जगौ ॥ १५ ॥
महादेव्यै द्विजो मद्यं यो दद्याज्ज्ञानविह्वलः ।
पशुभावे स्थितो यश्च स महापातकी भवेत् ॥ १६ ॥
शेषयोर्विहितं मद्यं निर्विकल्पकयोः पुनः ।
नाद्यस्य विहितं तेन ब्रह्मघाती भवेच्च सः ॥ १७ ॥
तेनेदं पृथिवीक्षेत्रे वर्ज्यमासीत् सुलोचने ।
ज्ञानिनां सिद्धिदा चेयममृतत्वप्रदायिनी ॥ १८ ॥
ज्ञानेन संस्कृता चेयं महापातकनाशिनी ।
ब्रह्महत्या-सुरापान-स्वर्णस्तेयादिपातकान् ॥ १९ ॥
नाशयेत् पूजना(च्छेरि?द्देवि)निर्विकल्पो भवेद्यदि ।
१ 'क्या' क पाठ ।
३. पटल २१-३०: कुण्डलिनी-जागरण, षट्चक्र-भेदन एवं होम-विधान
१६० गन्धर्वतन्त्रे ।
निर्विकल्पो यदा मद्यं महादेव्यै निवेदयेत् ॥ २० ॥
अश्वमेधसहस्रस्य अंग्निष्टोमशतस्य च ।
राजसूयशतस्यापि फलमाप्नोत्यसंशयम् ॥ २१ ॥
अणिमाद्यष्टसिद्धीनां नायको जायतेऽचिरात् ।
सविकल्पो यदा देवि पापभाङ् नात्र संशयः ॥ २२ ॥
सुरे चानघधामासि स्वा(धा?हा)त्वं च दिवौकसाम् ।
स्वधा त्वं पितृमुख्यानां मनुष्याणां च सिद्धिदा ॥ २३ ॥
क्षीरा(ब्धि)मथने पूर्वमुद्धृता देवसंसदि ।
आनन्दभैरवी सार्धमानन्दभैरवेण तु ॥ २४ ॥
त्वयि प्र[सन्न? सादं]यातायां सिद्धिरेव न संशयः ।
विमुखी चेत्तदा तस्य कुलज्ञानविनाशिनी ॥ २५ ॥
प्रसन्ना खलु देवानां गन्धर्वाणां तथैव च ।
विमुखी त्वं च दैत्यानामसकृत् सर्वनाशिनी ॥ २६ ॥
त्वां(म?द्)द्यां व[द?र]दे देव्यै मयि चित्स्फुरणं कुरु ।
एवं स्तुत्वा सुरां देव्यै पूर्वोक्तेन च संस्कृताम् ॥ २७ ॥
त्रिपुरायै निवेद्यैव निग्रहानुग्रहक्षमः ।
चर्व्यं चोष्यं तथा लेह्यं पेयं चेति चतुर्विधम् ॥ २८ ॥
सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम् ।
ज्ञानदं कामदं पुण्यं बलारोग्यमयं तथा ॥ २९ ॥
नैवेद्येन लभेत् स्वर्गं नैवेद्येनामृतं भवेत् ।
धर्मार्थकाममोक्षाश्चँ नैवेद्येषु प्रतिष्ठिताँः ॥ ३० ॥
१ 'वह्निष्टो' क. पाठ । २ 'खने' क पाठ. । ३ 'रादूढ्यै' क पाठ । ४ 'तश्च' क पाठ' । ५ 'त 'क पाठ ।
षोडशः पटलः । १६१
तस्मात् सर्वप्रयत्नेन नैवेद्यं खलु दापयेत् । .
मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ ३१ ॥
यो नरो भक्तिसंयुक्तो दीर्घायुः स सुखी भवेत् ।
हविः सुसंस्कृतं दिव्यमाज्ययुक्तं सशर्करम् ॥ ३२ ॥
शुद्धस्फटिकसंकाशं चन्द्रबिम्बसमप्रभम् ।
लसत्त(न्तु?ण्डु)लजं देवि चारुगन्धसहं मृदु ॥ ३३ ॥
सुगन्धिशा(द्वि?लि)जं चा(त्वं?रु) मधुमांससमन्वितम् ।
अपूपपायसं क्षीरमन्नं देव्याः प्रशस्यते ॥ ३४ ॥
बलिदानेषु विहिता य एव मृगपक्षिणः ।
तेषां मांसानि मत्स्यानि देयानि विविधानि च ॥ ३५ ॥
सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् ।
यथा यथा भवेद्धद्यं यत्ने(द्रव्यं?देयं)तथा तथा ॥ ३६ ॥
संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् ।
यत्पूतिगन्धसंयुक्तं दग्धं भोगबहिष्कृतम् ॥ ३७ ॥
तदुक्तमपि(यो?न)दद्यात् त्रिपुरायै कदाचन ।
कालशाकं कलायं च पालकं चापि पोतिकाम् ॥ ३८ ॥
सार्षपं मूलकं चापि वास्तूकं च कलम्बिकाम् ।
शाकानेतान् महादेव्यै यो दद्याद्भक्तिसंयुतः ॥ ३६ ॥
सोऽतुलां श्रियमाप्नोति देवीलोके महीयते ।
माषमु(ग्द?द्र)मसूराद्यैर्व्यञ्जनं लवणान्वितम् ॥ ४० ॥
हिङ्गुजीरमरीचाद्यैरार्द्रकैश्चापि संस्कृतम् ।
१ 'यत्नात्' क पाठः । २ 'दुग्ध' क पाठः ।