सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

६४ गन्धर्वतन्त्रे ।
तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥६७॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी ।
शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ॥ ६८ ॥
इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी ।
पिङ्गलाख्या च या दक्षे पुंरूपा सूर्यविग्रहा ॥ ६९ ॥
दाडिमीकुसुमप्रख्या विषारूपा चापरा मता ।
मेरुमध्यस्थिता या तु मूलादाब्रह्मरन्ध्रगा ॥ १०० ॥
सर्वतेजोमयी सा तु सुषुम्ना बह्निरूपिणी ।
तस्या मध्ये विचित्राख्या अमृतस्त्राविणी शुभा ॥ १०१ ॥
सर्वदेवमयी सा तु योगिनां हृदयङ्गमा ।
विसर्गाद्विन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥ १०२ ॥
मूलाधारे त्रिपुराख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ॥ १०३ ॥
तदूर्ध्वे तत्तुरोयं तु ध्यायेद्वन्धूकसंनिभम् ।
तदूर्ध्वे तच्छिखाकारा कुण्डली रक्तविग्रहा ॥ १०४ ॥
सा एव हि परा सूक्ष्मा महात्रिपुरसुन्दरी ।
चैतन्यं सर्वभूतानां शब्दब्रह्म यदुच्यते ॥ १०५ ॥
तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् ।
सर्वतेजोमयं तत्तु सच्चिदानन्दमव्ययम् ॥ १०६ ॥
तद्बाह्ये हेमवर्णाभं [र?व]सवर्णा ॐ चतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ १०७ ॥
१ 'म्णा' क. पाठ. । २ 'र्दे' क पाठ. ३ 'द्धैं' क पाठ. ।

  • बादिसान्तवर्णोपेतमित्यर्थः ।

षष्ठः पटलः । ०६५
तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।
बादिलान्तषडर्णेन युक्तं स्वाधिष्ठानसंज्ञकम् ॥ १०८ ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ १०६ ॥
तदूर्ध्वे नाभिदेशे तु मणिपूरं महत् पुरम् ।
हेमाभं वैद्युताभं च बहुतेजोमयं तथा ॥ ११० ॥
मणिवद्भिन्ं तत्पूरं मणिपूरं ततो विदुः ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ १११ ॥
विष्णुनाधिष्ठितं पद्मं विश्वालोकनकारणम् ।
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसंनिभम् ॥ ११२ ॥
कादिठान्ताक्षरैरर्कपत्रैश्च समलंकृतम् ।
तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ११३ ॥
शब्दब्रह्ममयः शब्दोऽनाहतस्तत्र दृश्यते ।
अनाहताख्यं तत्पद्मं योगिभिः परिकीर्त्यते ॥ ११४ ॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वे तु विशुद्धाख्यं दलैः षोडशभिर्युतम् ॥ ११५ ॥
स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् ।
विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ११६ ॥
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।
आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ॥ ११७ ॥
१ ' नून ' ख पाठ । २ ' क्त ' क पाठ । ३ ' तत्पुर मणिवद्भिज्ञ ' ख पाठः ।
४ ' न्तदलै ' क पाठ । ५ ' ब्दो ' क पाठः ।

६६ • गन्धर्वतन्त्रे ।
हक्षादिद्विदलं पद्मं चन्द्रेणाधिष्ठितं तु तत् ।
आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्तितम् ॥ ११८ ॥
कैलासाख्यं तदूर्ध्वे तु बोधिनी तु तदूर्ध्वतः ।
सहस्राराम्बुजं देवि बिन्दुस्थानं तदूर्ध्वतः ॥ ११९ ॥
आदौ पूरकयोगेन स्वाधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबोधयेत् ॥ १२० ॥
लिङ्गभेदक्रमेणैव बिन्दुस्थानं समानयेत् ।
शंभुना तां परां शक्तिमेकी(भाव?भूतां)विचिन्तयेत् ॥१२१॥
तदुद्भवमृतं वक्त्रद्रुतं लाक्षारसोपमम् ।
पाययित्वा च तां शक्तिं परोक्षां योगसिद्धिदाम् ॥१२२॥
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः ॥ १२३ ॥
यातायातकमेणैव तत्र कुर्यान्मनोलयम् ।
एवमभ्यस्यमानं तु अहन्यहनि पार्वति ॥ १२४ ॥
जरामरणादुःखायैर्मुच्यते भवबन्धनैः ।
इत्युक्तं परमं योगं योनिमुद्राप्रबन्धनम् ॥ १२५ ॥
अथापरं प्रवक्ष्यामि समाधिं भवनाशनम् ।
अथवा परमेशानि यथोक्तध्यानयोगतः ॥ १२६ ॥
हृत्पद्मकर्णीकामध्ये ध्यायेद्देवीमनन्यधीः ।
त्रिपुरात्मकमात्मानं भावयेन्न्यस्तविग्रहः ॥ १२७ ॥
ऐक्यं संभावयेन्नित्यं स्वगुरुदेवतात्मनाम् ।
१ 'दे' क पाठ । २ 'लि' ख पाठ' ।

षष्ठः पटलः । -६७
अहं देवो नचान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥१२८॥
सच्चिदानन्दरूपोऽहं शुद्धबुद्धेस्वभाववान् ।
प्रणवं पूर्वमुद्धृत्य तदिति परतस्ततः ॥ १२६ ॥
सदिति तु समालोच्यं कर्म कुर्याद्विचक्षणः ।
स्मरणात् कर्मणामाद्ये ब्रह्मभूयाय कल्पते ॥ १३० ॥
सर्वमङ्गलसंपन्नो बहिर्निर्गत्य साधकः ।
त्य(क्र?क्त्वा)मूत्रपुरीषे च करपादौ विशोधयेत् ॥ १३१ ॥
मुखं प्रक्षाल्य देवेशि नासारन्ध्रद्वयं ततः ।
नेत्राञ्जनं विधायैव शुद्धस्थानं समाश्रयेत् ॥ १३२ ॥
नेत्राञ्जनमकृत्वैव यः पश्येत् सौरमण्डलम् ।
जन्माजितफलं नश्येत् का कथा तस्य दुर्मतेः ॥१३३॥
त्रितत्त्वेन त्रि(धा?रा)चम्य दन्तधावनमाचरेत् ।
दन्तकाष्ठम(था?खा)दित्वा पूजयेद्यस्तु देवताम् ॥ १३४ ॥
तत्पूजा विफला देवि मृते च नरकं व्रजेत् ।
क्लीमात्मकं कामदेवं सर्वान्ते जनमाँलिखेत् ॥ १३५ ॥
प्रियाय हृदयान्तोऽयं मनुर्दन्तौँविशुद्धये ।
चतुर्दशस्वरैर्वक्त्रं क्षालयेच्छुँद्धिहेतवे ॥ १३६ ॥
इति गन्धर्वतन्त्रे श्रीपार्वतीश्वरसंवादे कर्मयोगादिक्रमनिरूपणं
नाम षष्ठः पटलः ॥ ६ ॥
१ 'द्वि' क पाठ । २ 'भाष्य' ख पाठ । ३ 'वंञ्जनमथा' ख. पाठ । ४ 'देंह' ख. पाठ । ५ 'स्सि' ख पाठ ।

सप्तमः पटलः ।
शंकर उवाच
प्रातः स्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् ।
सुगन्धिसलिलैः शुद्धैः कुलतीर्थेऽथवा पुनः ॥ १ ॥
नद्यादौ विधिवत् स्नायात् कुलदर्भविधा(य?र)कः ।
रौप्यं दक्षिणतर्जन्यामनामा हेमसंयुता ॥ २ ॥
वामकनिष्ठिका हेमैः कुलदर्भोऽयमीरितः ।
एष एव भवेद्दर्भो न दर्भो वनसंभवः ॥ ३ ॥
अशून्यं तु करं कुर्याद्रहीन्द्वर्कप्रतिष्ठया ।
सर्वभूतवशी स स्यान्मुद्रया चातिशोभया ॥ ४ ॥
त्रितत्त्वेन त्रि(धा?रा)चम्य संकल्प्य पापनुत्तये ।
कुलपात्रे सरत्नं च सतिलं सजलं ततः ॥ ५ ॥
गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् ।
अस्नातस्य फलं नास्ति तथातर्पयतः पितॄन् ॥ ६ ॥
इदं विष्णुर्भैरवं तु विचक्रम इतीरितम् ।
मृदालम्भनकृत्ये च नित्यमेवमुदीरयेत् ॥ ७ ॥
कुलचक्रं जले न्यस्य कुलमुद्रां विधाय च ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ ८ ॥
आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि ।
आवाह्याम्भसि संयोज्य सोमसूर्याग्निमण्डलम् ॥ ६
१ ' रम ' ख पाठ ।

सप्तमः पटलः । ६६
संचिन्त्य मन्त्री तन्मध्ये ध्यायेत् त्रिपुरसुन्दरीम् ।
गायत्र्या वै महादेव्याः सुन्दरीमाह्वयेच्छिवाम् ॥ १० ॥
त्रिवारम(जनौ?ज्जने)वारि मूलमन्त्रेण मन्त्रयेत् ।
अभिषिञ्चेत् ततो मूर्ध्नि² मूलमन्त्रं हृदि स्मरन् ॥ ११ ॥
त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् ।
तस्मादुत्थाय देवेशि निर्मुक्ताशेषविग्रहः ॥ १२ ॥
त्र्यक्षरीं च समुच्चार्य दुकूले परिधापयेत् ।
सकेशं मूषिकाक्रान्तमधौतं भग्नमम्बरम् ॥ १३ ॥
मलिनं परकीयं च पर्युषितं च वर्जयेत् ।
तिलकं कुलरूपं च कृत्वाचम्य विधानतः ॥ १४ ॥
ततः संध्यामुपासीत पापहानाय साधकैः³ ।
स्नानं च त्रिविधं प्रोक्तं संध्या च त्रिविधा स्मृता ॥१५॥
आन्तरं च भवेद्देवि बाह्यं मानसमेव च ।
मानसं वै भवेत् स्नानं यः सदा शुद्धमानसः ॥ १६ ॥
स्पर्शते पादुके देवि⁴ निर्विकल्पः सदैव हि ।
बाह्यं मन्त्रैश्च⁵ संप्रोक्तमान्तरं शृणु सांप्रतम् ॥ १७ ॥
प्रागुक्तक्रमयोगेन प्राणायामपरो बुधः ।
शक्तिं पराशिवेनैव संगमय्य विधानतः ॥ १८ ॥
तदुद्भवामृते शश्वन्निमज्य पुनरेव हि ।
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ॥ १६ ॥
१ ‘ङ्ख्याश्च’ क पाठ । २ ‘र्द्धि’ क पाठ । ३ ‘हा येन साधना’ क.
पाठः । ४ ‘स्पर्शलेपादिकेवापि ख पाठ ५ ‘ह्ममन्त्रैव’ ख पाठ । ६ ‘मार्थ’
क पाठ. ।

७० गन्धर्वतन्त्रे ।
बिन्दुतीर्थेऽथवा स्नात्वा पुनर्जन्म न विद्यते ।
आत्मानं सर्वदा सम्यग् ध्यायेद्ध्यानपरायणः ॥ २० ॥
देवताभेदतः संध्या मानसीयं परा प्रिये ।
शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते ॥ २१ ॥
सा संध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते ।
अपरां कथयाम्यत्र सर्वपापविनाशिनीम् ॥ २२ ॥
उपविश्य शुचौ देशे त्रितत्त्वेन त्रिराचमेत् ।
प्राणायामत्रयं कृत्वा त्रिभिर्बीजैस्त्रिधावि(ध?धि)म् ॥ २३ ॥
वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः ।
सप्तधा प्रोक्षणं कुर्यान्मूर्ध्नि³ मन्त्रमनुस्मरन् ॥ २४ ॥
अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः ।
नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् ॥ २५ ॥
इडयाकृष्य देहान्तः क्षालितैः पापसंचयैः ।
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचितम् ॥ २६ ॥
दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य वै ।
पुरतो वज्रपाषाणे प्र⁵क्षिप्तेदस्त्रमन्त्रतः ॥ २७ ॥
इत्यघमर्षणं कृत्वा पुनराचमनं तथा ।
अभिषिञ्चेत् ततो मूर्ध्नि विधिना साधकोत्तमः ॥ २८ ॥
ओं आपो देवी रसोऽमृतं पूतं ब्रह्म पुनीमहे ।
जलाञ्जलित्रयं भूमौ मार्तण्डभैरवाय च ॥ २६ ॥
ऊर्ध्वबाहुस्ततो मन्त्री मार्तण्डं समुपाश्रयेत् ।
१ ‘धा’ क पाठ. । २ ‘धा’ ख पाठ । ३ दृष्ट्वि’ क पाठ । ४ ‘वाम’
क पाठ । ५ ‘स्तयेत’ ख पाठ । ६ ‘नि’ ख पाठ ।

सप्तमः पटलः । ७१
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः ॥ ३० ॥
दृशे विश्वाय मार्तण्डशेषे भैरवमीरयेत् ।
सूर्यमण्डलमध्ये तु कुलचक्रं विचिन्तयेत् ॥ ३१ ॥
बाल्योचितं स्पृहन्तीं वै बालिकां चक्रमध्यतः ।
बालार्कमण्डलाभासां भानुवह्नीन्दुलोचनाम् ॥ ३२ ॥
पाशाङ्कुशौ शरांश्चापं धारयन्तीं शिवां स्मरेत् ।
मध्याह्ने चिन्तयेद् देवीं नवयौवनशोभिताम् ॥ ३३ ॥
सायाह्ने चिन्तयेद् देवीं त्रैलोक्यैकप्रभामयीम् ।
सर्वयौवनसंपन्नामुज्ज्वलां परमां कलाम् ॥ ३४ ॥
तामेव चिन्तयेद्रात्रौ भोगी भोगपरायणाम् ।
अष्टोत्तरशतावृत्त्या गायत्रीं च जपेत् सुधीः ॥ ३५ ॥
रविमण्डलगां देवीं प्रणिपत्य समापयेत् ।
एवं संध्यां समाप्याथ हृदि विद्यां परामृ(षे?शे)त् ॥३६॥
अथवा परमेशानि सदैनां परिचिन्तयेत् ।
देव्युवाच
इदानीं श्रोतुमिच्छामि कथमत्राधिकारिता ॥ ३७ ॥
वेदव्रतविहीनानां व्रात्यादीनां कृतागसाम् ।
तथैवानुपनीतानां स्त्रीशूद्राणां भवेच्छिव ॥ ३८ ॥
कथमेते महादेव मुक्तिं गच्छन्त्यनुत्तमाम् ।
न विना ब्राह्मणं मुच्येद्देहब(न्ध्या?न्धा)दिति श्रुतिः ॥३६॥
ईश्वर उवाच
१ 'सूर्य मार्तण्डशेषे देवेशि भैरवं पदमीरयेत' ख पाठः । २ 'का' ख. पाठः ।

७२ गन्धर्वतन्त्रे ।
देवदारुवने पूर्वं ब्राह्मणानतिदुर्धियः ।
विलोक्य भगवान् विष्णुर्मामभ्येत्याभिवाद्य च ॥ ४० ॥
उपविष्टस्तदा देवः कारुण्यद्रुतचेतसा ।
पृष्टवान् मां महादेवि तेषां मुक्तेर्हि कारणम् ॥ ४१ ॥
भगवानुवाच
इमे दुर्मतयः सर्वे वेदाचारबहिष्कृताः ।
अन्यायमैथुने (श?स)क्ताः सुरापानपरायणाः ॥ ४२ ॥
आत्मज्ञानविहीनानां योगाभ्यासावहेलिनाम् ।
कथमेषां भवेन्मुक्तिस्तदुपायं वद प्रभो ॥ ४३ ॥
शूद्रादीनां कथं देव दीक्षायामधिकारिता ।
ईश्वर उवाच
अपि कृत्वा दुराचारान् पतितो वेदवर्जितः ॥ ४४ ॥
नारी शूद्रोऽथवा बालो यां ज्ञात्वा ब्राह्मणो भवेत् ।
यया विज्ञायते ब्रह्म सच्चिदानन्दमव्ययम् ॥ ४५ ॥
तामेव कथयाम्यद्य तवैव हृदि संस्थिताम् ।
चतुर्विंशतितत्त्वेन निर्मितां तत्स्वरूपिणीम् ॥ ४६ ॥
त्रिकारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् । १
शतपत्रासनारूढं ध्यायेत् पद्मासनस्थितम् ॥ ५७ ॥
पुकारं चिन्तयेद्देवमतसीपुष्पसंनिभम् ।
पद्ममध्यस्थितं सौम्यमुपपातकनाशनम् ॥ ४८ ॥
रकारं कपिलं नित्यं कमलासनसंस्थितम् ।
ध्येयेच्छान्तं सुरश्रेष्ठ महापातकनाशनम् ॥ ४६ ॥
१ 'क्ति' क पाठ । २ 'ता' क पाठ । ३ 'य्यी' क पाठ ।

सप्तमः पटलः । ७३
सुकारं चिन्तयेद्देवमिन्द्रनीलसमप्रभम् ।
निर्दहेत् सर्वदुःखानि ग्रहरोगोद्भवानि च ॥ ५० ॥
न्दकारं वह्निदीप्ताभं चिन्त(ना?ये)त् पुरुषर्षभ ।
भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥
(रि?यै)कारं विमलं ध्यायेद् ब्रह्महत्याविनाशनम् ।
(रि?वि)कारं चिन्तयेद्विद्वान् शुद्धस्फटिकसंनिभम् ॥५२॥
पापं नश्यति तत्क्षिप्रमगम्यागमनोद्भवम् ।
(सु?ह्म)कारं चिन्तयेद्योगी शुद्धस्फटिकसंनिभम् ॥ ५३ ॥
अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति ।
हेकारं तारकावर्णांमिन्दु(शेष?शीर्ष)विभूषितम् ॥ ५४ ॥
योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् ।
काकारं कृष्णवर्णं च नीलमेघसमप्रभम् ॥ ५५ ॥
ध्यात्वा पुरुषशार्दूल पापं नाशयति ध्रुवम् ।
मेकारं रक्तवर्णं च कमलासनसंस्थितम् ॥ ५६ ॥
गोहत्यादिकृतं पापं नाशयत्येव तत्क्षणात् ।
श्वकारं परमं ध्यायेत् तप्तकाञ्चनसंनिभम् ॥ ५७ ॥
कमलासनमासीनं मन्त्री हत्याविमोचनम् ।
(रि?यै)कारं शुक्लवर्णं तु जातीपुष्पसमप्रभम् ॥ ५८ ॥
गुरुहत्याकृतं पापं ध्यात्वा दहति तत्क्षणात् ।
धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् ॥ ५६ ॥
पितृमातृवधात् पापान्मुच्यते नात्र संशयः ।
१ 'य' क पाठ ।

७४ गन्धर्वतन्त्रे ।
मकारं पद्मरागाभं चिन्तयेद् दीप्ततेजसम् ॥ ६० ॥
पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति ।
हिकारं शङ्खवर्णं तु पूर्णचन्द्रसमप्रभम् ॥ ६१ ॥
अशेषपापदहनं ध्यायेन्नित्यमिहाच्युत (?) ।
तत्कारं पाण्डुरं ध्यायेत् पद्मस्योपरि संस्थितम् ॥ ६२ ॥
प्रतिग्रहकृतं पापं स्मरणादेव नश्यति ।
नःकारं रक्तवर्णं तु इन्द्रगोपसमप्रभम् ॥ ६३ ॥
ध्यात्वा प्राणिवधं पापं निर्दहेज्जगदीश्वर ।
क्लिन्कारं रक्तवर्णं तु स्मरेद्द्वज्रसमप्रभम् ॥ ६४ ॥
निर्दहेत् सर्वपापानि नान्यैः पापैः प्रलिप्यते ।
नेकारं तु मुखं पूर्वमुद्यदर्कसमप्रभम् ॥ ६५ ॥
सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेदू ब्रह्मणः पदम् ।
नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ॥ ६६ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्वैष्णवं पदम् ।
सौम्यं गोरोचनापीतं चोकारं चोत्तराननम् ॥ ६७ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेद्रुद्रतां पुनः ।
शरच्चन्द्रनिभं शान्तं दकारं पश्चिमाननम् ॥ ६८ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ स गच्छेदैश्र्वरं पदम् ।
यात्कारं च शिरः प्रोक्तमूर्ध्वाननमितीरितम् ॥ ६९ ॥
सकृद् ध्यात्वा सुरश्रेष्ठ सदाशिवपुरं व्रजेत् ।
अक्षराणां तु सर्वेषां वक्ष्यन्ते देवताः क्रमात् ॥ ७० ॥
१ 'र्द्धा' क पाठ ।

सप्तमः पटलः । ७५
अग्निवायुसूर्यविद्युद्यमा वरुण एव च ।
बृहस्पतिस्तु पर्जन्य इन्द्रो गन्धर्व एव च ॥ ७१ ॥
पूषा शिवश्च त्वष्टा च वैसवश्च मरुत्तथा ।
सोमोऽङ्गिरा विश्वेदेवा अश्विनौ च प्रजापतिः ॥ ७२ ॥
सर्वदेवश्च रुद्रश्च ब्रह्मा विष्णुश्च देवताः ।
जपकाले चिन्तयित्वा तासां सायुज्यमाप्नुयात् ॥ ७३ ॥
ललितायास्त्रिभिर्बीजैस्त्रिपदीयं त्रयीमयी ।
एतज्ज्ञात्वा तु मेधावी जपहोमं करोति यः ॥ ७४ ॥
षडङ्गमविधायादौ ध्यायं(तां?स्तां)परदेवताम् ।
न भवेत् सूतकं तस्य मृतकं च न विद्यते ॥ ७५ ॥
यश्चैवं तु न जानाति गायत्रीं च यथाविधि ।
कथितं सूतकं तस्य मृतकं च मयानघ ॥ ७६ ॥
नैव दानफलं तस्य नच यज्ञफलं लभेत् ।
नच तीर्थफलं प्रोक्तं तस्यैवं सूतके सति ॥ ७७ ॥
गायत्र्येषा समाख्याता त्रैपुरी सर्वसिद्धिदा ।
गायन्तं त्रायते यस्माद् गायत्री तेन चोच्यते ॥ ७८ ॥
महापातकयुक्तोऽपि प्रजपेद् दशधा यदि ।
सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् ॥ ७९ ॥
अष्टोत्तरसहस्रं वै जपेदेनामनन्यधीः ।
सर्वपापविनिर्मुक्तो भवेत् पूजाधिकारवान् ॥ ८० ॥
जीवन्मुक्तो जामदग्न्यः शिष्यो मे घोरपातकैः ।
१ ‘तितु’ क पाठ । २ ‘वा’ ख पाठ । ३ ‘स्त्रीपदे’ ख पाठः ।
४ ‘शतावृत्त्या गायत्री जपते यदि’ ख पाठ ।

७६ गन्धर्वतन्त्रे
विमुक्तो मातृहत्याद्यैर्मीननाथस्तथा परः ॥ ८१ ॥
जेगीषव्यश्च चन्द्रश्च वासवश्च विमोचितः ।
गुरुतल्पगमनाद्यैस्तथागस्त्यः प्रमोचितः ॥ ८२ ॥
अभक्ष्यभक्षणात् पापादनयैव विमोचितः ।
चाण्डालगमनाद्यैश्च वशिष्ठश्चापि मोचितः ॥ ८३ ॥
दत्तात्रेयः सुरापानाज्ज्वलनः सर्वभक्षणात् ।
त एव ब्रह्मणाः सर्वे विष्णुना प्रभविष्णुना ॥ ८४ ॥
अनयैव महादेवि सर्व एव प्रमोचिताः ।
देव्युवाच
धन्या चानुगृहीतास्मि त्वया नाथेन शंकर ॥ ८५ ॥
निःसंशयास्मि देवेश भ्रमो द्वैतश्च मे हतः ।
कतिधा सा भवेद् देव तदिदानीं वद प्रभो ॥ ८६ ॥
ईश्वर उवाच
एकैव सा महादेवि बहुधा भिन्नतां गता ।
सौरी च वैष्णवी चैव शाक्ती ब्राह्म्यथ शांभवी ॥ ८७ ॥
तत्तन्त्रे ताः प्रयोक्तव्यास्त्रैपुरीयं प्रकाशिता ।
तर्पणं च त्रिधा प्रोक्तं सांप्रतं तच्छृणु(ख?ष्व)मे ॥८८॥
सोमार्कानलसंघट्टात् स्खलितं यत् परामृतम् ।
तेनामृतेन दिव्येन तर्पयेत् परदेवताम् ॥ ८६ ॥
आन्तरं तर्पणं ह्येतन्मानसं शृणु सांप्रतम् ।
आत्मानं तन्मयं स्मृत्वा सदा संतर्पितात्मवान् ॥ ६० ॥
सर्वदा सर्वकार्येषु संतुष्टः स्थिरमानसः ।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत् ॥ ६१ ॥

सप्तमः पटलः । ७७
तर्पयित्वा गुरूनादौ मूलदेवीं च तर्पयेत् ।
बीजद्वयं ततो विद्या हुतभुग्दयितान्विता ॥ ६२ ॥
ततो देव्याः स्वनामान्ते तर्पयामि नमःपदम् ।
देवान् पितॄन् ऋषींश्चैव तर्पयेत् कुलवारिणा ॥ ६३ ॥
तर्पणादौ प्रयुञ्जीत तृप्यतां वृद्धभैरवः ।
तथैव परमेशानि विष्णुं रुद्रं प्रजापतिम् ॥ ६४ ॥
एवं ऋषीन् प्रतर्प्याथ पितॄनपि च भैरवान् ।
तृप्यतां सुन्दरी माता पिता भैरवस्तृप्यताम् ॥ ६५॥
आदौ त्रिपुरपूर्वं च तर्पणे विनियोजयेत् ।
श्राद्धे विवाहे दाने च स्नाने चानङ्गपूजने ॥ ६६ ॥
सर्वदा सर्वकार्येषु तान्त्रिके वैदिके तथा ।
त्रिपुरभैरवं चैव स्मरेत् त्रिपुरसुन्दरीम् ॥ ६७ ॥
स्वविद्यां संस्मरन् कुर्यात् क्रियां सर्वत्र चोदिताम् ।
द्विजातीनां च संस्कारो वेदोक्तः समुदाहृतः ॥ ६८ ॥
तेषां तु तत्र तत्रापि विद्यया विधिमाचरेत् ।
अन्येषामपि वर्णानां विद्ययैव समापयेत् ॥ ६९ ॥
विद्यया संस्कृतो यस्तु स एव ब्राह्मणो मतः ।
निघ(नो?ने)विद्यया दाहो विद्ययान्यत् समाचरेत् ॥१००॥
तेनैव तन्मयी सिद्धिः सर्वत्र भवति ध्रुवम् ।
यावन्न दीयते देवि सूर्यायार्घ्यं विधानतः ॥ १०१ ॥
विधिना विहिता पूजा तावत् केन प्रगृह्यते ।
मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिततण्डुलैः ॥ १०२ ॥
१ 'यात्' क पाठः । २ 'शि' क पाठ. ।

७८ गन्धर्वतन्त्रे ।
रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत् ।
‡ शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् ॥ १०३ ॥
नादबिन्दुकलायुक्तं हंसःपदमथो लिखेत् ।
मार्तण्डभैरवायेति प्रकाशशक्ति चालिखेत् ॥ १०४ ॥
सहितायेति चोक्त्वा वै इदमर्घ्यमतः परम् ।
वह्निजायान्वितं कृत्वा सूर्यायार्घ्यं निवेदयेत् ॥ १०५ ॥
न दद्याद्भास्करायार्घ्यं शंखतोयैर्महेश्वरि ।
सर्वदेवमयं सूर्य्यं सर्वदेवनमस्कृतम् ॥ १०६ ॥
पूजयित्वा विधानेन प्रदक्षिणमनुव्रजन् ।
प्रणम्य भगवन्तं वै सर्वपापैः प्रमुच्यते ॥ १०७ ॥
यः सदा पूजयेद् देवं दृष्ट्वा वा प्रणमेत् प्रभुम् ।
पूजितं दैवतत्वेन ब्रह्माण्डान्तरगोचरम् ॥ १०८ ॥
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां यदुदाहृतम् ।
सकृत् प्रदक्षिणां देवि दद्यात् तत्फलमञ्जसा ॥ १०६ ॥
तीर्थानां दर्शने यद्यत् तत्तद्भास्करदर्शनात् ।
सर्वतीर्थामृतैः स्नातो स सदा सूर्यरश्मिभिः ॥ ११० ॥
अथ त्रिपुरगायत्र्या देव्यै चार्घ्यं निवेदयेत् ।
सूर्यमण्डलसंस्थायै पूर्वोक्तध्यानयोगतः ॥ १११ ॥
चक्रराजं हृदि ध्यात्वा तत्र देवीं समानयेत् ।
अष्टोत्तरशतावृत्त्या जपन् विद्यामनन्यधीः ॥ ११२ ॥
इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे स्नानसंध्योपासनादिविधिर्नाम
सप्तमः पटलः ॥ ७ ॥
१ 'य' ख पाठ । ‡ शिवेत्यादिना ह्रींबीजोद्धार कृत । § गुप्तदीक्षाविषये इद बोध्यम् ।

अष्टमः पटलः ।
ईश्वर उवाच
ततो मौनी विशुद्धात्मा हृदि विद्यां परामृ(षे?शे)त् ।
अबहिर्मानसो योगी यागभूमिमथाविशेत् ॥ १ ॥
केशकीटादिसंयुक्ता न स्निग्धा नातिपिच्छला ।
न रूक्षा नातिनीचा वै नात्युच्चाँ न वनान्विता ॥ २ ॥
न च वायुभिराच्छन्ना नान्यप्राणिसमाकुला ।
धूलिकर्दमसंयुक्ता पशुभिर्न विलोकिता ॥ ३ ॥
वृक्षादिभिरनाकीर्णा द्रवर्वारिसमाकुला ।
अनावृता चतुर्दिक्षु मनसँस्तुष्टिकारिणी ॥ ४ ॥
ऊषरे कृषिसंयुक्ते स्थाने पुण्येऽपि नार्चयेत् ।
यागभूमिर्निषिद्धैषा विहिता कथ्यतेऽधुना ॥ ५ ॥
वापीकूपसमीपस्था सुमनोद्यानमध्यगा ❄ ।
विचित्रमण्डपैर्युक्ता शुद्धवेदिपरि(स्कृ?ष्कृ)ता ॥ ६ ॥
पताकाध्वजसंकीर्णा लाक्षारुणपरिच्छदा ।
पुष्पप्रकरसंकीर्णा घण्टाचामरभूषिता ॥ ७ ॥
दीपदर्पणसंयुक्ताँ वितानोपपरिष्कृताँ ।
पेयैर्भक्ष्यैः समायुक्ता कर्पूरागुरुधूपिता ॥ ८ ॥
बालार्कसदृशी रम्या मनःसंतोषकारिणी ।
तत्तदायुधपूर्णान्तर्विभूषितप्रपूजिता ॥ ६ ॥
१ 'रु' क पाठ । २ 'ष्ण्या' ख पाठ । ३ 'द्रा' ख पाठ.। ४ 'सोतु' क. पाठः ।
५ 'क्त' क पाठ । ६ 'ता' क पाठ' । ७ 'स्कृ' क पाठ । * सन्धिरेशः ।

८० गन्धर्वतन्त्रे ।
एवमेषा महादेवि यागभूमिः समीरिता ।
पूजावेद्या बहिः स्थित्वा चतुर्हस्तान्तरे धिया ॥ १० ॥
गृहे चेद् द्वारदेशस्थ आचम्य मनसा गुरून् ।
प्रणामेदिष्टदेवीं च दिक्पालानपि चेतसा ॥ ११ ॥
इन्द्रमग्निं यमं वन्दे निर्ऋतिं वरुणं तथा ।
पवनं धनदं चेशं प्रजापतिमनन्तकम् ॥ १२ ॥
गणेशं चैव क्षेत्रेशं वन्दे द्वारश्रियं तथा ।
गणनाथं च वटुकं दुर्गां क्षेत्रं रतिं स्मरम् ॥ १३ ॥
प्रीतिं वसन्तकं चैव शङ्खपद्मनिधी तथा ।
सरस्वतीं महालक्ष्मीं मायां दुर्गां नमाम्यहम् ॥ १४ ॥
भद्रकालीं च स्वस्तिं च स्वाहां शुभंकरीं तथा ।
गौरीं च लोकधात्रीं च वागीश्वरीं नमाम्यहम् ॥ १५ ॥
ब्रह्माणं वास्तुपुरुषं प्रणामामि यथाक्रमम् ।
पुष्पाञ्जलिमथैतेभ्यो भक्त्या परमया दिशेत् ॥ १६ ॥
मण्डलं वामतः कृत्वा चतुरस्रं महेश्वरि ।
आधारं पूजयेत् तत्र पात्रं चान्नोदकान्वितम् ॥ १७ ॥
संस्कृत्य परमेशानि सर्वभूतबलिं हरेत् ।
तारं च भुवनेशानीं सर्वविघ्नपदं ततः ॥ १८ ॥
(हृ?कृ)दन्ते सर्वभूतेभ्यो हुंकारं वह्निवल्लभां ।
समुच्चरन् बलिं दद्यान्मुद्रया तत्त्वसंज्ञया ॥ १९ ॥
अङ्गुष्ठानामिकायोगं तत्त्वमुद्रेयमीरिता ।
१ 'श्रि' क पाठ । २ जलेन चतुरस्रकम् ख पाठ ।

अष्टमः पटलः । ८१
बालान्ते चास्त्रमालिरुय १ ङेन्तं फट्कारसंयुतम् ॥ २० ॥
अस्त्रमन्त्रः समाख्यातः सर्वविघ्नौघनाशकः ।
अनेनैवाक्षतान् सम्यक् संमन्त्र्य सप्तधा ततः ॥ २१ ॥
अपसर्पन्तु ते भूता भूमौ ये चान्तरिक्षगाः ।
दिव्यलोकगता ये च ते नश्यन्तु २ शिवाज्ञया ॥ २२ ॥
अनेनैवाक्षतांस्तत्र विकिरेद्यज्ञमण्डपे ।
ऐंक्लींसौः इति मन्त्रेण पूजा(देव्या?वेद्यां) महेश्वरि ॥२३॥
अङ्गं संकोचयन् वामं प्रविशेद्दैक्षिणाङ्घ्रिणा ।
यागमन्दिरगांस्तत्र विघ्नानुत्सारयेत् ततः ॥ २४ ॥
पाष्णिघातकरस्फोटसमुदञ्चितवक्त्रकैः ।
तालत्रयमिदं कृत्वा विघ्नान्सर्वानपाहरेत् ॥ २५ ॥
ततः पुनर्भुंफडिति पार्श्वमूर्ध्वमधस्तथा ।
आत्मनः क्रोधदृष्ट्याथ निरीक्ष्य सुमना भवेत् ॥ २६ ॥
वीक्षणं (सर्व?वर्म)बीजेन यज्ञभूमेः समीरितम् ।
त(तू?त्तु)र्यो बिन्दुसंयुक्तः कलानादसमन्वितः ॥ २७ ॥
५वर्मबीजमिदं प्रोक्तं धर्मकामार्थसाधनम् ।
प्रोक्षणं चास्त्रमन्त्रेण यागभूमेः समाचरेत् ॥ २८ ॥
अशुद्धपत्तिसंयोगपत्तिविष्टावसेचनम् ।
मूषिकामण्डूकस्पर्शक्रमिकीटा ६दिसंगमः ॥ २९ ॥
अज्ञातदूषणं स्थानं मार्जनादौ च यद्भवेत् ७ ।
एवमादीनि नश्यन्ति लोकनात् स्पर्शनात् प्रिये ॥ ३० ॥
१ ‘री’ क. पाठ. । २ ‘न्ति’ ख पाठः । ३ ‘द’ क पाठ । ४ ‘क’ क पाठ. ।
५ ‘हूं’ क पाठ. । ६ ‘घ’ ख पाठ । ७ ‘तद्दूषित’ ख पाठ. ।

८२ गन्धर्वतन्त्रे ।
मधुकैटभयोर्मेदसंघातैर्दृढतां गता ।
मेदिनी सर्वदाशुद्धा सुरपूजासु सर्वतः ॥ ३१ ॥
तस्य दोषस्य मोक्षार्थं कामबीजं लिखेत् क्षितौ ।
नैवेद्यादि स्वयं धृत्वा आच्छाद्य मीनमुद्रया ॥ ३२ ॥
वायुबीजेन संशोष्य वह्निना च मलं दहेत् ।
श्रीवत्समुद्रया दृष्ट्या तत् सर्वमवलोकयेत् ॥ ३३ ॥
यदात्मना न विज्ञातं सम्यक् पुष्पादिदूषणम् ।
अस्पर्शनादिकं वापि यदन्यायार्जितं भवेत् ॥ ३४ ॥
तथा निर्माल्यसंसृष्टिः कीटाद्यारोहणं च यैत् ।
तत् सर्वं नाशमायाति नैवेद्याद्यवलोकनात् ॥ ३५ ॥
नैवेद्यकादिकं यत्तु पुष्पगन्धादिकं च यत् ।
सर्वमाच्छादितं कार्यं यावदावाहयेत् पराम् ॥ ३६ ॥
आवाह्य स्थापयित्वा तु निराच्छादं प्रकाशयेत् ।
राक्षसाः प्रतिगृह्णन्ति निराच्छादं यतः प्रिये ॥ ३७ ॥
आसनं च ततः कुर्यान्नातिनीचं नचोच्छ्रितम् ।
आसनं चार्घ्यपात्रं च भग्नमासादयेन्न तु ॥ ३८ ॥
कृष्णाजिने मोक्षसिद्धिः श्रीमोक्षौ व्याघ्रचर्म्मणि ।
काम्यार्थं कम्बले चैवमभीष्टं रक्तकम्बले ॥ ३६ ॥
कुशासने सर्वसिद्धिर्मारणे कृष्णकम्बलम् ।
त्रिपुरापूजने शस्तं रक्तकम्बलमासनम् ॥ ४० ॥
नैतद् द्विहस्ततो दीर्घं सार्धहस्ता(नु?न्न)विस्तृतम् ।
न त्र्यङ्गुलात् समुच्छ्रायं पूजाकर्मणि संग्रहेत् ॥ ४१ ॥
१ ‘घा’ क पाठ. । २ ‘म’ क पाठ । ३ ‘चरेत्’ क पाठ. ।

अष्टमः पटलः । ८३
यथेष्टं चार्म्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम् ।
न दीक्षितो विशेज्जातु कृष्णसाराजिने गृही ॥ ४२ ॥
धरण्यां दुःखसंभूतिर्दौर्भाग्यं दारुजासने ।
आम्रनिम्बकदम्बानामासनं वंशनाशनम् ॥ ४३ ॥
बकुले किंशुके चैव पनसेषु हतश्रियः ।
वंशेष्टकाश्मधरणीतृणपल्लवनिर्म्मितम् ॥ ४४ ॥
वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् ।
नाराचैर्वारिभिन्नं स्याद्विशीर्णं भग्नमेव च ॥ ४५ ॥
पर्युषितं परेषां तदधौतं च विवर्जयेत् ।
गान्तारीनिर्मितं शस्तं नानादारुमयं शुभम् ॥ ४६ ॥
न यथेष्टासनो भूयात् पूजाकर्म्मणि साधकः ।
काष्ठादिकासनं कुर्यान्मितमेव सदा प्रिये ॥ ४७ ॥
चतुर्विंशत्यङ्गुलेन दीर्घं काष्ठासनं शिवे ।
षोडशाङ्गुलविस्तीर्णमुच्छ्रायाच्चतुरङ्गुलम् ꙮ ॥ ४८ ॥
तदर्द्धाङ्गुलं वा कुर्यान्नोच्छ्रितं चात आचरेत् ।
धरण्या वस्त्रसंयोगाद् दारुजे कम्बलस्य च ॥ ४६ ॥
कौशेयाजिनसंयोगो हन्ति पुण्यं पुरातनम् ।
यथाशक्त्येकतो मन्त्री शस्तासनमुपाविशेत् ॥ ५० ॥
पाणिभ्यामासनं धृत्वा विहितं विस्तरेद् भुवि ।
१ 'तिदो' क पाठ । २ 'सर्व क पाठ । ३ 'बिल्वज' ख पाठः । ४ 'म्भा'
ख. पाठ । ५ 'न्यद्वा' ख पाठ । ६ 'ल हि' ख पाठ ।

  • कम्बलं चार्मण शैल महामायाप्रपुजने ।
    प्रशस्तमासन देवि कथित वरवर्णिनि ॥ इत्याधिक ख पाठः ।