गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
चतुरस्रे समे शुद्धे मध्योच्छ्लूनविभूषिते ।
युग्माङ्गामिलितं देवि पट्टस्येह समीरितम् ॥ १० ॥
अथवा परमेशानि भूमौ चक्रं समालिखेत् ।
हस्तमात्रमिते शुद्धे गोमयेनोपलेपिते ॥ ११ ॥
सिन्दूररजसा तत्र कुङ्कुमेनाथ वा प्रिये ।
आलेखेच्चक्रराजं च लेखन्या हैमया तथा ॥ १२ ॥
अथवा कुशमूलेन दर्भपाणिः समाहितः ।
नेत्ररम्यं यथा चक्रं तथा कुर्याद्विचक्षणः ॥ १३ ॥
प्रतीच्यग्रं लिखेदेकं त्रिकोणं तदुपर्यथ * ।
पूर्वत्रिकोणमध्याग्रं त्रिकोणान्तरमालिखेत् ॥ १४ ॥
अथ संधिद्वय भित्त्वा प्रागग्रं विलिखेत् परम् ।
त्रिकोणमध्यगं चक्रमष्टकोणं तथा भवेत् ॥ १५ ॥
ततो दशारचक्रस्य निर्माणं शृणु पार्वति ।
दक्षिणोत्तरगा रेखास्तिस्रो यास्तत्र तास्वपि ॥ १६ ॥
मध्यरेखां परित्यज्य रेखे द्वे परिवर्धयेत् ।
तेन षट्कोणकं कृत्वा संधिभेदे चतुष्टयम् ॥ १७ ॥
कृत्वी रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् ।
तथान्यदशकोणस्य निर्माणं परिकीर्त्यते ॥ १८ ॥
दक्षिणोत्तरगास्त्वेवं रेखाः पञ्च भवन्ति याः ।
तासां रेखा(द्व?त्र)यं मध्ये हित्वा पूर्वापरं तु तत् ॥ १९ ॥
बाह्यरेखाद्वयं देवि पूर्ववत् परिवर्धयेत् ।
'लि' क पाठ. । द्वे क पाठ ।
तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २० ॥
कृत्वा रेखाद्वयं कुर्याद् दशकोणं यथा भवेत् ।
चतुर्दशारचक्रस्य निर्माणं कथ्यतेऽधुना ॥ २१ ॥
दक्षिणोत्तरगास्त्वेवं रेखाः सप्त भवन्ति याः ।
तासां रेखा(द्व?त्र)यं हित्वा बाह्ये पूर्वापरं ततः ॥ २२ ॥
दीर्घं रेखाद्वयं मन्त्री पूर्ववत् परिवर्धयेत् ।
तेन षट्कोणकं कृत्वा संधिभेदचतुष्टयम् ॥ २३ ॥
दशारीकृत्य तेनैव संधिभेदचतुष्टयात् ।
रेखाद्वयं बहिः कुर्याद्रेखाः स्युर्नव चैव वै ॥ २४ ॥
कल्पयेदथ तस्याग्रैरन्यकोणचतुष्टयम् ।
एवं चतुर्दशारं स्याद्विलोचनमनोहरम् ॥ २५ ॥
एवं निष्पादिते चक्रे यद्भवति च तच्छृणु ।
मध्ये त्रिकोणमेव स्यात् तन्मध्ये बिन्दुरिष्यते ॥ २६ ॥
चतुर्णामपि चक्राणां बहिरग्रास्त्रिकोणकाः ।
त्रिचत्वारिंशच्च गुणिता योनयोऽष्टौ च शोभनाः ॥ २७ ॥
मत्स्या द्वादश संपन्नाश्चतुष्कोणोपशोभिताः ।
ग्रन्थयोऽष्टादशापि स्युः षट्पथा ग्रन्थयोऽपरे ॥ २८ ॥
चतुर्विंशतिसंख्याताः शोभनास्ते चतुष्पथाः ।
अष्टकोणकगर्भं तु चतुष्कोणत्रयं तथा ॥ २९ ॥
दक्षिणोत्तरपूर्वासु दिक्षु संभवति क्रमात् ।
दक्षिणोत्तरगास्तत्र नव रेखा भवन्ति हि ॥ ३० ॥
१ 'द्वं' क. पाठ. । २ 'मेन' क. पाठ. ।
नव रेखास्तथैवान्या वह्निवायुदिगायताः ।
नैव रेखास्तथैवान्या नैर्ऋतेशदिगायताः ॥ ३१ ॥
तत्र ये पञ्च देवेशि साधकाभिमुखाग्रकाः ।
त्रिकोणास्ते शक्तयः स्युः पञ्च (ने?त)त्र शुभोदयाः ॥३२॥
पूर्वाग्रा ये तु चत्वारो वह्नयस्ते प्रकीर्तिताः ।
एवं चक्रं विनिर्माय बाह्ये वृत्तं विलिख्य च ॥ ३३ ॥
तेनाष्टदलपद्मस्य निर्माणं तद्बहिस्तथा ।
वृत्तेन षोडशदलं लिखेत् पद्मं मनोहरम् ॥ ३४॥
वृत्तत्रयं तु तद्वाह्ये तद्वाह्ये चतुरस्रकम् ।
त्रिरेखं भूपुरं विद्धि चतुर्द्वारोपशोभितम् ॥ ३५ ॥
एवं भवन्ति चक्राणि बिन्दुर्नैव नव क्रमात् ।
वृत्तत्रयं महेशानि न पूजायां निगद्यते ॥ ३६ ॥
एवमेतस्य चक्रस्य प्रभावो वर्णि(तं?तुं) मया ।
न शक्यते महेशानि कल्पकोटिशतैरपि ॥ ३७॥
एवमेतन्महाचक्रं महाश्रीत्रिपुरामयम् ।
यन्त्रं शरीरमित्याहुर्मन्त्रं ज्ञानमखण्डितम् ॥ ३८ ॥
शरीरं त्रिविधं प्राहुर्भौतिकं च मनोमयम् ।
परं ज्ञानमयं नित्यं यदनाशि निरन्तरम् ॥ ३६ ॥
मुद्रां भौतिकमित्याहुर्यन्त्रं विद्धि मनोमयम् ।
मन्त्रं ज्ञानमयं विद्धि एवं त्रिधा वपुर्भवेत् ॥ ४० ॥
मुद्राशरीरं मे (ब्रूहि?विद्धि) अङ्गभूतं तथा परम् ।
१ क एतत् पद्यार्धं नास्ति। २ 'हरम्' क. पाठ. । ३ 'काम' क पाठः ।
योनिभूता महामुद्रा शरीरमिति कीर्तितम् ॥ ४१ ॥
तस्या॑ रससमुत्पन्नाः कामेश्वर्यादिकास्तथा ।
बिन्दुचक्रं वरारोहे सर्वानन्दमयं प्रिये ॥ ४२ ॥
संविद्ध्येयं महाचक्रं ज्ञेयं ब्रह्मस्वरूपकम् ।
ततः परं शिवाङ्कस्थां महात्रिपुरसुन्दरीम् ॥ ४३ ॥
समावाह्य यजेद्देवीं परयाथ सपर्यया ।
अग्नीशासुरवायव्यमध्ये दिक्षु च पार्वति ॥ ४४ ॥
षडङ्गयुवतीः † पश्चात् पूजयित्वा विधानतः ।
तन्मयीश्चाथ नित्याश्च यजेत् सौभाग्यकामुकः ॥ ४५ ॥
महात्र्यस्रं स्मरेत् तत्र पञ्चदशकलात्मकम् ।
वामावर्तक्रमेणैव कलाः पञ्चदश क्रमात् ॥ ४६ ॥
अकाराद्यौँमुकारान्तां दक्षिणास्यां विचिन्तयेत् ।
ततश्च पूर्वरेखायां दीर्घकर्णादि † पञ्चकम् ॥ ४७ ॥
विचिन्त्योत्तररेखायां शक्त्या(सी?दि) ⁕ परिचिन्तयेत् ।
कामेश्वर्यादिकानित्यास्तथैव परिपूजयेत् § ॥ ४८ ॥
प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे ।
एकैकां पूजयेन्नित्यां तत्तत्तिथिक्रमेण तु ॥ ४९ ॥
आदावेकैकवृद्धया तु यजेत् साधकसत्तमः ।
१ 'ध्व' ख पाठः । २ 'का' ख पाठः । ३ 'द्यौ उ' ख पाठः । ४ 'न्ता' ख पाठः ।
† सर्वज्ञादिशक्ती । ‡ ऊकारादि । ⁕ एकारादि । § नित्या यथा १ कामेश्वरी
२ भगमालिनी ३ नित्यक्लिन्ना ४ भेरुण्डा ५ वह्निवासिनी ६ वज्रेश्वरी ७ शिवदूती
८ त्वरिता ९ कुलसुन्दरी १० नित्या ११ नीलपताका १२ विजया १३ सर्वमङ्गला
१४ ज्वालामालिनी १५ चित्रा ॥ ह्रीं श्रीं अं कामेश्वरिनित्याश्रीपादुका पूजयामि तर्पयामि
नम इत्येव वामावर्तेन सपूजयेत् ।
कृष्णपक्षे महेशानि पूजयेत्तुं त्रिमण्डलम् ॥ ५० ॥
विचित्राया वरारोहे यावत् कामेश्वरी भवेत् ।
पूजनीया विलोमेन वान्त्या(ः) तथैव पार्वति ॥ ५१ ॥
उभयोः पक्षयोरन्ते यथोक्तध्यानयोगतः ।
(स्व?स)र्गस्थां षोडशीं नित्यां महात्रिपुरसुन्दरीम् † ॥५२॥
तत्तद्विद्यास्तथा ध्यानं यन्त्राणि पूजनानि तु ।
होमान्यन्यानि सर्वाणि काम्यानि च वरानने ॥ ५३ ॥
पटलैः पञ्चसंख्यैस्तु पश्चात् वक्ष्याम्यहं शिवे ।
अत्राङ्गावृत्तिभूतानां शृणु पूजां वरानने ॥ ५४ ॥
ईश्वर उवाच
तत्र तत्र महेशानि समावाह्य विधानतः ।
पूजयेत् साधको भक्त्या य(दो?थो)क्तक्रमवर्त्म(का?ना) ।५५।
मूलाद्येनैव तत्राद्यां हंसेन पुटितेन तु ।
द्वितीयेन द्वितीयां च तृतीयेन तृतीयकाम् ॥ ५६ ॥
चतुर्थेन चतुर्थी च पञ्चमेनैव पञ्चमीम् ।
षष्ठेन तु तथा षष्ठीं सप्तमेन तु सप्तमीम् ॥ ५७ ॥
अष्टमेनाष्टमीं चैव नवमीं नवमेन तु ।
दशमीं दश(मी?मे)नैव एकादशीं तथैव हि ॥ ५८ ॥
एकादशाक्षरेणैव द्वादशीं द्वादशेन तु ।
त्रयोदशीं च तत्रैव त्रयोदशाक्षरेण तु ॥ ५६ ॥
चतुर्दशाक्षरेणैव यजेत् तत्र चतुर्दशीम् ।
पञ्चदशाक्षरेणैव यजेत् पञ्चदशीं ततः ॥ ६० ॥
१ ‘त्तु’ ख पाठः । † पूजयेदिति शेषः ।
समस्तेन तथा देवि षोडशीं परिपूजयेत् ।
आदावन्ते च मध्ये च सपर्या खलु पार्वति ॥ ६१ ॥
महादेव्याः समाख्याता नित्यैव विहितागमे ।
तामेव पूजयेद्वापि महात्रिपुरसुन्दरीम् ॥ ६२ ॥
यतस्तस्याः समुत्पन्नं नित्यामण्डलमीदृशम् ।
अथान्यत् संप्रवक्ष्यामि काम्यं कामार्थसिद्धये ॥ ६३ ॥
यथोक्तां कुलजां शस्तां चारुलक्षणलञ्चिताम् ।
स्वेच्छाऋतुमतीं पूर्णयौवनाच्छन्नैशैशवाम् ॥ ६४ ॥
तत्राद्यदिवसे देवीं पूजयित्वा यथाविधि ।
यजेत् कामेश्वरीमाद्यां द्वितीयां द्वितीये तथा ॥ ६५ ॥
तृतीयेऽथ तृतीयां च चतुर्थे च चतुर्थिकाम् ।
पञ्चमे पञ्चमीं चैव षष्ठीं षष्ठे तथाहनि ॥ ६६ ॥
सप्तमे सप्तमीं चैव अष्टमीमष्टमेऽहनि ।
नवमे नवमीं देवीं दशमे दशमीं तथा ॥ ६७ ॥
एकादशीं तथा रुद्रे द्वादशीं द्वादशेऽहनि ।
त्रयोदशदिने देवीं त्रयोदशीं क्रमेण तु ॥ ६८ ॥
चतुर्दशीं तथा शक्रे पञ्चदशीं ततो यजेत् ।
षोडशीं षोडशे पूर्णे यजेद् (बु?वृ)द्धिक्रमेण तु ॥ ६९ ॥
अन्याश्चैव यजेत् पश्चादपरं यत् प्रकीर्तितम् ।
षोडशर्तुर्निशाः स्त्रीणां तासु क्रमोत्क्रमाद् यजेत् ॥ ७० ॥
यथाविधि क्रमेणैव न दिनं व्यतिलङ्घयेत् ।
१ 'आद्या' क पाठ । २ 'र्णा' क पाठ । ३ 'च्छादिनशै' क पाठ ।
४ 'र्थी' क पाठः ।
नैव विसर्जयेत् तां तु यावत्सो¹ स्यात् फलार्थिनी ॥ ७१ ॥
फलार्थिनीं विदित्वैव विसृज्यान्यां समाश्रयेत् ।²
निशाः षोडश संयुक्ताः षोडश शक्तयस्तथा ॥ ७२ ॥
एकस्मिन् दिवसे देवि लभ्यन्ते भाग्ययोगतः ।
पूजयेत्ताः प्रयत्नेन यथावत् पूर्वसूचिताः ॥ ७३ ॥
रात्रौ वृद्ध्या दिने हान्या रसे मध्ये स्थितो बली ।
ऋतुमेकं क्रमेणैव स भवेत् सुरपादपः ॥ ७४ ॥
विमलाजयिनीमध्ये गुरवः * कथितास्तु ते ।
त्रैलोक्यमोहने चक्रे बुद्धं च परिपूजयेत् ॥ ७५ ॥
ब्रह्मविष्णुशिवाख्यास्तास्तिस्रो रेखाश्च तन्निभाः ।
तत्रादौ ब्रह्मरेखायामणिमाद्याः † स्थिताः प्रिये ॥ ७६ ॥
वराभयकरा रक्ताः समीहितफलप्रदाः ।
कौमारी पीतवर्णा च शक्तितोमरधारिणी ॥ ७७ ॥
वरदाभयहस्ता च ध्यातव्या परमेश्वरी ।
अङ्कुशं तोमरं विद्युत्कुलिशौ बिभ्रती करैः ॥ ७८ ॥
इन्द्राणी गौरवर्णा च ध्येया सर्वसमृद्धिदा ।
वैष्णवी श्याववर्णा च शंखचक्रवराभयान् ॥ ७६ ॥
हस्तपद्मैश्च बिभ्राणा दिव्यभूषणभूषिता ।
वाराही श्यामवर्णा च पोत्रिवक्त्रसमन्विता ॥ ८० ॥
हलं च मुसलं खड्गं खेटकं दधती करैः ।
१ 'स्या' क पाठः । २ 'ष' क पाठः । * अष्टारचक्रे गुरुक्रमसपर्या बोध्येति सूच्यते ।
† अणिमा-लघिमा-महिमा-ईशित्व-प्राकाम्य-भुक्तिसिद्धि-इच्छासिद्धि-रससिद्धि-मोक्षसि-
द्धय इत्येता ब्रह्मरेखाया पूज्या ।
चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा ॥ ८१ ॥
खङ्गं वेतालकं चैव दधाना दक्षिणैर्भुजैः ।
खेटकं चषकं चैव नागं घण्टां च वामकैः ॥ ८२ ॥
ब्रह्माणीप्रमुखाः ꕤ सर्व(१) विष्णुरेखा समाश्रिताः ।
ब्रह्माणी रक्तवर्णा च चतुर्भिः शोभिता मुखैः ॥ ८३ ॥
वरदाभयहस्ता च कुण्डिडेकाञ्चलसत्करा ।
माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी ॥ ८४ ॥
कृपाणमे(नं?णं) परशुं दधाना पाणिभिः प्रिये ।
भेदमस्याः परं गुह्यं संक्षेपात् कथ्यतेऽधुना ॥ ८५ ॥
महालक्ष्मीस्तु पीताभा पद्मे दर्पणमेव च ।
मातुलुङ्गफलं चैव दधाना परमेश्वरी ॥ ८६ ॥
शिवरेखां समाश्रित्य संक्षोभग्यादिकाः § स्थिताः ।
रक्ताः संक्षोभणीमुख्याः स्वस्वमुद्राकरान्विताः ॥ ८७ ॥
एताः प्रकटयोगिन्यो ध्येयाः सर्वसमृद्धये ।
अणिमापुरतो देवि त्रिपुरा चक्रनायिका ॥ ८८ ॥
शुद्धस्फटिकसंकाशा मुक्कारत्नविभूषिताँ ।
पुस्तकं चाक्षमालां च कमलद्वयमुत्तमम् ॥ ८६ ॥
बिभ्रती सिद्धये ध्येया महापातकनाशिनी ।
त्रिवृत्तं‡ चन्द्रसूर्याग्निरूपं विद्धि पार्वति ॥ ६० ॥
१ 'स' क पाठः । २ 'ण्ड' क पाठ । ३ 'थिता' ख पाठ. । ४ 'ता.' क. पाठः ।
ꕤ ब्रह्माणी-माहेश्वरी कौमारी-वैष्णवी-वाराही-इन्द्राणी-चामुण्डा-महालक्ष्म्य इत्येता मध्यमाया विष्णुरेखायां पूज्याः । § सक्षोभग्यादयो मुद्रादेव्य प्रकटयोगिन्यस्त्रैलोक्यमो-
हने चक्रे चतुरस्ररेखात्मके शिवरेखाया सपूज्या. ।
‡ वृत्तत्रयं महेशानि न पूजाया निगद्यते (१।३६) इत्युक्त्या पूजाया नोपयुज्यते तत ।
सर्वाशापूरके चक्रे रविवेददलान्विते ।
ब्राह्मां चिन्तयेत्तत्र स्रवत्पीयूषवर्षिणीं ॥ ६१ ॥
कामाकर्षणिाद्यास्तु षोडशस्वरसंयुताः ।
सृणिपाशधराः सर्वा रूपेणापीह तत्समाः ॥ ६२ ॥
एतास्तु गुप्तयोगिन्यो * ध्येयाः सर्वसमृद्धिदाः ।
कामाकर्षिणिकाग्रे तु त्रिपुरेशी व्यवस्थिता ॥ ६३ ॥
त्रिपुरासदृशी ध्येया त्रिपुरेशा वरानने ।
अष्टपत्रं वरारोहे जपाकुसुमसंनिभम् ॥ ६४ ॥
सर्वसंक्षोभ(नं?णं) नाम सर्वकामफलप्रदम् ।
चिन्तयित्वा शिवं तत्र वर्गाष्टकसमन्विताः ॥ ६५ ॥
अनङ्गकुसुमाद्यास्तु स्मृता गुप्ततराश्च‡ ताः ।
सुन्दरीसदृशाः सर्वाः सर्वकामफलप्रदाः ॥ ६६ ॥
अनङ्गकुसुमाग्रे तु ध्येया त्रिपुरसुन्दरी ।
सर्वालङ्कारसंपन्ना पुस्तकं चाक्षमालिकाम् ॥ ६७ ॥
वराभयौ च दधती बन्धूककुसुमप्रभा ।
सर्वसौभाग्यदे चक्रे दाडिमीकुसुमप्रभे ॥ ६८ ॥
चतुर्दशारके देवि भास्करं परिचिन्तयेत् ।
१ ‘र्पिते’ ख पाठ. । २ ‘श्च’ क पाठ ।
- ता यथा कामबुद्धयहंकारशब्दस्पर्शरूपरसगन्धचित्तधैर्यस्मृतिनामबीजात्मामृतशरीराकर्ष-
णयः इति गुप्तयोगिन्य सर्वाशापरिपूरक षोडशदलचक्रे सपूज्या. ।
‡ यथा अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्गरेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालि-
नीति एता गुप्ततरयोगिन्य. सर्वसङ्क्षोभकारकेऽष्टदलचक्रे सपूज्याः ।
२. पटल ११-२०: यन्त्र-निर्माण, न्यास-पद्धति एवं पञ्चाङ्ग-साधन
५०. गन्धर्वतन्त्रे ।
सर्वसंक्षोभणीमुख्याः ¹ संप्रदायाः स्मृता इमाः ॥ ९९ ॥
सर्वसंक्षोभणीशक्तेः पुरस्त्रिपुरवासिनी ।
सुन्दर्याः सदृशी ध्येया सर्वकामफलप्रदा ॥ १०० ॥
सर्वार्थसाधके चक्रे सर्वरक्षाकरे तथा ।
बाह्यारदशकोणे च जपाकुसुमसंनिभे ॥ १०१ ॥
नारायणीं प्रपूज्याथ बाह्यारदशके ततः ।
सर्वसिद्धिप्रदामुख्याः कुलकौला ‡ इमाः स्मृताः ॥१०२॥
सर्वसिद्धिप्रदाग्रे तु त्रिपुरो²श्रीर्व्यवस्थिता ।
उदयद्भानुसहस्राभा दिव्यालंकारभूषिता ॥ १०३ ॥
पुस्तकं जपमालां च दधती वरदाभये ।
अन्तर्दशारचक्रे च पूज्याः सर्वसमृद्धिदाः ॥ १०४ ॥
तथा निग[र्व?र्भ]योगिन्यः सर्वज्ञाँ³प्रमुखाः ❊ प्रिये ।
सर्वज्ञापुरतो देवि स्थिता त्रिपुरमालिनी ॥ १०५ ॥
इन्द्रगोपप्रभा देवी पाशाङ्कुशकपालिनी ।
महाभीति[ह?क]रा सम्यक् साधकानां क्षणादियम् ॥ १०६॥
१ 'क्ति' क पाठ । २ 'र' ख पाठ. । ३ 'ज्ञा' क पाठः ।
† सर्वसंक्षोभिणी-सर्वविद्राविणी-सर्वाकर्षिणी-सर्वाह्लादिनी-सर्वमोहिनी-सर्वस्तम्भिनी-
सर्वजृम्भिणी-सर्ववशङ्करी-सर्वरञ्जनी-सर्वोन्मादिनी-सर्वार्थसाधनी-सर्वसम्पत्पूरणी-सर्वमन्त्रम -
यी-सर्वद्वन्द्वक्षयकरीत्येता संप्रदाययोगिन्य सर्वसौभाग्यदायके चतुर्दशारचक्रे पूज्या. ।
‡ सर्वाद्य सिद्धिप्रदा-सपक्षप्रदा-प्रियकरी-मङ्गलकारिणी-कामप्रदा-दु खविमोचिनी-मृत्यु-
प्रशमनी-विघ्नविनाशिनी-अङ्गसुन्दरी-सौभाग्यदायिनी-इत्येता कुलकौलयोगिन्यः सर्वार्थसा-
धके बर्हिर्दशारचक्रे पूज्या ।
❊ सर्वज्ञा-सर्वशक्ति-सर्वैश्वर्यप्रदा-सर्वज्ञानमयी-सर्वव्याधिविनाशिनी-सर्वाधारस्वरूपा-स-
र्वपापहरा-सर्वानन्दमयी-सर्वरक्षास्वरूपिणी-सर्वेप्सितफलप्रदा-इत्येता निगर्भयोगिन्यः सर्व-
रक्षाकरेऽन्तर्दशारचक्रे पूजनीया ।
सर्वरोगहरे चक्रे बालार्ककिरणारुणे ।
वशिनीप्रमुखास्तत्र रहस्ययोगिनीर्यजेत् ॥ १०७॥
वशिनीप्रमुखा*रक्ता वराभयकरान्विताः ।
पुस्तकं जपमालां च दधानाः परमेश्वरि ॥ १०८॥
वशिनीपुरतो देवि सर्वसिद्धिप्रदायिनीम् ।
तथा त्रिपुरासिद्धां च ध्यायेद्विषविनाशिनीम् ॥ १०९॥
त्रिकोणाग्रविभागस्य दक्षिणे वामके प्रिये ।
चतुष्पथसमायुक्ते बाणचापौ प्रपूजयेत् ॥ ११०॥
त्रिकोणास्योर्ध्वभागस्य वामदक्षिणयोस्तथा ।
षडध्वरूपयोर्देवि पाशाङ्कुशौ व्यवस्थितौ ॥ १११ ॥
सर्वसिद्धिप्रदे चक्रे त्रिकोणे परमेश्वरि ।
उद्यत्सूर्यसहस्राभे बन्धूककुसुमप्रभे ॥ ११२॥
अतिरहस्ययोगिन्यः संस्थिता वीरवन्दिते ।
अग्रकोणे अग्निचक्रे कामरूपे वरानने ॥ ११३॥
कामेश्वरी त्रिनेत्रा च तरुणारुणविग्रहा ।
चषकं वरदानं च पाशं चाङ्कुशमेव च ॥ ११४॥
दधतीं परमेशानि ध्येया रुद्रात्मशक्तिका ।
वामकोणे त्रिकोणस्य सूर्यचक्रे महेश्वरि ॥ ११५॥
जालन्धरे महापीठे वज्रेश्वरी समीरिता ।
त्रिनेत्रा पूर्णचन्द्रास्या बन्धूककुसुमप्रभा ॥ ११६॥
१ 'लक' क पाठ । २ 'स' क. पाठ. ।
- वशिनी-कामेश्वरी-मोदिनी-विमला-अरुणा-जयिनी-सर्वेश्वरी-कौलिनी-वाग्देवता
इत्येता रहस्ययोगिन्यः सर्वरोगहरे वसुकोणचक्रे सपूज्या ।
पाशाङ्कुशौ शरांश्चापं चषकं मातुलुङ्गकम् ।
दधती चारुरूपा सा ध्येया विष्ण्वात्मशक्तिका ॥ ११७ ॥
दक्षकोणे त्रिकोणस्य (लो१सो)मचक्रे वरानने ।
पूर्णगिर्यालये देवि कथिता भगमालिनी ॥ ११८ ॥
त्रिनेत्रा तरुणेन्दुमस्ता सिन्दूरारुणविग्रहा ।
पुस्तकं जपमालां च पाशाङ्कुशकमेव च ॥ ११९ ॥
दधती परमेशानी ध्येया ब्रह्मात्मशक्तिका ।
कामेश्वरी पुरोभागे त्रिपुरा(घ्ना?म्बा) व्यवस्थिता ॥ १२० ॥
मालिनीसदृशी ध्येया सर्वकामफलप्रदा ।
अथवा रश्मयः सर्वा देवीरूपेण चिन्तयेत् ॥ १२१ ॥
नवावरणशक्तीनां ध्यानं देव्याः समं यतः ।
निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः ॥ १२२ ॥
देव्यस्तथा समुत्पन्ना महादेव्याः शरीरतः ।
उड्ड्याणपीठके देवि ब्रह्मचक्रे वरानने ॥ १२३ ॥
परापररहस्याख्या देवी ब्रह्मस्वरूपिणी ।
चक्रेशीमपि तामेव पूजयेत् साधकोत्तमः ॥ १२४ ॥
स्थितिक्रमेण पूजेयं यन्त्रोद्धारक्रमेण तु ।
सृष्टिक्रमं महद्गुह्यं पूजनं परमेश्वरि ॥ १२५ ॥
पार्वत्युवाच
चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले ।
इदानीं कथयेशान पूजाक्रममनुत्तमम् ॥ १२६ ॥
१ ‘स’ क पाठ ।
पञ्चमः पटलः । ५३
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि पूजाक्रममनुत्तमम् ।
यस्य प्रबोधमात्रेण जीवन्मुक्तः प्रमोद्ते ॥ १२७ ॥
देव्या नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता ।
१परा चैवापरा देवि तृतीया च परापरा ॥ १२८ ॥
चक्रमध्ये समावाह्य पू(ज?ज्य)ते द्रव्यविस्तरैः ।
प्रथमा सा समाख्याता मता पुरन्दरादिभिः ॥ १२९ ॥
२मृ(दा?द्वा)सने समासीनः खगसंयमने रतः ।
समकायाशिरोग्रीवो नासालोकनतत्परः ॥ १३० ॥
विकल्परूपसंजल्पविमुखो भावतत्परः ।
महापद्मवनान्तःस्थां परमानन्दरूपिणीम् ॥ १३१ ॥
आप्यायितजगद्रूपां परमामृतवर्षिणीम् ।
तत्त्वज्ञानमये चक्रे परमात्मस्वरूपिणीम् ॥ १३२ ॥
अर्धमात्रा योनिरूपां बिन्दुत्रिवलयात्मिकाम् ।
परमानन्दपुष्पेण पूजयेदात्मरूपिणीम् ॥ १३३ ॥
इन्द्रियप्रीणनैर्द्रव्यैर्विहितं स्वात्मपूजनम् ।
उत्तमैयं द्वितीया सा मया निष्पाद्यते सदा ॥ १३४ ॥
परापरा समाख्याता उभयं यत्र विद्यते ।
देवकीसूनुना चेयं निष्पाद्यते सदा प्रिये ॥ १३५ ॥
इति श्रीपार्वतीश्वरसंवादे गन्धर्वतन्त्रे यन्त्रोद्धारावरणशक्त्यर्चनं
नाम पञ्चमः पटलः ॥ ५ ॥
१ 'अपरा च' क पाठ । २ 'द्वं' क पाठ ।
षष्ठः पटलः ।
—*—
पार्वत्युवाच ।
देव्याः पूजा समाख्याता तृतीया या महेश्वर ।
कथय तां सुरश्रेष्ठ विस्तरेणाधुना प्रभो ॥ १ ॥
ज्ञानेन कर्मणा चेह देहशुद्धिर्द्विधा भवेत् ।
ज्ञानशुद्धिस्त्वया प्रोक्ता कर्मशुद्धिर्न दर्शिता ॥ २ ॥
वि(न्मू?ण्मू)त्रपिच्छलो देहः कथं देवमयो भवेत् ।
तन्मे वद महादेव प्रसादसुमुख प्रभो ॥ ३ ॥
ईश्वर उवाच
ज्ञानेन कर्मणा वापि सिद्धिर्भवति नान्यथा ।
ज्ञानयोगश्च वक्तव्यः कर्मयोगं शृणु प्रिये ॥ ४ ॥
ब्राह्म्ये मुहूर्ते उत्थाय साधकः स्थिरमानसः ।
पद्मासनसमासीनः प्राणायामपुरःसरः ॥ ५ ॥
ब्रह्मरन्ध्रैस्थिते पद्मे सहस्रदलशोभिते ।
विमले पूर्णचन्द्रस्य मण्डले चिन्तयेद् गुरुम् ॥ ६ ॥
शुद्धस्फटिकसंकाशं श्वेताभरणभूषितम् ।
तादृक्प्रसूनमाल्यादिविभूषिततंनुं तथा ॥ ७ ॥
पद्मासनसमासीनं सर्वयोगिनिषेवितम् ।
वराभयकरं शान्तं द्विनेत्रं करुणामयम् ॥ ८ ॥
वामोरुगतया शक्त्या रक्तया वामपाणिना ।
धारयन्त्योत्पलं दक्षहस्तेनालिङ्गितं विभुम् ॥ ९ ॥
————————————————————————————————
१ 'ता कथय' क पाठ । २ 'स्ता' क पाठ. । ३ 'न्ध्रे' ख. पाठः । ४ 'त' क. पाठः ।
षष्ठः पटलः । .५५
परमानन्दसंदोहसान्द्रमानसभीश्वरम् ।
आनन्दसान्द्ररक्ताक्षं स्मरेत् स्मितमुखाम्बुजम् ॥ १० ॥
ꕤ बालाद्यं भुवनेशानी रमा चैवाथ खेचरी ।
शिवचन्द्रौ मातृकान्तं कालशक्रा(द्यु?म्बु)वह्वयः ॥ ११ ॥
वायुश्च वामकर्णेन योजिता बिन्दुनादिनः ।
[च?व]क्रं कृत्वादिसं तेषु कर्णे वामाक्षि योजयेत् ॥१२॥
शिवचन्द्रौ त्रिशूलाढ्यौ बिन्दुना परिमण्डितौ ।
चन्द्रशिवौ त्रिशूलाढ्यौ [ख?स]र्गवन्तौ महेश्वरि ॥ १३ ॥
तस्मात् स्वगुरुनामान्ते आनन्दनाथ चालिखेत् ।
तथा शक्तिपदान्ते वै अम्बापदमतो लिखेत् ॥ १४ ॥
पादुकां पूजयामीति विधिना परिपूजयेत् ।
लं पृथिव्यात्मना ब्रह्मणा गन्धं कल्पयामि गन्धतन्मात्रात्मने
घ्रा[ण?णे]न्द्रियाय] गन्धं गृहाण स्वाहा ,
अथाङ्गुष्ठकनिष्ठाभ्यां योजयेद्गन्धमुत्तमम् ॥ १५ ॥
हं आकाशात्मना सदाशिवेन पुष्पं कल्पयामि शब्दतन्मात्रात्मने
श्रोत्रेन्दि्र(य?याय) पुष्पं गृहाण स्वाहा ,
अङ्गुष्ठतर्जनीयोगं पुष्पदानं तथैव हि ।
यं वाय्वात्मना ईश्वरेण धूपं कल्पयामि स्पर्शतन्मात्रात्मने
'त्वगिन्द्रियाय स्पर्शं गृहाण स्वाहा ,
अङ्गुष्ठमध्यमायोगं धूपदानं तथैव हि ॥ १६ ॥
१ 'तत्रोप' क पाठ । ꕤ बालाद्यं ऐ भुवनेशानी ह्री रमा श्री खेचरी हसख्फ्रे शिवो
ह चन्द्रा. स मातृकान्तं क्ष कालो म शक्रो ल अम्बु व वह्निः र वायु. य वामकर्ण.
ऊ । वक्रमिति यथा सह्ख्फ्रे सहक्षमलवरयीमिति । शिवचन्द्राविति ह्सौ. चन्द्रशिवौ स्हौ. ।
[वं?रं] वह्न्यात्मना रुद्रेण दीपं कल्पयामि रूपतन्मात्रात्मने
चक्षुरिन्द्रियाय रूपं गृहाण स्वाहा.,
अङ्गुष्ठाभ्यां महेशानि दीपं दद्यात् समाहितः ।
वं अमृतात्मना विष्णुना नैवेद्यं कल्पयामि रसतन्मात्रात्मने
जिह्वेन्द्रियाय रसं गृहाण स्वाहा,
अङ्गुष्ठानामिकायोगं नैवेद्यं तत्प्रतिष्ठितम् ॥ १७ ॥
एवं कुलगुरुं देवि पूजयित्वा विधानतः ।
योनिमुद्रां प्रदर्श्याथ प्रणमेत् सिद्धिहेतवे ॥ १८ ॥
नमस्ते भगवन्नाथ शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ १६ ॥
नवाय नवरूपाय परमात्मैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ॥ २० ॥
स्वतन्त्राय दया[त्?क्लृ]प्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ १२ ॥
विवेकिनां विवेकार्थे विम[र्षा?र्शा]य विम[र्ष?र्शि]नाम्
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ २२ ॥
पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ।
सदा सच्चित्स्वरूपेण विधेहि भवदासनम् ॥ २३ ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २४ ॥
नमोऽस्तु गुरवे तुभ्यं ब्रह्मविष्णुशिवात्मने ।
षष्ठः पटलः । ५७
अविद्याग्रस्तसंसारसागरोत्तारहेतवे ॥ २५॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ज्ञानं गुरुरेव परं तपः ॥ २६॥
अतः सर्वत्र देवेशि गुरुपूजा गरीयसी ।
अन्यदेवसपर्या वा चान्यदेवस्य कीर्तनम् ॥ २७॥
गुरुदेवं विना देवि तदग्रे क्रियते यदि ।
तदा नरकमाप्नोति सत्यमेतद्वदाम्यहम् ॥ २८॥
पूजिते गुरुपादे वै सर्व[देवः?दैव]सुखी भवेत् ।
सर्वेषां मन्त्रतन्त्राणां पितासौ यः सदाशिवः ॥ २६॥
यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये ।
तस्य सर्वार्थसिद्धिः स्यान्नान्यथा खलु पार्वति ॥ ३०॥
गुरुपादरजो मूर्ध्नि ध्यात्वा कर्म समारभेत् ।
ब्रह्मरन्ध्रे सहस्रारे कर्पूरधवलो गुरुः ॥ ३१॥
वराभयकरो नित्यो ब्रह्मरूपी सदानघः ।
जागर्ति परमेशानि निजस्थानप्रकाशकः ॥ ३२॥
कुलनाथं परित्यज्य ये शाक्ताः प[रि?र]सेविनः ।
तेषां•दीक्षा च.यागश्च ह्यभिचाराय कल्पते ॥ ३३॥
तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् ।
कुलीनः सर्वविद्यानामधिकारीति गीयते ॥ ३४॥
दीक्षाप्रभुः स एवात्र सर्वतन्त्रेषु नापरः ।
गुरुमण्डलपूजां तु कुर्यात् सप्तसु पर्वसु ॥ ३५॥
१ 'ल्प्य' क पाठ. ।
५८ - गन्धर्वतन्त्रे ।
देव्युवाच
विना¹ योगं न सिध्येत² कुण्डलीषट्क्रमः प्रभो ।
मूलपद्मे कुण्डलिनी यावन्निद्रायिता प्रभो ॥ ३६ ॥
तावन्न किंचित् सिध्येत मन्त्रयन्त्रार्चनादिकम् ।
जागर्ति यदि सा देवी बहुभिः पुण्यसंचयैः ॥ ३७ ॥
तदा प्रसादमायान्ति मन्त्रयन्त्रार्चनादयः ।
शिववद्विहरेल्लोके अष्टैश्वर्यसमन्वितः ॥ ३८ ॥
योगयोगाद् भवेन्मुक्तिर्मन्त्रसिद्धिरखण्डिता ।
सिद्धे मनौ परावाप्तिरिति शास्त्रार्थनिर्णयः ॥ ३६ ॥
युक्तात्मा येन विहरेत् स्वर्गे मर्त्ये रसातले ।
जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ४० ॥
तत् कार्त्स्न्येन परं योगं कथयस्व मयीश्वर³ ।
ईश्वर उवाच
कथयामि तव स्नेहाद् योगयोग्यासि पार्वति ॥ ४१ ॥
संसारोत्तारणं मुक्तिर्योगशब्देन कथ्यते ।
योगो हि ललिता देवी निश्चितं विद्धि पार्वति ॥ ४२ ॥
न योगो नभसः पृष्ठे न भूमौ न रसातले ।
ऐक्यं जीवात्मनोश्चा⁴हुर्योगं योगविशारदाः ॥ ४३ ॥
कामक्रोधलोभमोहमदमात्सर्यसंज्ञका⁵ः ।
तत्समूहाः षडाख्याता योगविघ्नकरा इमे ॥ ४४ ॥
यो[गङ्गे?गाङ्गै]रेभिर्जित्त्वो तान्योगिनो योगमाप्नुयुः ।
१ 'द्धये' क पाठ । २ 'द्धये' क पाठ । ३ 'हे' ख पाठः । ४ 'नश्चा' क
पाठ. । ५ 'क.' क पाठ. ।
षष्ठः पटलः । ५६
यमं नियममासनप्राणायामौ ततः परम् ॥ ४५ ॥
प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने ॥ ४६ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ४७ ॥
तपः संतोषमास्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ४८ ॥
दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ।
पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा ॥ ४६ ॥
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ।
ऊर्वोरुपरि विन्यस्य सम्यक् पादतले उभे ॥ ५० ॥
अङ्गुष्ठौ च निबध्नीयाद् हस्ताभ्यां व्युत्क्रमात् ततः ।
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ ५१ ॥
जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो वसेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ५२ ॥
सीर्वैंन्याः पार्श्वयोर्न्यस्येद् गुल्फयुग्मं सुनिश्चितम् ।
वृषणांधः पादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥ ५३ ॥
भद्रासनं समुद्दिष्टं योगिभिः परिकीर्तितम् ।
ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥५४॥
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकं पादमधः कृत्वा विन्यस्योरावथेतरम् ॥ ५५ ॥
१ 'द्वं' क. पाठ. । २ 'धृतिमित्ताहारशौच' क पाठ । ३ 'नु' पाठः ।
४ 'सेम' क पाठः । ५ 'उ' ख. पाठः । ६ 'लीः' ख. पाठ । ७ 'च' क. पाठः ।
६० • गन्धर्वतन्त्रे ।
ऋजुकायो वसेद्योगी वीरासनमितीरितम् ।
इडयां कर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ ५६ ॥
धारयेत् पूरितं योगी चतुःषष्ट्या च मात्रयाꕤ ।
सुषुम्नामध्यगं सम्यग् द्वात्रिंशन्मात्रया शनैः ॥ ५७ ॥
नाड्या पिङ्गलया चैवं रेचयेद्योगवित्तमः ।
प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ ५८ ॥
भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत् ।
मात्रावृद्धिक्रमेणैव सम्यग् द्वादश षोडश ॥ ५६ ॥
जपध्यानादिभिर्युक्तं सगर्भं तद्विदुर्बुधाः ।
त[दु?द]पेतं विगर्भं च प्राणायामं परं विदुः ॥ ६० ॥
क्रमादभ्यसतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः क[ल्प?म्प]संयुक्तो भूमित्यागः परो मतः ॥ ६१ ॥
उत्तमस्य गुणावाप्तिर्यच्छीलनकमिष्यते ।
इन्द्रियाणां विचरतां विषयेषु निराकुलम् ॥ ६२ ॥
बलादाहरणं तेभ्यः प्रत्याहारोऽयमीरितः
अङ्गुष्ठगुल्फजानुषु सी[म?व]नीलिङ्गनाभिषु ॥ ६३ ॥
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि ।१
भ्रूमध्ये स्तनके मूर्ध्नि द्वादशान्ते यथाविधि ॥ ६४ ॥
धारणं प्राणमरुतोर्धारणेति निगद्यते ।
समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ ६५ ॥
१ 'मण' क पाठ । २ 'से' ख पाठ ।
ꕤ मात्रालक्षण यथाह नारद - कालेन यावताऽभीक्ष्णो हस्त स्व जानुमण्डलम् ।
पर्येति मात्रा तुल्या स्यात् स्वया श्वासैकमात्रयेति ॥ तथा फेत्कारिणीतन्त्रे—जानु प्रदक्षि-
णीकृत्य न द्रुत न विलम्बितम् । क्रियते चाङ्गुलिस्फोट सा मात्रा परिकीर्तितेति ॥