दुर्गा सप्तशती / देवी माहात्म्यम् (पारिजात सौरभ सविस्तार हिन्दी व्याख्या सहित)
Durga Saptashati / Devi Mahatmyam with Commentary
महर्षि वेदव्यास / मार्कण्डेय पुराण द्वारा
१२६ ] श्री दुर्गा सप्तशती पारिजात सौरभ
अथ बगलाअष्टोत्तरनामस्तोत्रम्
नारद उवाच
भगवन् ! देवदेवेश ! सृष्टि-स्थिति-लयात्मक ! ।
शतमष्टोत्तरं नाम्नां बगलाया वदाऽधुना ॥ १
श्रीभगवानुवाच
शृणु वत्स ! प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ २
यस्य प्रपठनात् सद्यो वादी मूको भवेत् क्षणात् ।
रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥ ३
विनियोगः
ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव-ऋषिरनु-
ष्टुप्छन्दः, श्रीपीताम्बरी देवता श्रीपीताम्बरीप्रीतये जपे विनियोगः ।
ॐ बगला विष्णु-वनिता विष्णु-शङ्कर-भामिनी ।
बहुला वेदमाता च महाविष्णुप्रसूरपि ॥ १
महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नरसिंहप्रिया रम्या वामना वडुरूपिणी ॥ २
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनो कृत्या कलहा कलविकारिणी ॥ ३
बुद्धिरूपा बुद्धभार्या बौद्ध-पाखण्ड-खण्डिनी ।
कलिकरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ ४
कोटिसूर्यप्रतीकाशा कोटि-कन्दर्प-मोहिनी ।
केवला कठिना काली कलाकैवल्यदायिनी ॥ ५
केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ ६
नक्षत्ररूपा नक्षत्रा नक्षत्रेश-प्रपूजिता ।
नक्षत्रेश-प्रिया नित्या नक्षत्रपति-वन्दिता ॥ ७
श्रीदुर्गा सप्तशती पारिजात सौरभ [ १३०
नागिनी नागजननी नागराज-प्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ ८
नगाधिराज-तनया नगराज-प्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी ॥ ९
रक्ता नीला धना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णभा स्वगतिप्रदा ॥ १०
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ ११
राग-द्वेषकरी रात्री रौरव-ध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ १२
लङ्कापति-ध्वंसकरी लङ्केशरिपु-वन्दिता ।
लङ्कानाथ-कुलहरा महारावणहारिणी ॥ १३
देव-दानव-सिद्धौघ-पूजिता परमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥ १४
वरदा वरदाराध्या वरदान-परायणा ।
वरदेशप्रिया वीरा वीरभूषण-भूषिता ॥ १५
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषण-भूषिता ॥ १६
पीतपुष्प-प्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र ! नाम्नामष्टोत्तरं शतम् ॥ १७
यः पठेद् पाठयेद् वापि शृणुयाद् वा समाहितः ।
तस्यं शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ १८
प्रभातकाले प्रयतो मनुष्यः
पठेत् सुभक्त्या परिचिन्त्य पीताम् ।
द्रुतं भवेत् तस्य समस्त - वृद्धि-
विनाशमायाति च तस्य शत्रुः ॥ १६
❇-❇
१३१ ] श्री दुर्गा सप्तशती पारिजात सौरभ
अथ सप्तश्लोकी दुर्गा
शिव उवाच-
देवि त्वं भक्त सुलभे सर्व कार्य विधायिनी ।
कलौ ही कार्य सिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच-
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट साधनम् ।
मया तवैव स्नेहेनाप्यम्बा स्तुतिः प्रकाश्यते ॥
ॐ अस्य श्री दुर्गा सप्तश्लोकी स्तोत्रमंत्रस्य नारायण ऋषिः, अनुष्टुप् छंदः
श्री महाकाली, महालक्ष्मी, महासरस्वत्यो देवताः,
श्री दुर्गा प्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्य दुःख भय हारिणि कात्वदन्या,
सर्वोपकार करणाय सदार्द्र चित्ता ॥२॥
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बिके गौरि नारायणि नमोऽस्तुते ॥३॥
शरणागत दीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥४॥
सर्वस्वरूपे सर्वेशे सर्व-शक्ति-समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥५॥
रोगानशेषानपहंसि तुष्टा,
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां,
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥
सर्व बाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥७॥
“श्री श्री सप्तश्लोकी दुर्गा सम्पूर्णा ॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानिसहितं नमामि ॥
पुनीत शादमां के प्रबन्ध में सरस्वती प्रेस, ठठेरवाड़ा, निकट सर्राफा
मेरठ शहर में मुद्रित । फोन (०१२१) २३४८६, २३७३३