दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 77, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
चतुर्थोच्छ्वासः ] व्याख्याद्वयोपेतम् । ७७
त । नगरव्याकुलां यक्षकथां परीक्षमाणो नागरिकजनोऽपि कुतूहलेन दारु-
वर्मणः प्रतीहारभूमिमगमत् ।
( २३ ) विवेकशून्यमतिरसौ रागातिरेकेण रत्नखचितहेमपर्यङ्के हंस-
तूलगर्भशयनमानीय तरुणीं तस्यै मह्यं तमिस्रासम्यगनवलोकितपुंभावाय
मनोरमस्त्रीवेषाय च चामीकरमणिमयमण्डनानि सूक्ष्माणि चित्रवस्त्राणि
कस्तूरिकामिलितं हरिचन्दनं कर्पूरसहितं ताम्बूलं सुरभीणि कुसुमानी-
त्यादिवस्तुजातं समर्प्य मुहूर्तद्वयमात्रं हासवचनैः संलपन्नतिष्ठत् ।
यतेति णीञ् प्रापणे इत्यस्य धातोः कर्मणि लङ् । द्विकर्मकत्वाच्च बालचन्द्रिकेत्यत्र
मुख्ये कर्मणि प्रथमा । नगरव्याकुलां पुरव्याप्ताम् । परीक्षमाणः सत्या न वेति निर्धा-
रयन् । प्रतीहारभूमि द्वारदेशम् ।
( २३ ) विवेकेन सदसद्विचारेण शून्या रहिता मतिर्बुद्धिर्यस्यासौ । असौ दारुव-
र्मा । रागातिरेकेण अनुरागातिशयेन । रत्नैर्मणिभिः खचितः स्यूतः यो हेम्नः सुव-
र्णस्य पर्यङ्कः खट्वा तस्मिन् । हंसवत् स्वच्छतूलः हंसतूलः, स गर्भेऽभ्यन्तरे यस्य
तादृशं शयनं शय्याम् । आनीय आरोप्य । तरुणीमिति शेषः । तस्यै तरुण्यै बाल-
चन्द्रिकायै । मह्यं स्त्रीवेषधारिणे पुष्पोद्भवायेत्यर्थः । तमिस्रेति—तमिस्रायां तमस्यां
रात्रौ सम्यक् स्पष्ट अनवलोकितः अदृष्टः पुम्भाव पुरुषभावो यस्य तस्मै । मनोरमः
सुन्दरः स्त्रीवेषो यस्य तस्मै । विशेषणद्वयमेतत् मह्यमित्यस्य सम्प्रदाने चतुर्थी । चा-
मीकरमणिमयानि सुवर्णरत्नविकाराणि मण्डनानि भूषणानि । सूक्ष्माणि श्लक्ष्णानि ।
चित्रवस्त्राणि मनोरमवासांसि । कस्तूरिकामिलितं मृगमदवासितम् । हरिचन्दनं
गन्धद्रव्यविशेषः सुरभीणि सुगन्धीनि । वस्तुजातं द्रव्यसमूहम् । समर्प्य दत्त्वा ।
हासवचनैः हास्ययुक्तवाक्यैः । संलपन् आलापं कुर्वन् ।
चलती हुई बालचन्द्रिका सहित मुझे भीतर ले गया । मुख्य फाटकपर व्याकुल नागरिकोंकी
भीड़ एकत्र थी—यह ज्ञात करनेके लिए प्रेत क्या करता है ?
( २३ ) विवेक शून्यमतिवाले दारुवर्माने मैथुनकी प्रबलेच्छासे उस बालचन्द्रिकाको मणि-
योंसे जड़ित एक सुवर्णके पलंगपर बिठाया । जिसपर हंसके पंखोंके भरे गद्दे बिछे थे । पुनः
रातमें मुझे ( मैं पुरुष हूँ ऐसा न पहचानकर ) और मेरी सखीको अर्थात्-मनोहर दोनों
रमणियोंको अनेक प्रकारके आभूषण, महीन कपड़े, कस्तूरीमिश्रित चन्दन, कर्पूरसे
सुवासित ताम्बूल ( पान ), सुगन्धित पुष्प तथा इत्र आदि पदार्थ भेट किये । फिर दो घड़ी
तक हास-परिहास करते वहींपर बैठा रहा ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu