सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 42, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 42

[Page Header]
४२ दशकुमारचरितम् । [ पूर्वपीठिकायां

[Main Text]
क्रम्य विन्ध्याटवीमध्यमविशत् । तत्र हेतिहतिकिणाङ्कं कालायसकर्कश-
कायं यज्ञोपवीतेनानुमेयविप्रभावं व्यक्तकिरातप्रभावं लोचनपरुषं कमपि
पुरुषं ददर्श ।
(५) तेन विहितपूजनो राजवाहनोऽभाषत - 'ननु मानव, जनस-
ङ्गरहिते मृगरहिते घोरप्रचारे कान्तारे विन्ध्याटवीमध्ये भवानेकाकी किमिति
निवसति । भवदं सोपनीतं यज्ञोपवीतं भूसुरभावं द्योतयति । हेतिहतिभिः
किरातरीतिरनुमीयते । कथय किमेतत्' इति ।
(६) 'तेजोमयोऽयं मानुषमात्रपौरुषो नूनं न भवति' इति मत्वा स पुरुष-

[Sanskrit Commentary]
व्याम् । हेतीनामस्त्राणां हतिभिः प्रहारैर्यै किणाः शुष्कव्रणास्तेषामङ्काश्चिह्नानि य-
स्मिन् तम् । कालायसं लोहमिव कर्कशः कठोरः कायो देहो यस्य तम् । यज्ञोपवीतेन
यज्ञसूत्रेण । अनुमेयोऽनुमातुं योग्यो विप्रभावो द्विजत्वं यस्य तम् । व्यक्तः प्रकटितः
किरातप्रभावो वनचरसामर्थ्यं येन तम् । यज्ञसूत्रेण ब्राह्मणोऽसावित्यनुमीयते,
स्वरूपादिना तु किरातोऽयमिति स्पष्टं ज्ञायत इति भावः । लोचनयोर्नेत्रयोः परुषं
कर्कशं भीषणदर्शनमित्यर्थः ।
(५) तेन किरातवेषधारिणा पुरुषेण । विहितपूजनः कृतसत्कारः । जनसङ्ग-
रहिते । मनुष्यसम्पर्कशून्ये । मृगहिते पशूनामेव हितकरे । घोरो भयजनकः प्रचारः
सञ्चारो यस्मिंस्तस्मिन् । किमिति किमर्थम् । भवतस्तव अंसं स्कन्धदेशमुपनीतं
प्राप्तम् । भूसुरभावं विप्रभावम् । द्योतयति सूचयति । हेतिहतिभिः शस्त्राघातचिह्नः ।
किरातरीतिः । वनचरव्यवहारः । अनुमीयते तर्क्यते ।
(६) तेजोमयः प्राचुर्ये मयट् तेन तेजःपुञ्जशरीर इत्यर्थः । अयमिति राजवाह-

[Hindi Commentary]
विन्ध्याटवीमें प्रविष्ट हो गया । वहाँपर उसने एक भयंकर नेत्रवाले मनुष्यको देखा-जो
जनेऊ धारण करनेसे तो ब्राह्मण ज्ञात होता था किन्तु, उसके शरीरपर अनेक आयुधोंके
आघातों के व्रण थे । उसका शरीर लोहेके समान कर्कश तथा काला दिखाई देता था । उसे
देखनेसे ऐसा प्रतीत होता था जैसे कोई किरात हो ।
(५) उस मनुष्यने कुमार राजवाहनका स्वागत-सत्कार किया । सत्कारके अनन्तर
राजवाहनने पूछा- हे मानव ! मनुष्योंसे विहीन इस विन्ध्याटवीके गहन वनमें क्यों आप
निवास कर रहे हैं ? यह वन तो हिरणोंके हितके लिए तथा हिंसक जानवरोंके विचरणयोग्य
है । आपके कन्धेपर धारण किया हुआ यज्ञोपवीत 'आप ब्राह्मण' हैं ऐसा सूचित कर रहा है
किन्तु, देहमें लगे शस्त्रास्त्रके घावोंसे आप किरातोंके समान आचरण करनेवाले हैं ऐसा
प्रतीत हो रहा है । बतलावें इसका क्या कारण है ?
(६) इस तेजःपुञ्जाकृतिवाले मनुष्यकी शक्ति साधारण पुरुषोंके समान नहीं है अतः