दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 241, कुल 474 में से
संदर्भ में पढ़ेंतृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २४१
ष्बज्य नातिविशदमचुम्बिषम् । अश्रुमुखी तु सा 'यदि प्रयासि नाथ,
प्रयातमेव मे जीवितं गणय । नय मामपि। न चेदसौ दासजनो निष्प्रयो-
जनः' इत्यञ्जलिमवतंसतामनैषीत् ।
( २४ ) अवादिषं च ताम्—'अयि मुग्धे, कः सचेतनः स्त्रियमभि-
कामयमानां नाभिनन्दति । यदि मदनुग्रहनिश्चलस्तवाभिसन्धिराचरावि-
चारं मदुपदिष्टम् । आदर्शय रहसि-राज्ञे मत्सादृश्यगर्भं चित्रपटम् ।
आचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वा' इति ।
'बाढमारूढा' इति नूनमसौ वक्ष्यति । ब्रूहि भूयः—'यद्येवम्, अस्ति कापि
ष्म् । अचुम्बिषम् चुम्बितवान् । अश्रुमुखी-सवाष्पा-सा-कल्पसुन्दरी । प्रयातमेव-
गतमेव । गणय जानीहि । तव गमनेन ममापि प्राणा बहिर्गमिष्यन्तीति भावः ।
असौ दासजनः अहमित्यर्थः । निष्प्रयोजनः निरर्थकः । अवतंसतां शिरोभूषणताम् ।
मस्तके अञ्जलिमवध्नादित्यर्थः ।
( २४ ) तां कल्पसुन्दरीम् । सचेतनः-चेतनावान् पुरुषः । अभिकामयमा-
नाम्-अभिलषन्तीम् । अभिनन्दति स्तौति आकाङ्क्षतीत्यर्थः । मदनुग्रहनिश्चलः
मदनुग्रहे मामनुग्रहीतुं निश्चलः स्थिरः । अभिसन्धिरभिप्रायः । आचर-कुरु ।
अविचारं विना विचारेण । मदुपदिष्टं मदुक्तम् । आदर्शय-संदर्शय । राज्ञे-विक-
टवर्मणे । मत्सादृश्यगर्भं-मत्सदृशरूपवन्तम् । इयं-चित्रपटस्थिता । पुरुषसौन्द-
र्यस्य पुरुषे यत्सौन्दर्यं सम्भवति तस्य । पारं-पराकाष्ठाम् । आरूढा-प्राप्ता ।
बाढं-निश्चयेन । असौ-विकटवर्मा । यद्येवं-इयमाकृतिः सौन्दर्यस्य परां काष्ठां
आप यह भी समझिये कि आपके जानेके साथ ही मेरे प्राण भी चले जायेंगे । मुझे भी
अपने साथ ही लेते चलिये । नहीं तो इस दासी कल्पसुन्दरीको निष्प्रयोजन ( मृत )
ही समझियेगा' । ऐसा कह कर उस कल्पसुन्दरीने अपनी अञ्जलिको अपना शिरोभूषण
बना लिया ।
( २४ ) मैने उस कल्पसुन्दरीसे कहा—'हे मुग्धे ! कौन-सा ऐसा चेतनावान् पुरुष
होगा जो अपने ऊपर अनुराग करनेवाली रमणीकी आकांक्षा न करेगा । यदि मेरे
विषयमें आपका अनुग्रह स्थिर है एवं आपके अभिप्राय दृढ हैं तो आप शंका त्याग
करके मेरे कथनानुसार आचरण करें । एकान्तमें आप राजाको, मेरे समानरूपवाले इस
मेरे चित्रको दिखावें । और उस राजासे कहें क्या इस चित्रगत पुरुषके सौन्दर्यने अन्य
पुरुषोंके सौन्दर्यको नहीं पार कर लिया है ? ऐसा पूछे जानेपर वह राजा अवश्य ही
कहेगा कि अवश्य ही इस आकृतिने सौन्दर्यका अतिक्रमण किया है । तब आप उस
Nepal Sanskrit University, Balmeeki Campus, Kathmandu