सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 234, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 234

२३४ दशकुमारचरितम्। [ उत्तरपीठिकायां

न्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठम् । अथोपखातं मा-
तृगृहद्वारे पुष्करिकया प्रथमसंनिधापिनां वेणुयष्टिमादाय तया शायितया
च परिखाम् , स्थापयितया च प्राकारभित्तिलङ्घयम् । अधिरुह्य पक्वेष्टकचि-
तेन गोपुरोपरितलाधिरोहिणा सोपानपथेन भुवमवातरम् । अवतीर्णश्च
बकुलवीथीमतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं
चक्रवाकमिथुनरवमशृणवम् ।
( १६ ) पुनरुदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण

प्रकृतः योग्योभिसारस्येति शेषः । उपस्करः साधनं येन सः । साधनं स्यादुपस्करे
इति कोषः । मातृदत्तानि-वृद्धया धात्र्या दत्तानि । अभिज्ञानानि-कल्पसुन्दरीगृहस्य
चिह्नानि । राजमन्दिरपरिखां-नृपभवनस्य समन्ततोऽवस्थितं खातम् । उदम्भसं
जलपूर्णाम् । उपातिष्ठं सन्निहितोऽभवमहमिति शेषः । उपखातं परिखासमीपे ।
मातृगृहद्वारे पूर्वोक्तायाः वृद्धाया गृहद्वारे । प्रथमसन्निधापितां पूर्वमेव स्थापिताम् ।
वेणुयष्टिं-वंशदण्डम् । आदाय गृहीत्वा । तया-वेणुयष्ट्या । शायितया-खात-
स्योभयकूले स्थापिताया । परिखाम् अलङ्घनमिति शेषः । स्थापयितया-ऊर्ध्वी-
कृतया । वेणुयष्ट्येति शेषः । प्रकारभित्तिम् प्राचीरकुड्यम् । अधिरुह्य-आरुह्य ।
पक्वेष्टचितेन-पक्काभिर्भर्जिताभिरिष्टकाभिश्चितेन न्यासेन । गोपुरेति-गोपुरस्य-
पुरद्वारस्य उपरितलमूर्ध्वभागमधिरोहतीति तेन विशेषणद्वयं सोपानपथेनेत्यस्य ।
सोपानपथेन-सोपानमार्गेण । अवातरम् अवतीर्णवान् । वकुलवीथीं बकुलवृक्ष-
श्रेणीम् । चम्पकावलिवर्त्मना-चम्पकवृक्षश्रेणीपरिवृतमार्गेण । मनागिव ईषदू-
रम् । उपसृत्य-गत्वा । उत्तराहि-उत्तरस्यां दिशि । अन्वयमेतत्-उत्तरशब्दादाहि-
प्रत्ययः करुणं दैन्यपूर्णम् । चक्रवाकमिथुनरव-कोकद्वन्द्वकूजितम् ।
( १९ ) उदीचा-उत्तरदिग्गामिना । पाटलिपथेन-पाटलातरुराजिमार्गेण ।

करता हुआ मैं राजमन्दिरकी जलसे परिपूर्ण परिखाओके समीप पहुँच गया । वहाँ परिखा
( खाई ) के पास पहुँचनेपर मैंने मातृगृहद्वारमें पहिलेसे ही पुष्करिकाके द्वारा धरी हुई
बाँसकी छड़ी ले ली तथा उस छड़ीको बेड़ी करके ( सुला करके ) खाई पार कर ली ।
तदनन्तर उसी छड़ीको खड़ी करके चहारदीवारी ( प्राचीर ) की दीवाल पार कर ली ।
ऊपर चढ़ करके पक्के ईंटोंसे बनी हुई नगरफाटकके ऊपरकी सीढ़ियोंसे पृथ्वीपर आ
गया । फिर बकुलके वृक्षोंकी कतारोंको लांघ करके, चम्पकोंके वृक्षोंसे परिवृत मार्गसे कुछ
दूर होकर उत्तर दिशाकी ओर जा मैंने चक्रवाक दम्पतीके दयनीय शब्दोंको सुना ।
पुनः उत्तर दिशामें पाटलके तरुओंकी श्रेणियोंकी स्पर्शप्राप्तिसे जिस राजभवनकी विशाल