दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 217, कुल 474 में से
संदर्भ में पढ़ेंतृतीयोच्छ्वासः ] [११७
मस्य देव्याः प्रियंवदायाश्चादहाव । स च राजा दिष्टदोषाज्ज्येष्ठभ्रातृ-
पुत्रैश्चिरं विगृह्य पुनरसहिष्णुतायातिमात्रं चिरं प्रयुध्य बद्धः । देवी च
बन्धनं गमिता । दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती
हातुं प्रव्रज्यां किलाग्रहीषम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहा-
देवीं कल्पसुन्दरीं किला शिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्ये-
ताम् , इयता कालेन तवेमां वयोवस्थामसप्रक्ष्येताम् । तयोश्च सतोर्न दा-
यादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः' इति प्रमन्युरभिरुरोद ।
( ६ ) श्रुत्वा च तापसीगिरमहमाप प्रवृद्धबाष्पो निगूढमभ्यधाम्—
अस्य भर्तुः प्रहारवर्मणः । श्रोत्रं श्रवणेन्द्रियं कर्णौ वा । अदहाव अप्रियवृत्तान्त-
कथनेन कर्णयोर्महतीं पीडामजनयाव आवामिति शेषः । दिष्टदोषात् भाग्यदोषात् ।
विगृह्य विग्रहं कृत्वा विरोध्येति यावत् । अतिमात्रम् अत्यर्थम् । चिरं दीर्घकालं
यावत् । देवी प्रियंवदा । गमिता प्रापिता । दग्धा हतभाग्या । हतजीवितं व्यर्थ-
जीवनम् । हातुं त्यक्तुम् । प्रव्रज्यां संन्यासम् । विकटवर्मणः प्रहारवर्मज्येष्ठभ्रातृ-
पुत्रस्य महादेवीं पट्टमहिषीम् । अशिश्रियत् जीविकार्थमाश्रितवती । निरुपद्रवौ
निर्विघ्नौ । अवर्धिष्येताम् । वर्द्धितौ अभविष्यताम् । इयता कालेन एतावद्भि-
र्दिवसैः, साम्प्रतमिति यावत् । वयोऽवस्थां त्वत्सदृशं वयः । असप्रक्ष्येतां स्पृष्टौ
भविष्यतः । लृङि रूपद्वयम् । सतोः वर्तमानयोः । जीवतोरिति भावः । दायादाः
भ्रातृपुत्रादयः । प्रसह्यकारिणो बलात्कारेण राज्यापहारिणः । प्रमन्युः प्रवृद्धशोकः ।
( ६ ) प्रवृद्धवाष्पः रुदन्नित्यर्थः । निगूढं सुगुप्तम् । समाश्वसिहि आश्वस्ता
पहुँचीं। वहाँ पर देवी प्रियंवदासे तथा राजासे पुत्रके वृत्तान्तो को कह करके उन दोनोंके
कानोंको पीड़ायें दी—क्योंकि अप्रिय कथनसे पीड़ा ही होती है । राजा प्रहारवर्मा
भी भाग्यके दोषसे दीर्घकालतक ज्येष्ठ भ्राताके पुत्रोंके साथ युद्ध करके न जीते। फिर
उन सबका अपकार न सह करके विकट युद्ध करनेसे स्वयं ही पकड़ लिये गये। रानी
भी पकड़ ली गयीं। हतभागिनी मैं इस वृद्धापनमें भी अपने जीवनको नष्ट करनेमें
असमर्थ होकर संन्यासधारिणी हो गयी । मेरी पुत्री भी व्यर्थ जीवनके आकर्षण से
विकटवर्मा ( प्रहारवर्माके ज्येष्ठ भाईका पुत्र) की पटरानी महादेवी कल्पसुन्दरीके
आश्रयमें पड़ी है। यदि वे दोनों राजकुमार निर्विघ्नतापूर्वक पाल करके बढ़ाये जाते तो
इस समय तक वे आपकी अवस्थाके हुए होते । और उन दोनोंके होनेसे, राजा प्रहार-
वर्माका कोई दायाद ( पट्टीदार ) बलात्कारसे राज्यापहरणकारी न रह पाता।' ऐसा कह-
कर वह वृद्धा घोर सन्तापसे जोर-जोरसे रोने लगी ।
( ६ ) इस वृत्तान्तको उस वृद्धा तापसीके मुखसे सुनकर मैंने गुप्तरीतिसे अपनी