सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 208, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 208

२१० दशकुमारचरितम् । [ उत्तरपीठिकायां
ठमेव संभूय पौरवृद्धैस्तदुपार्वतय । उपावृत्तश्च कृत्तशिरसमेव शत्रुं द्रक्ष्य-
सि' इति ।
( ७३ ) 'तथा' इति तेनाभ्युपगते गतायुषोऽमुष्य भवनमुत्सवाकुल-
मुपसमाधीयमानपरिणयोपकरणमितस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाध-
मलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बालिकापाणिपल्लवमग्नी सा-
क्षिण्याथर्वणेन विधिनाऽर्प्यमाणमादित्समानस्यायामिनं बाहुदण्डमाकृष्य-
च्छुरिकयोरसि प्राहार्षम् । स्फुरतश्च कतिपयानन्यानपि यमविषयमगम-
राज्ञा तत् कृतमतो भवन्तः प्रतिगच्छन्तु इति भावः । उपावृत्तः परावृत्तस्त्वमिति
शेषः । कृत्तशिरसं छिन्नमस्तकम् । शत्रुं चण्डवर्माणम् ।
( ७३ ) तेन धनमित्रेण । अभ्युपगते स्वीकृते । गतायुषः स्वल्पायुषः।
अमुष्य चण्डवर्मणः । उत्सवाकुलं उत्सवपूर्णम् । उपसमाधीयेति-उपसमाधीयमा-
नानि सम्पाद्यमानानि परिणयोपकरणानि विवाहोचितद्रव्यजातानि यत्र तत् । इत-
स्ततः समन्तात् । प्रवेशेति-प्रवेशनिर्गमेषु गमनागमनेषु प्रवृत्तैर्व्याप्तैर्लोकैर्जनैः
संबाधं संकटम् । विशेषणद्वयमिदं भवनस्य । अलक्ष्यशस्त्रिकः अलक्ष्याऽऽदृश्या
शस्त्रिका छुरिका यस्य सः गुप्तशस्त्र इत्यर्थः । मङ्गलपाठकैः स्तुतिपाठकैर्ब्राह्मणैः।
अग्नौ साक्षिणि सति-अग्निसाक्षिकम् । आथर्वणेन अथर्ववेदोपदिष्टेन पुरोधसा
वा । विधिना अनुष्ठानेन । पुरोधसेति पक्षे विधिपूर्वकम् । अर्प्यमाणं सम्प्रदीय-
यमानम् अम्बालिकापाणिपल्लवमित्यस्य विशेषणम् । आदित्समानस्य ग्रहीतु-
मिच्छतः । चण्डवर्मण इति शेषः । आयामिनं दीर्घं प्रसारितमिति यावत् । प्रा-
हार्ष प्रहृतवानहमिति शेषः । स्फुरतः चण्डवर्मविनाशजनितकोपेन ज्वलतः।
राजोंसे गुप्तरीतिसे मिल करके उन्हें रोक दो। और समझा दो। वे लोग थोड़ी देरमें आवें
तो शत्रुको कटे हुए शिरमें पायेंगे ।
( ७३ ) धनमित्रके द्वारा 'तथा' (ठीक उसी प्रकारसे करूंगा) ऐसी स्वीकृति पाकर
मैं (अपहारवर्मा) स्वल्पायुष्वान् चण्डवर्माके अन्तःपुरमें चला गया। वहां देखा कि,
राजभवन विवाहोचित अनेकों वस्तुओंसे परिपूर्ण है। इधर-उधर लोगोंके गमनागमनसे
प्रवेशमार्गपर बड़ी कठिनता प्रतीत हो रही है। मैं भी गुप्त छुरीके सहित मंगलाचरण
करनेवाले ब्राह्मणोंके झुण्डके साथ उस राजभवनमें चला गया । वहां प्रवेश करके मैंने देखा
कि, अम्बालिका कुमारीके कोमलकरोंको अथर्ववेदकी रीतिसे अग्नि देवताके सम्मुख साक्षी-