दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 186, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
१८८ दशकुमारचरितम् । [ उत्तरपीठिकायां
ममामुष्या वैरानूबन्धेन' इति तद् ब्रुवन्निव कर्णे एवैनामशिक्षयम्-' एव-
मेवं प्रतिपत्तव्यम्' इति । सा तु प्रतिपन्नार्थेव जीव चिरम् , प्रसीदन्तु ते
देवताः, देवोऽप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वाम् , एतेऽपि भद्रमुखा-
स्तव दयन्ताम् , इति क्षणादपासरत् । आनीये चाहमारक्षिकनायकस्य
शासनाच्चारकम् ।
( ५५ ) अथोत्तरेद्युरागत्य दृष्टतरः सुभगमानी सुन्दरंमन्यः पितुरत्य-
यादचिराधिष्ठिताधिकारस्तारुण्यमदादनतिपक्वः कान्तको नाम नागरिकः
मानमिदमव्ययम् । मृत्युहस्तवर्त्तिनः यमहस्तगतस्य । अमुष्या रागमञ्जर्याः।
वैरानूबन्धेन-शत्रुताचरणेन । एनां शृगालिकाम् । प्रतिपत्तव्यम्-विधातव्यम्।
सा शृगालिका । प्रतिपन्नार्था गृहीतार्था यत्तेनोक्तं तत् सर्वं तया बुद्धमिति भङ्ग्या
प्रकाशयन्तीत्यर्थः । पौरुषप्रीतः तव पुरुषकारेण सन्तुष्टः । एते नगररक्षकाः।
दयन्तां कृपां कुर्वन्तु-रक्षन्तु इति यावत् । अपासरत् अपसृताऽभवत् । आनीये-
आनीतः । आरक्षिकनायकस्य नगरपालाध्यक्षस्य । शासनादादेशात् । चारकं
कारागृहम् ।
( ५५ ) उत्तरेद्युः परदिने । दृप्ततरः अतिगर्वितः । सुभगमानी-आत्मानं
सुभगं मन्यतेऽसौ । सुन्दरम्मन्यः सौन्दर्याभिमानी । पितुरत्ययात् पितृमरणात्।
अचिरेति-अचिरेण स्वल्पकालेन अधिष्ठितः प्राप्तः अधिकारो येन सः । तारुण्य-
( अपहारवर्मा ) तो, अधुना, यमराजके हाथोंमें पड़ा हूं ! अब मुझे रागमञ्जरीसे शत्रुताका
आचरण करनेसे क्या लाभ ?' ऐसा कहते हुए मैंने उस दासीके कानोंमें शिक्षा दी। कि-
'इस प्रकारसे उपाय करो।' वह शृगालिका सब बातोंको ग्रहण करके ( मुझे आशीर्वचन
देने लगी ) आप दीर्घायु हों ! आपपर देवतागण प्रसन्न हों । अंगराज नृपति भी आपके
पौरुषसे सन्तुष्ट होकर आपको छोड़ दें । ये भद्र पुरुषगण ( नगररक्षकगण ) आपपर दया
करें।' ऐसा कह करके वह एक क्षणमें ही चली गयी । मैं ( अपहारवर्मा ) नगरपालाध्यक्षकी
आज्ञासे कारागारमें लाया गया ।
( ५५ ) इसके अनन्तर दूसरे दिन, अत्यन्त गर्वित अपनेको सुभग माननेवाला
सौन्दर्याभिमानी कान्तक नामक काराध्यक्ष जो अपने पिताकी मृत्युके कारण थोड़े ही दिनोंते
उस स्थानपर आरूढ़ हुआ था । जिसे यौवनगर्वके हेतुसे युक्त अधिकारमें स्वायत्त
अधिकारकी परिपक्वतामयी जानकारी भी न थी । उसने तिरस्कार करके मुझसे
Nepal Sanskrit University, Balmeeki Campus, Kathmandu