सामग्री पर जाएँ
सर्वकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 133, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 133

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३५

म्थापनम् , स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोऽर्थ-
शक्तिशौचत्यागदाक्ष्यदाक्षिण्यशिल्पशीलमाधुर्योपपन्नाय स्वतन्त्राय प्रदा-
नम् , अधिकगुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणम् ,
अस्वन्त्रेण वा गान्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहरणम् , अलाभे-
ऽर्थस्य कामस्वीकृते स्वामिन्यधिकरणे वा साधनम् , रक्तस्य दुहित्रेकचा-
रिणीव्रतानुष्ठापनम् , नित्यनैमित्तिकप्रीतिदायकतया हतशिष्टानां गम्यध-
नानां चित्रैरुपायैरपहरणम् , अददता लुब्धप्रायेण च विगृह्यासनम् ,
प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्यागशक्तिसंधुक्षणम् , असारस्य

मयास्य सकाशाद् बहुधनं गृहीतमिति प्रख्याप्येत्यर्थः । अस्वन्त्रेण पराधीनेन,
यस्तु युवा पित्राद्यधीनस्तेन सहेत्यर्थः । गान्धर्वसमागमेन गान्धर्वविवाहेन तद्-
गुरुभ्यः तस्य यूनः पित्रादेः सकाशात् । अयं ते पुत्रो गान्धर्वेण विधिना मद्दुहि-
तरं परिणीतवानिति कथयित्वेति भावः । शुल्कापहरणं धनग्रहणम् । अलाभेऽ-
प्राप्तौ । कामस्वीकृते कामेन वशीकृते । विषये सप्तमी । स्वामिनि तत्पित्रादेः
समीपे । अधिकरणे व्यवहारालये । साधनम् अभियोगकरणम् । रक्तस्य अनुर-
क्तस्य पुरुषस्य सम्बन्धे । दुहित्रेति-दुहित्रा स्वकन्यया एकचारिणीव्रतस्य एक
पुरुषासक्तिरूपस्य व्रतस्यानुष्ठापनं प्रवर्त्तनम् । नित्येति-गणिका खलु नित्येन
नैमित्तिकेन च विधिना प्रीतिदायिका भवति तेन हेतुना हतशिष्टानां हतेभ्यो गृही-
तेभ्यो धनेभ्यः । शिष्टानमवशिष्टानाम् । गम्यधनानां विटजनद्रव्याणाम् । गम्यो
विटः पाह्नविको भुजङ्ग इति आगुरिः । चित्रैर्नानांविधैः । अददता अर्थमिति
शेषः । लुब्धप्रायेण प्रायशो लोलुपेन विगृह्य विरोधय । विग्रहं कारयित्वेत्यर्थः ।
आसनमवस्थानम् । असनमिति पाठे क्षेपणं नायकस्य तिरस्कार इत्यर्थः । प्रति-
हस्तिना प्रतिद्वन्द्विना प्रतिवासिना वा यत्प्रोत्साहनमुद्दीपनं तेन । प्रतिहस्ती प्राति-

यदि धन न मिल सके और कन्या आप प्रेमीको अङ्गीकार कर ले तो प्रेमीके बड़े बूढ़ों तथा
अधिकारियों-( अफसरों- ) के पास नालिश करके कार्य साधन करे । प्रेमीके प्रति
अपनी कन्याद्वारा पातिव्रत धर्म पालन करावे । प्रेमीसे नित्य-नैमित्तिक रूपमें आये
हुए धनसे अवशिष्ट धनको तरह-तरहके कौशलसे खींचें । यदि प्रेमी लोभवश धन न
दे तो उसे लड़ करके अलग कर दे । कन्याके प्रेमीके पड़ोसियों में ऐसा भाव भर दे कि,
जिससे वे प्रेमीकी त्यागशक्तिको प्रोत्साहित करें । जब प्रेमीके पास कुछ न रहे तो,
जली-कटी बातोंको कह करके कोसे । अपनी कन्याको उससे न मिलने दे । लज्जा उत्पन्न
करनेवाली बातें कह-कह करके उसपर नाना प्रकारके अभियोग लगावे और अन्तमें

Nepal Sanskrit University, Balmeeki Campus, Kathmandu