दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 123, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२५
विष्टरत्ननखः पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमि-
षुवर्षेणाभिवर्षन्पादाङ्गुष्ठनिष्ठुरावघृष्टमूलेन प्रजविना गजेन संनिकृष्य पूर्वो-
पदेशप्रत्ययाद् 'अयमेव स देवराजवाहनः' इति प्राञ्जलिः प्रणम्यापहा-
रवर्मणि निविष्टदृष्टिराचष्ट—'त्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराज-
साहाय्यदानायोपस्थितं राजकम् । अरिबलं च विहितविध्वस्तं स्त्रीबालहा-
र्यशस्त्रं वर्तते । किमन्यत्कृत्यम्' इति ।
( २४ ) दृष्टस्तु व्याजहारापहारवर्मा—'देव, दृष्टिदानेनानुगृह्यतामय-
र्णविश्रान्ते, दुग्धवत् क्षीरवद्धवले शुभ्रे, स्निग्धे नीले नीलवर्णे लोचने नयने यस्यासौ ।
कटितटे कटिदेशे निविष्टो रत्ननखः रत्नयुक्तच्छुरिका यस्य सः । पट्टं दुकूलं निव-
सनं वासो यस्य सः । कृशं चाकृशं चेति कृशाकृशे उदरं च उरःस्थलं चेति उद-
रोरःस्थले यस्येति विग्रहः । कृशोदरः, अकृशोरःस्थलश्चेत्यर्थः । एतत्सर्वं कश्चि-
दित्यस्य विशेषणम् । कृतहस्ततया शिक्षिततया । इषुवर्षेण बाणवृष्ट्या । पादा-
ङ्गुष्ठाभ्यां निष्ठुरमतिकर्कशं यथा तथा अवघृष्टं घर्षितं कर्णमूलं यस्य तेन । प्रजविना
वेगवता । द्वे गजेनेत्यस्य विशेषणे । संनिकृष्य समीपमागत्य । पूर्वोपदेशप्रत्ययात्
प्रागुक्तपरिचयज्ञानात् । निविष्टदृष्टिर्दत्तनेत्रः । आचष्ट अकथयत् । त्वया अपहार-
वर्मणेत्यर्थः, आदिष्टेन कथितेन । मार्गेण पथा । संनिपातितम् आनीतम् । राजकं
राजसमूहः । विहितविध्वस्तं कृतध्वंसम् । स्त्रीभिर्बालैश्च हार्यं धार्यं शस्त्रं यत्र तत् ।
स्त्रियो बालाश्च अवशिष्टा अन्ये सर्वे मृता इति भावः । कृत्यं करणीयम् ।
( २४ ) व्याजहार उवाच । आज्ञाकरः सेवकः । सोऽपि धनमित्रोऽपीत्यर्थः ।
और भव्य थीं । उसकी कमरमें मणिमण्डित वघनखा लटक रहा था । वस्त्र उसके सभी
रेशमी थे । उसका उदर भाग कृश तथा वक्षःस्थल चौड़ा था । अपने फुर्तीले हाथोंसे वह
शत्रुओं पर लगातार बाण-वृष्टि कर रहा था । अपने पैरके अंगूठेको निर्दयताके साथ दबाते
हुए एवं अपने हाथीको शीघ्रताके साथ चलाकर वह बातकी बातमें राजवाहनके सामने
आकर खड़ा हो गया तथा पूर्वपरिचयानुसार परिचित होकर बोला- 'ये ही हमारे स्वामी
राजवाहन हैं।' इसके पश्चात् उसने हाथ जोड़कर प्रणाम किया तथा उनकी ओर आदरपूर्ण
दृष्टि डालकर देखते हुए कहा-'मै आपके बताये मार्गसे अंगराजकी सहायताके लिए
राजाओं की यह विस्तीर्ण सेना लेकर आ गया हूँ । देखिये, इस सैन्यने शत्रु की सेना छिन्न-
भिन्न कर दी । अब वे इतने शिथिल पड़ गये हैं कि छोटे-छोटे बालक तथा स्त्रियां भी उनके
अस्त्र-शस्त्र छीन सकती हैं । इतना कार्य तो मैं कर चुका हूँ-अब क्या कार्य करना है?'
( २४ ) अपहारवर्मा उसे देखकर प्रसन्न होकर बोला-'स्वामिन् ! इस आज्ञाकारी