सामग्री पर जाएँ
सर्वकोश
चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

Charaka Samhita Part 2 with Hindi Translation

महर्षि चरक व दृढ़बल द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 225, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 225

पा० २ ] चिकित्सितस्थानम् २११
( द्वितीयः पादः )
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः ॥ १ ॥
इति ह स्माऽऽह भगवानात्रेयः ॥ २ ॥
अब हम 'प्राण कामीय' नामक-रसायन पाद की व्याख्या करते हैं। भगवान्
आत्रेय ने ऐसा उपदेश किया है ॥ १-२ ॥
प्राणकामाः शुश्रूषध्वमिदमुच्यमानममृतमिवाऽपरमदितिसुतहित-
करमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रा-तन्द्रा-
श्रम क्लमालस्य-दौर्बल्यापहरमनिल-कफ-पित्त-साम्य-करं स्थैर्यकरमवृद्ध-
मांसहरमन्तरग्निसंधुक्षणं प्रभा-वर्ण-स्वरोत्तमकरं रसायनविधानम् ।
अनेन च्यवनादयो महर्षयः पुनर्मुवत्वमापुर्नारीणां चेष्टतमा बभूवुः ।
स्थिर-सम-सुविभक्त मांसाः सुसंहतस्थिरशरीराः सुप्रसन्न-बल-वर्ण न्द्रियाः
सर्वत्राप्रतिहतपराक्रमा सर्वक्लेशसहाश्च । सर्वे शरीरदोषा भवन्ति
ग्राम्याहारादम्ल-लवण-कटुक-क्षार-शुष्क-शाक-माष १ तिल-पलल-पिष्टान्न-
भोजिना विरूढ-नव-शूक-शमी धान्य-विरुद्धासात्म्य-रूक्ष- क्षाराभिष्य-
न्दिभोजिनां क्लिन्न-गुरू-पूति-पर्युषित भोजिना विषमाशनाध्यशनप्रि-
याणां २ दिवास्वप्न-स्त्री-मद्य-नित्यानां विषमातिमात्र-व्यायाम-संक्षोभित-
शरीराणां भय-क्रोध-शोक लोभ मोहायास-बहुलानाम् । अतो निमित्तं
हि शिथिली-भवन्ति मांसानि, विमुच्यन्ते सन्धयो- विदह्यते रक्तं,
विष्यन्दते चानल्पं मेदो, न सन्धीयतेऽस्थिषु मज्जा, शुक्रं न प्रवर्तते,
क्षयमुपैत्योजः। स एवभूतो ग्लायति, सीदति, निद्रा-तन्द्रातस्य-समन्वि-
तोऽनारतमाशु चेव निरुत्साहः श्वसिति, असमर्थश्चेष्टाना शारीरमान-
साना, नष्ट-स्मृति-बुद्धि-च्छायो रोगाणामधिष्ठानभूतो न सर्वमायुर-
वाप्नोति । तस्मादेतान्दोषानवेक्षमाणः सर्वान्यथोक्तान्हितानपास्याऽऽ-
हारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरा-
त्रेय उवाच—॥ ३ ॥
आमलकाना सुभूमिजाना कालजानामनुपहत-गन्ध-वर्ण-रसाना-
मापर्ण-रस-प्रमाण-वीर्याणा स्वरसेन पुनर्नवा-कल्क-संप्रयुक्तेन सर्पिष
साधयेदाढकं अतः परं विदारीस्वरसेन जीवन्ती-कल्क-सप्रयुक्तेन, अत·
परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरी-कल्क-संप्रयुक्तेन ।
अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्करा-क्षौद्र-चतुर्भागसंप्रयुक्तं
१. 'मास' इति च पाठः । २ "प्रायाणा' इति च पाठः ।