सामग्री पर जाएँ
सर्वकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 354, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 354

ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ॥ ८९ ॥
कालशाकं तु कटुकं दीपनं गरशोफजित् ।
लघूष्णं वातलं रूक्षं कालीयं शाकमुच्यते ॥ ९० ॥
दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते ।
प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा ॥ ९१ ॥
मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धिनी ।
वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका ॥ ९२ ॥
रूक्षो महाविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् ।
मधुरोऽमधुरः पाके शीतलस्तण्डुलीयकः ॥ ९३ ॥
मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् ।
कर्कोटकावल्गुजकौ पटोलं शकुलादनी ॥ ९४ ॥
वृषपुष्पाणि शार्ङ्गेष्टा केबूकं सकठिल्लकम् ।
नाडीं कलायं गोजिह्वा वार्त्ताकं तिलपर्णिका ॥ ९५ ॥
कुलकं कर्कशं निम्बं शाकं पार्पटकं च यत् ।
कफपित्तहरं तिक्तं शीतं कटु विपच्यते ॥ ९६ ॥
सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः ।
आलुकानि च सर्वाणि सपत्राणि कुटिञ्जरम् ॥ ९७ ॥
शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला ।
निष्पावः कोविदारश्च पत्तूरश्चुचुपर्णिका ॥ ६७ ॥
कुमारजीवो लोट्टाकः पालङ्क्या मारिषस्तथा ।
कलम्बनालिकासूयः कुसुम्ववृकधूमकौ ॥ ९९ ॥
लक्ष्मणा प्रपुन्नाडं च नलिनीका कुठेरकः ।
लोणिका यवशाकं च कुष्माण्डकमवल्गुजम् ॥ १०० ॥
यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका ।
शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति ॥ १०१ ॥
मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् ।
स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत्प्रशस्यते ॥ १०२ ॥
शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः ।
पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः ॥ १०३ ॥
न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-पद्मादि-पल्लवाः ।
कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् ॥