सामग्री पर जाएँ
सर्वकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 350, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 350

३३२ चरकसंहिता [ अ० २७
सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ॥ ६३ ॥
केषांचिद् गुणवैशेष्याद्विशेष उपदेक्ष्यते ।
दर्शन-श्रोत्र-मेधाग्नि-वयो-वर्ण-स्वरायुषाम् ॥ ६४ ॥
बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः ।
गुरूष्ण-स्निग्ध-मधुराः स्वर-वर्ण-बल-प्रदाः ॥ ६५ ॥
बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ।
स्निग्धाश्चोष्णाश्च वृष्या श्च बृंहणाः स्वरबोधनाः ॥ ६६ ॥
बल्याः परं वातह्राः स्वेदनाश्चरणायुधाः ।
गुरूष्णमधुरो नातिधन्वानूपनिषेवणात् ॥ ६७ ॥
तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान् ।
पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ॥ ६८ ॥
मन्दवातेषु शस्यन्ते शैत्य-माधुर्य-लाघवात् ।
लावाः कषायमधुरा लघवोऽग्निविवर्धनाः ॥ ६६ ॥
सन्निपातप्रशमनाः कटुकाश्च विपाकतः ।
कषायमधुराः शीता रक्तपित्तनिबर्हणाः ॥ ७० ॥
विपाके मधुराश्चैव कपोता गृहवासिनः ।
तेभ्यो लघुतराः किंचित्कपोता वनवासिनः ॥ ७१ ॥
शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ।
शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ॥ ७२ ॥
शोष-कास-क्षय-हितं संग्राहि लघु दीपनम् ।
कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः ॥ ७३ ॥
शशः स्वादुः प्रशस्तश्च संनिपातेऽनिलावरे ।
चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ॥ ७४ ॥
सन्निपातप्रशमनाः शमना मारुतस्य च ।
मधुरार्मधुराः पाके त्रिदोषशमनाः शिवाः ॥ ७५ ॥
लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः ।
गोधा विपाके मधुरा कषायकटुका रसे ॥ ७६ ॥
वात-पित्त-प्रशमनी बृंहणी बलवर्धनी ।
शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ॥ ७७ ॥
वात-पित्त-कफघ्नश्च कास-श्वास-हरस्तथा ।
गुरूष्णमधुरा बल्या बृंहणा पवनापहाः ॥ ७८ ॥