सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 749, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 749

वस्तुनिष्ठप्रश्नाः ७२१
५१२. चलकरणानि कियन्ति?
(अ) चत्वारि (स) षट्
(ब) पञ्च (द) सप्त
५१३. ववञ्च बालवञ्चैव कौलवं तैतिलं तथा।
गराख्यं वणिजं चैव विष्टिर्ज्ञेया तु सप्तमी ॥
इति कस्य वाक्यम्?
(अ) पराशरस्य (स) कश्यपस्य
(ब) शौनकस्य (द) गर्गस्य
५१४. जन्मराशितः कस्मिन् राशिगतः सूर्यः शुभदो भवति?
(अ) षष्ठराशिगतः (स) दशमराशिगतः
(ब) तृतीयराशिगतः (द) एकादशराशिगतः
५१५. जन्मराशितः कतमः राशिगतश्चन्द्रः शुभफलदः?
(अ) तृतीयराशिगतः (स) षष्ठराशिगतः
(ब) दशमराशिगतः (द) सप्तम-प्रथमराशिगतः
५१६. जन्मराशितः कतमः राशिगतो गुरुः शुभः?
(अ) ७-९-२-५ राशिगतः (स) षष्ठराशिगतः
(ब) अष्टमराशिगतः (द) दशमराशिगतः
५१७. जन्मराशितः कतिराशिगतो भौमः सुखयति?
(अ) ३-६राशिगतः (स) पञ्चमराशिगतः
(ब) चतुर्थराशिगतः (द) सप्तमराशिगतः
५१८. चतुर्थद्वितीयचतुर्थदशमाष्टमराशिगतः को ग्रहः शुभो भवति?
(अ) सूर्यः (स) बुधः
(ब) भौमः (द) गुरुः
५१९. षष्ठतृतीयराशिगतः को ग्रहः सुखं ददाति जनम्?
(अ) गुरुः (स) शनिः
(ब) शुक्रः (द) राहुः
५२०. कतमो राशिगताः सर्वे ग्रहाः शुभदाः?
(अ) अष्टमराशिगताः (स) दशमराशिगताः
(ब) नवमराशिगताः (द) एकादशराशिगताः
५२१. जन्मराशितः कस्मिन् राशिगतः सूर्यः रोगान् हन्ति?
(अ) षष्ठराशिगतः (स) सप्तमराशिगतः
(ब) पञ्चमराशिगतः (द) नवमराशिगतः
बृ० भ० द्वि०-४६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA