बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 718, कुल 760 में से
संदर्भ में पढ़ें६९० बृहत्संहिता
२२०. रक्तजिह्वा के भवन्ति?
(अ) योगिनः (स) भोगिनः
(ब) रोगिणः (द) रागिणः
२२१. कृष्णतालुर्नरो यस्तु स भवेत् कुलनाशनः ।
विकृतं स्फुटितं तालुर्यस्य तस्य न शोभनम् ॥
कस्य वाक्यमिदम्?
(अ) शौनकस्य (स) गर्गस्य
(ब) वसिष्ठस्य (द) समुद्रस्य
२२२. सौम्यञ्च संवृतं वक्त्रममलं यस्य देहिनः ।
महाराजो भवेन्नित्यं विपरीते तु निर्धनः ॥
इति कस्य वचनम्?
(अ) समुद्रस्य (स) कश्यपस्य
(ब) शौनकस्य (द) पराशरस्य
२२३. स्त्रीमुखं निरपत्यानां मण्डलं शाठ्यसेविनाम् ।
दीर्घं मुखञ्च निःस्वानां भीरुवक्त्रा दुराशयाः ॥
इति कस्य वाक्यम्?
(अ) शौनकस्य (स) पराशरस्य
(ब) कश्यपस्य (द) समुद्रस्य
२२४. स्निग्धमस्फुटिताग्रं च सन्नतं श्मश्रु चेष्यते ।
रक्तैरल्पैस्तथा रूक्षैः श्मश्रुभिस्तस्कराः स्मृताः ॥
कस्येदं पद्यम्?
(अ) शौनकस्य (स) पराशरस्य
(ब) कश्यपस्य (द) समुद्रस्य
२२५. ऋज्वी स्वल्पच्छिद्रा नासा केषाम्?
(अ) दुर्भाग्यानाम् (स) सभाग्यानाम्
(ब) सुखयुक्तानाम् (द) निर्धनानाम्
२२६. सकृत्क्षुतं भोगवतां द्विर्धनाय चिरायुषे ।
चतुः स्याद्रोगनाशाय परमस्मात् तदीशजाः ॥
इति कस्य वचनम्?
(अ) व्यासस्य (स) पराशरस्य
(ब) कश्यपस्य (द) नारदस्य
२२७. मन्त्रित्वं स्थूलदृशां श्यावाक्षाणां भवति सौभाग्यम् ।
दीना दृग्निःस्वानां स्निग्धा विपुलार्थभोगवताम् ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA