बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 710, कुल 760 में से
संदर्भ में पढ़ें६८२ बृहत्संहिता
(अ) कश्यपस्य (स) गर्गस्य
(ब) भरद्वाजस्य (द) बृहस्पतेः
१५४. देवता कुत्र विहरन्ति?
(अ) उपवनेषु (स) वापीषु
(ब) वनेषु (द) तडागेषु
१५५. हरितोज्ज्वलतोयाढ्या वाप्या पक्षिभिरावृताः ।
वनोपवनमालिन्यो नित्यमुत्फुल्लितद्रुमाः ॥
इति कस्य वाक्यम्?
(अ) वसिष्ठस्य (स) गालवस्य
(ब) पराशरस्य (द) कश्यपस्य
१५६. कतिविधा प्रासादाः?
(अ) दशविधा (स) अष्टादशधा
(ब) एकादशविधा (द) विंशतिप्रकाराः
१५७. प्रासादानां विंशतिनामानि केन प्रतिपादितानि?
(अ) वसिष्ठेन (स) आर्यभट्टेन
(ब) वराहमिहिरेण (द) भास्करेण
१५८. द्वात्रिंशद्धस्तविस्तीर्णं चतुर्द्वारं षडश्रिकम् ।
भूमिकास्तत्र कर्तव्या विचित्रकुहरान्विता ॥
किन्नाम्नः प्रासादलक्षणमिदम्?
(अ) मेरोः (स) कैलासस्य
(ब) मन्दरस्य (द) विमानस्य
१५९. अष्टोत्तरशताङ्गुलप्रमाणा भूमि कस्य मतानुसारम्?
(अ) मयस्य (स) पराशरस्य
(ब) कश्यपस्य (द) शौनकस्य
१६०. 'चतुर्भिरधिकाशीतिरङ्गुलानान्तु भूमिका' इति कस्योक्तिः?
(अ) कश्यपस्य (स) पराशरस्य
(ब) मयस्य (द) विश्वकर्मणः
१६१. कपोतपालिरहितं मानं चतुरशीतिकम् ।
भूमिकानां सह तया शतमष्टोत्तरं स्मृतम् ॥
कुतः गृहीतमेतत्?
(अ) तन्त्रसारतः (स) सनत्कुमारसंहितातः
(ब) शारदातिलकतः (द) वसिष्ठसंहितातः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA