बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 332, कुल 728 में से
संदर्भ में पढ़ें२९० बृहत्संहिता
मूर्खा विज्ञानहीनाश्च निर्मर्यादा नरास्तथा।
परदाररता नीचाः केतोरिति विनिर्दिशेत्॥
तथा च समाससंहितायाम्—
भानोरङ्गकलिङ्गवङ्गयमुनाः श्रीपर्वताः पारता
बाह्लीकोत्कटसुह्यशोणमगधाः प्राङ्नर्मदार्धशकाः।
कौशाम्बी शबरान्ध्रपौण्ड्रयवना याम्याश्रिता मेकला-
श्रीनोदुम्बरवर्धनमानविकटाश्मपेक्ष्मुमत्याश्रिताः ॥
जलपर्वतदुर्गकोशला वनिताराज्यतुषारतङ्गणाः।
वनवासहलाः सरस्वती शीतांशोर्भ्रुकच्छरोमकाः।
क्षितिजस्य महानदी पयोष्णी वेणा वेत्रवती च मालती।
मलयद्रविडाश्मकान्ध्रचोला भीमार्थे त्वपरे च ये स्थिताश्च॥
पारेविन्ध्यं पश्चिमः शोणभागो गोदावर्याः कूलमद्रिर्महेन्द्रः।
सिप्रा सिन्धुर्भुमिजस्येति देशा वैदेहाख्याः कोङ्कणाः केरलाश्च॥
सौम्यस्य सौराष्ट्रिकभोजदेशा गङ्गाश्रिताश्चोत्तरकूलनद्यः।
विन्ध्यार्धमन्त्यं मथुरापुरस्तात् सुवास्तुसिन्ध्वद्रिगुहाश्रिताश्च॥
जीवस्य सारस्वतमत्स्यशाल्वाः प्राक्सिन्धुभागो मथुरापरार्धम्।
स्रुघ्नः शतद्रू रमठा विपाशा त्रैगर्त्तयौधेयकपारताश्च॥
देशा भृगोस्तक्षशिला वितस्ता गान्धारकाः कैकयमालवाश्च।
दाशार्णकौशीनरचन्द्रभागाश्चैद्याह्वसिप्रास्थलकालकाख्याः ॥
सरस्वती यत्र गता प्रणाशं वेदस्मृती मालवकाः सुराष्ट्राः।
पाश्चात्यदेशा विदिशा मही च सौरेः स्मृताः पुष्करमर्बुदश्च॥
राहोः कृतघ्नकुलपांसननीचशूद्रा वोक्काणशूलिकनियुद्धविदुग्रकोपाः।
गोमायुभक्षगिरिदुर्गनिवासिनश्च गर्भस्थहिंस्रपरदाररताः खलाश्च॥
शिखिनो वनसंस्थितावगाणा मरुभूपह्लवचोलहूणचीनाः।
व्यवसायपराक्रमोपपन्नाः परदारानुरता मदोत्कटाश्च॥ इति॥३७-३८॥
अथैतेषां प्रयोजनमाह—
उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो
यदि च न हतो निर्घातोल्कारजोग्रहमर्दनैः।
स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः
स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः ॥३९॥
उदय समय में निर्मल, विपुल, स्वभावस्थित, निर्घात, उल्का, धूलि तथा ग्रहयुद्ध से
अहत, अपनी राशि में स्थित, उच्चगत या शुभग्रह ( चन्द्र, बुध, गुरु और शुक्र ) से दृष्ट
ग्रह जिनका स्वामी हो, उनके लिये शुभ करने वाला होता है॥३९॥
CC-0. JK Sanskrit Academy, Jamṁmu. Digitized by S3 Foundation USA