बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 95, कुल 1105 में से
संदर्भ में पढ़ें76 बृहत्संहितायाम् [Adh. VI. Sl. 2-3
तथा च वृद्धगर्गः ।
उदयात् नवमे कुर्यादष्टमे सप्तमेऽपि वा ।
निवृत्तिं लोहिताङ्गस्तु तदुष्णं वक्त्रमुच्यते ॥
नरोऽग्निजीविनो ये च पचन्ति च दहन्ति च ।
तेषामुत्पद्यते तापो जायते धनसङ्क्षयः ॥
द्वादशदशैकादशनक्षत्राद्वक्रिते कुजेऽश्रुमुखम् ।
दूषयति रसानुदये करोति रोगाननावृष्टिं च ॥२॥
Sloka 2.—If the retrograde motion of Mars referred
to above commence at the 12th, the 10th or the 11th
asterism reckoned from the star occupied by Mars at the
time of his last emergence from the Sun's conjunction,
it is known as Asrumukha. The different kinds of tastes
will be vitiated and diseases and drought will break out
when he reappears after his next conjunction with the
Sun.
तथा च वृद्धगर्गः
दशमैकादशे वाऽपि द्वादशे वाऽपि वक्रिते ।
लोहिताङ्गे ग्रहे ज्ञेयं वक्त्रमश्रुमुखं च तत् ॥
तत्र वर्षति पर्जन्यो दूषयित्वा शुभान् रसान् ।
ते दुष्टा दूषयन्त्याशु नॄणां धातून् तथा भृशम् ॥
बहवो व्याधयः क्रूरा उत्पद्यन्ते शरीरिणाम् ।
बहुभिः कारणैरेतैस्ततो लोकः प्रलीयते ॥
व्यालं त्रयोदशाच्चातुर्दशाद्वा विपच्यतेऽस्तमये ।
दंष्ट्रिव्यालम्गेभ्यः करोति पीडां सुभिक्षं च ॥३॥
Sloka 3.—When the retrograde motion alluded to
begins while Mars transits the 13th or the 14th asterism,
it is known as ब्याल Vyala and lapses after Mars is next
eclipsed. People will suffer from creatures having sharp
teeth, serpents and other reptiles and wild animals.
There will however be general prosperity.