सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 92, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 92

Adh. V. Sl. 91-96] पञ्चमोऽध्यायः 73
तथा च कश्यपः
पर्यन्ते विमलत्वं स्यात्तमो मध्ये यदा भवेत् ।
मध्याख्यदेशनाशः स्याच्छरत्सस्यं विनश्यति ॥
एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किन्त्वत्र ।
पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥९१॥
मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नसङ्क्षयं कुरुते ।
नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ॥९२॥
उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम् ।
स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरीपीडाम् ॥९३॥
परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयम् ।
रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥९४॥
निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम् ।
ग्रहयुद्धे नृपयुद्धं केतुश्च तदेव सन्दृष्टः ॥९५॥
अविकृतसलिलनिपातः सप्ताहान्तः सुभिक्षमादेश्यम् ।
यच्चाशुभं ग्रहणजं तत्सर्वं नाशमुपयाति ॥९६॥
बृ. सं. 10