बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 72, कुल 1105 में से
संदर्भ में पढ़ेंAdh. V. Sl. 28-31] पञ्चमोऽध्यायः 53
Sloka 27.—If the Sun or the Moon rises or sets
being eclipsed at the time, the crops of the शरद्-Sarat
season will fail and the kings in the land will suffer. If
such an eclipse be a total one and if the eclipsed disc
be aspected by malefics as well, there will be famine
and pestilence all over the country.
तथा च वृद्धगर्गः
उद्गच्छति गृहीतश्चेदस्तं वा यदि गच्छति ।
शारदं तु तदा सस्यं जातं जातं विनश्यते ॥
ग्रैष्मेण तत्र जीवन्ति नरा मूलफलेन वा ।
भयदुर्भिक्षरोगैश्च तदा सम्पीयते जगत् ॥
तथा च ऋषिपूत्रः
यावतोंऽशान् ग्रसित्वेन्दोरुदयत्यस्तमेति वा ।
तावतोंऽशान् पृथिव्यास्तु तम एव विनाशयेत् ॥
उदयेऽस्तमये वाऽपि सूर्यस्य ग्रहणं भवेत् ।
तदा नृपभयं विन्द्यात् परचक्रस्य चागमम् ॥ तथा च
चिरं गृह्णाति सोमाकौं सर्वं वा ग्रसतं यदा ।
हन्यात् स्फीतान् जनपदान् वरिष्ठांश्च जनाधिपान् ॥
ग्रैष्मेण तत्र जीवन्ति नराश्वाम्बुफलेन वा ।
भयदुर्भिक्षरोगैश्च सम्पीड्यन्ते प्रजास्तथा ॥
अर्द्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च ।
अग्न्युपजीविगुणाधिकविप्राश्रमिणो युगेऽभ्युदितः ॥२८॥
कर्षकपाखण्डिवणिक्क्षत्रियबलनायकान् द्वितीयांशे ।
कारुकशूद्रम्लेच्छान् खतृतीयांशे समन्त्रिजनान् ॥२९॥
मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः ।
तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे ॥३०॥
स्त्रीशूद्रान् षष्ठेंशे दस्युप्रत्यन्तहाऽस्तमयकाले ।
यस्मिन् खांशे मोक्षस्तत्रोक्तानां शिवं भवति ॥३१॥