बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 700, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LXXXVIII. Sl. 3-9.] अष्टाशीतितमोऽध्यायः 681
belonging to the above categories move contrary to
their fixed periods, they lead to the destruction of the
country or the King.
हयनरभुजगोष्ट्रद्वीपिसिंहर्क्षगोधा
वृकनकुलकुरङ्गश्वाजगोव्याघ्रहंसाः ।
पृषतमृगशृगालश्वाविदारुण्यान्यपुष्टा
द्युनिशमपि बिडालः सारसः सूकरश्च ॥३॥
Sloka 3.—Those that are both diurnal and nocturnal
are the horse, man, snake, camel, leopard, lion, bear,
iguana, wolf, mungoose, deer, dog, goat, cow, tiger,
swan, spotted antelope, stag, jackal, porcupine, cuckoo,
cat, crane and boar.
भषकूटपूरिकुरबककरायिकाः पूर्णकूटसञ्ज्ञाः स्युः ।
नामान्युलूकचेच्याः पिङ्गलिका पेचिका हक्का ॥४॥
कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचञ्चुः ।
छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ॥५॥
स्रोतस्तडागभेद्येकपुत्रकः कलहकारिका च रला ।
झङ्कारवच्च विरुवति निशि भूमौ व्यङ्गुलशरीरा ॥६॥
दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तोऽसौ ।
धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ॥७॥
गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम ।
गृहगोधिकेति सञ्ज्ञा विज्ञेया कुड्यमत्स्यस्य ॥८॥
दिव्यौ धन्वन उक्तः क्रोडः स्यात् सूकरोऽथ गौरस्रा ।
श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ॥९॥
Slokas 4-9.—The synonyms of the bird Pūrṇakūṭa
are Bhaṣa, Kūṭapūrī, Kurabaka and Karāyikā ; those of
Ulūkaceṭī, Piṅgalikā, Pechikā and Hakka ; those of
बृ० सं 86