सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 651, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 651

बृहत्संहितायाम्
मुक्तालक्षणम् ॥८१॥
द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि ।
मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥१॥
सिंहलकपारलौकिकसौराष्ट्रकताम्रपर्णिपारशवाः ।
कौबेरपाण्ड्यवाटकहैमा इत्याकरास्त्वष्टौ ॥२॥
बहुसंस्थानाः स्निग्धा हंसाभाः सिंहलाकराः स्थूलाः ।
ईषत्ताम्राः श्वेतास्तमोवियुक्ताश्च ताम्राख्याः ॥३॥
कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः ।
न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ॥४॥
ज्योतिष्मत्यः शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः ।
लघु जर्जरं दधिनिभं बृहद्विसंस्थानमपि हैमम् ॥५॥
विषमं कुंब्भश्वेतं लघु कौबेरं प्रमाणतेजोवत् ।
निम्बफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटकभवाः ॥६॥