सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 594, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 594

Adh. LXIX. Sl. 29-32.] एकोनसप्ततितमोऽध्यायः 575
खट्वाङ्गवीणावृषचापवज्रशक्तीन्द्रशूलाङ्कितपाणिपादः ।
भक्तो गुरुब्राह्मणदेवतानां शताङ्गुलः स्यात्तु सहस्रमानः ॥२९॥
मन्त्राभिचारकुशलः कृशजानुजङ्घो
विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा ।
सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः
शस्त्रेण मृत्युमुपयात्यथवानलेन ॥३०॥
Cf. सारावली Adh. 37—31, 32, 33.
॥ नृपानुचरणलक्षणम् ॥
पञ्चांपरे वामनको जघन्यः कुब्जोऽथवा मण्डलकोऽथ साची ।
पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसञ्ज्ञाः शृणु लक्षणैस्तान् ॥३१॥
सामी is another reading for साची.
सम्पूर्णाङ्गो वामनो भग्नपृष्ठः किञ्चित्चोरुर्मध्यकक्ष्यान्तरेषु ।
ख्यातो राज्ञां द्वेष्य भद्रानुजीवी स्फीतो राजा वासुदेवस्य भक्तः ॥